SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ ૧. લવાદી ચર્ચામાં આવેલા નિર્ણયના સમર્થક શ્રી અર્હત્તિથિભાસ્કર ] भाद्रशुक्लपञ्चमीक्षये च भाद्रशुक्लचतुर्थ्या सह तस्या अप्याराधनं सम्भवति, पर्वानन्तरपर्वतिथेवृद्धौ पूर्वोत्तरपर्वतिथ्योर्व्यवधानेनाराधनं न विरुद्धम्, अतः पाक्षिकचातुर्मासिकसांवत्सरिकप्रतिक्र मणतिथीनां यत्र दिने समाप्तिः पञ्चाङ्गेनावेद्यते तद्दिन एव तदाराधनं कार्यमित्यादिरेव जैनशास्त्रपुरातनजैनसदाचारादिभिस्समर्थितो भवति । श्रीसागरानन्दसूरेः श्रीरामचन्द्रसूरेश्च स्वपक्षस्थापनपरपक्षप्रत्यवस्थापने, मध्यस्थ निर्णयपत्रम्, आगमानुसारिमतव्यवस्थापनम्, शासनजयपताकां विवादास्पद विषयसम्बद्धान् निखिलानुपलभ्यमानजैनशास्त्रग्रन्थार्थांश्च सम्यक् सुचिरमालोच्य पर्वतिथीनां क्षयवृद्धिप्रसङ्गे यो जैनशास्त्र सामाचार्यनुसारी सिद्धान्तोऽस्माभिर्व्यवास्थापि तदनुसारेणैव जैनजनैर्निजधार्मिकानुष्ठाने प्रवर्तितव्यमितिनिर्दिशन्तस्समुद्घोषयामो वयं यदस्माकं समितिरस्मद्व्यवस्थापित सिद्धान्तविरुद्धवादिमण्डल्या सह प्रत्यक्षशास्त्रार्थविचाराय सर्वदा बद्धपरिकरा वर्तत इति । " श्रीशासनजयपताकायां " पूर्वं कथंचित् कृतहस्ताक्षरेषु प्रमुखाणामन्येषां च विदुषां तस्याः प्रतिकूला " अहत्तिथिभास्कर " स्य चानुकूलाः सम्मतयः ૬૯ १. काशीस्थराजकीय संस्कृत महाविद्यालयाध्यक्षाणां साहित्याचार्य, साहित्यवारिधि, साहित्यवाचस्पतिप्रभृत्यने कोपाधिविभूषितानां श्रीकाशीविद्वत्परिषत्सभापतीनां महामहोपाध्याय - पण्डितप्रवर - श्रीनारायणशास्त्रिखिस्तेमहोदयानां "सम्मतिः " श्रीमन्महामहोपाध्याय-पं०- चिन्नस्वामिशास्त्रिमहोदयैर्जेनानां चतुर्दशी पूर्णिमादिपर्वतिथिक्षयवृद्धिविषये " शासनजयपताका " - नामको निबन्धो विलिख्य मह्यं प्रदर्शित आसीत् । तदानां कार्यान्तरव्यग्रोऽहन्तन्निबन्धमापातत एव निरीक्ष्य शास्त्रिवराणां गौरवात्तत्र हस्ताक्षरमकरवम् । इदानीं द्वित्समित्या सङ्कलितम् “ अर्हत्तिथिभास्करं ” नाम निबन्धं समीक्ष्य तत्र बहुविधप्राचीन जैनधर्मशास्त्रग्रन्थोद्धरणानि च दृष्ट्वा निष्पक्षपातया दृशा परीक्ष्य " अर्हत्तिथिभास्कर " पक्षमेव समीचीनं मन्ये । दूये च. पूर्वमापाततः कृतस्य स्वहस्ताक्षरस्य विषये । धार्मिकजैनै: " अर्हत्तिथिभास्कर " पक्ष एव नूनमवलम्बनी इति सम्मन्ये । काशी - पौ० शु० ५, २००६ वै० ह० नारायणशास्त्री खिस्तेः २. वाराणसीस्थविरलासंस्कृतमहाविद्यालयाध्यक्षाणां वैयाकरणशिरोमणीनां दर्शनधर्मशास्त्रादिप्रकाण्डपण्डितानां काशीकोविदकुलालङ्काराणां श्रीमतां सुप्रसिद्धयशसामनेकोत्तमग्रन्थकाराणां तत्र भवतां पं० सभापतिशर्मोपाध्यायानां " सुसम्मतिः " श्रीमन्माननीयानां प्रियवराणां कतिपय जैन विद्वत्प्रदर्शिततिथिवृद्धिक्षयजैनधर्मग्रन्थादवगत्य निर्मिततद्विषयकव्यवस्थानां म० म० विद्वद्वरचिन्नस्वामिनां " शासनजयपताकायां " समासतस्तद्व्यवस्थात ra किञ्चित्पर्यालोच्य स्वाभिमतपरिपोषकत्वेन हस्ताक्षरं मया विहितमिति स्मर्यते । साम्प्रतं जैनाभिमतपर्वतिथीनां वृद्धिक्षयविषये मतभेदेन विस्तृतव्यवस्थाद्वयं निबन्धरूपेण विस्तरतोऽवलोक्य परीक्ष्य च पूर्वं हस्ताक्षरं जैनग्रन्थरहस्यानवबोधविजृम्भणमिति मन्यमानेन मया " अर्ह - त्तिथिभास्कर "नामधेया व्यवस्थैव शास्त्रतस्तदनुकूलतर्कतश्च प्रमाण्यते काशी - पौष शु० ७, २००६ वै० ह० सभापतिशर्मोपाध्यायेन Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.005673
Book TitleTithidin ane Parvaradhan tatha Arhattithibhaskar
Original Sutra AuthorN/A
AuthorJain Pravachan Pracharak Trust
PublisherJain Pravachan Pracharak Trust
Publication Year1977
Total Pages552
LanguageGujarati, Hindi, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy