________________
१८
| [ જૈન દષ્ટિએ તિયિદિન અને પરાધન-સંગ્રહવિભાગ नैव युक्तो भवेदिति चतुर्दशीभाद्रशुक्लचतुर्योस्तदुत्तरतिथीनां क्षयवृद्धिदशायामनुकर्षणपुरस्करणयोः कर्तव्यताप्रचारे कृतपरिकरः श्रीमान् सागरानन्दसूरिस्तद्विराधनसामास्पदं कुतो न भवेदित्यनुचिन्तनीयम् ।
एतावतो लेखस्य सारः संक्षेपतस्तावदेवमवसेयः
(१) श्रीश्वेताम्बरमूर्तिपूजकजैनजनतासु श्रीविजयदेवसूरिसमनन्तरं देवसूरिंगच्छीयतया गीयमानेन तपागच्छीयचतुर्विधसङ्घन टिप्पणोक्ते पर्वतिथीनां क्षयवृद्धी अनभ्युपगम्य ततः पूर्वासाम् पूर्वतराणां वाऽपर्वतिथीनां क्षयवृद्धी स्वीकृत्य पर्वतिथ्याराधनव्यवहारो यः कियतः कालात् प्रचलितो विद्यते स जैनागमानामनुपजीवकस्तत्प्रतिकूलो जीतव्यवहारपदानोंऽसनातनो यतिप्रधानाद् शानाचारशैथिल्यकालात्प्रवृत्तश्च ।
(२) “क्षये पूर्वा तिथिः कार्या" इत्यादिवचनं क्षीणायाः वृद्धायाश्च पर्वतिथेराराधनादिननिश्चयाय प्रवृत्तम् । तच्च पर्वतिथीनां पश्चाङ्गोक्तक्षयवृद्धयोर्यथाऽवस्थितावप्युपपद्यते, नातः पञ्चाङ्गमर्यादोन्मदिनि पर्वतिथीनां क्षयवृद्धयोस्तत्पूर्वपूर्वतरापर्वतिथिगतताप्रतिपादने तत्तात्पर्य स्वीकार्यम् । ___ (३) कल्याणकतिथीनामपि पर्वतिथित्वस्य आराधनायां पौर्णमास्यविशेषस्य च शास्त्रेषु प्रति-. . पादनात् क्षीणवृद्धपर्वतिथिसामान्यस्याराधनादिननिश्चयाय प्रवृत्तस्य "क्षये पूर्वा" इत्यादिशास्त्रस्य कल्याणकतिथीनामप्याराधनादिननिश्चायकत्वमस्ति ।
(४) पर्वतिथीनां पूर्वसूर्योदयसमये प्रवृत्तिरुत्तरसूर्योदयसमये निवृत्तिश्चेति नैष नियमो जैनशास्त्रानुमतः किन्त्वन्यतिथीनामिव तासामपि प्रवृत्त्यादिविषये पञ्चाङ्गमेव प्रमाणम् । जैनशास्त्राणि तु याः पर्वतिथयो यस्मिन् दिने समाप्तिमुपयान्ति तस्मिन् दिने सूर्योदयसमयात्तदाराधनमारब्धव्यमारम्भोत्तरसूर्योदयानन्तरञ्चोपसंहर्तव्यमित्येवावगमयति ।
(५) जैनटिप्पणव्युच्छेदानन्तरं सर्वतिथिप्रवृत्त्यादिपरिच्छेदाय वैदिकसम्प्रदाये प्रचलितटिप्पणस्यैव प्रमाणत्वेन जैनजनोपादेयतायाः जैनशास्त्रादिष्टतया तत्प्रातिकूल्येन तिथीनां क्षयवृद्धयादिकल्पनमनुचितम् ।
(६) पञ्चाङ्गानुसारेण याः पर्वतिथयो यस्मिन्नेकस्मिन्नेव दिने औदयिक्यस्तासामाराधनं तद्दिने एव कर्तव्यतया जैनशास्त्रादिष्टम् , अन्यथा क्रियमाणञ्च प्रत्यवायापादकं भवति ।
(७) क्षीणायाः पर्वतिथेः क्षयदिने वृद्धायाश्च परदिने य आराधनाऽऽदेशो विद्यते स तद्दिने तत्तिथिसमाप्तिहेतुक एव ।।
(८) एकस्मिन् दिने द्वयोः पर्वतिथ्योः व्यपदेश्यता, विद्यमानताऽऽराधनीयता च तत्त्वतरङ्गिण्यादिग्रन्थेषु विनाविप्रतिपत्तिं प्रतिपादिता।
(९) पूर्णिमाऽमावास्यापेक्षया चतुर्दश्याः भाद्रशुक्लपञ्चम्यपेक्षया भाद्रशुक्लचतुर्थ्याश्च प्राधान्येन तयोष्टिप्पणोक्ते मुख्यकाल एवाराधनाया औचित्येन तदाराधनाऽन्यथाकरणमयुक्तमशास्त्रीयञ्च ।
(१०) क्षीणायास्तिथेरत्यन्तलोपो न भवत्यतस्तस्या अप्येकस्वतन्त्रतिथितया गणना न्याय्यैव । एवं वृद्धायास्तिथेरपि न तिथिद्वयात्मता किन्त्वेकतिथ्यात्मतैवेति नातः पर्वतिथीनां वास्तवक्षयवृद्धयोः स्वीकारेऽपि तासां द्वादशसंख्याकत्वनियमहानिप्रसक्तिः ।
(११) “उदयं मि जा तिही सा" इत्यादेः "क्षये पूर्वा" इत्यादेश्चोत्सर्गापवादभावो मुख्यकाले पर्वतिथ्याराधनालोपपर्यवसायी शास्त्रयुक्तिविरुद्धः।
(१२) या पर्वतिथिः साधारणतिथिर्वा क्षीणतया वृद्धतया वा पञ्चाङ्गेन यथा निर्दिश्यते सा तथैव मान्या, या पर्वतिथिर्यत्र दिने समाप्ति लभते तत्रैव दिने सा समाराध्या, पूर्णिमाऽमावास्ययोः क्षये चतुर्दश्यौयिकीत्वदिने चतुर्दश्या सह पूर्णिमाया अमावास्यायाश्चाराधनं सम्भवति,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org