________________
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયના સમર્થક શ્રી અર્જુત્તિથિભાસ્કર ]
१७
कृतः स्यादेव परं क्वापि द्वितीयादीरुपादाय तत्क्षयवृद्धिविचारो विहितो नोपलभ्यते, अतोऽनुमीयते यत्तद्वचसः प्रधानपर्वतिथिपरत्वमेव मन्यन्ते शास्त्रकारा इति चेन्न, पञ्चम्यादिषु कल्याणकतिथित्वस्यापि सत्त्वेन तासां क्षयवृद्धिविचारेण कल्याणकतिथीनामपि क्षयवृद्धिविचारस्य गता - तया पृथक् तदुपादानेन विचारस्य निष्प्रयोजनत्वादेवाकृतत्वेन तथाऽनुमातुमशक्यत्वात् । अतः “ क्षये पूर्वा ” इत्यादिवचनस्य कल्याणकतिथिभिन्नपर्वतिथिमात्रपरत्वसाधकप्रमाणस्याभावात् सदाचारस्य च कल्याणकतिथिपरता साधकस्य सद्भावात् तस्य प्रधानाप्रधानसाधारणतिथिपरत्वमेव निष्कम्पमङ्गीकार्यम् ।
किञ्च श्रीसेनप्रश्नस्य तृतीयोल्लासे "एकादशीवृद्धौ श्रीहीरविजयसूरीणां निर्वाणम हिमपौषधोपवासकृत्यं पूर्वस्यामपरस्यां वा विधेयम्" इत्यादिरूपेण यदा वृद्धैकादश्याः कल्याणकाऽपेक्षयाऽपकृष्टतिथिभावेन ग्रहणार्थं वृद्धपर्वतिथिरीतिराहता दृश्यते तदा कल्याणकतिथिवृद्धयादिप्रसङ्गे वृद्धाष्टम्याद्याराधनाव्यवस्थापनरीत्यादरे सन्देहस्य स्थानमेव कथमवशिष्यत इति सुधीभिर्विभावनीयम् ।
न च क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरा, श्रीवीरज्ञाननिर्वाणं कार्यं लोकानुगैरिह " इति घोषघटकेन चरमचरणद्वयेन कल्याणकतिध्याराधनस्य लोकवृत्तानुसारित्वकथनादाद्यपादद्वयस्य कल्याणकतिथ्यसाधारण्यमसन्दिग्धं वेद्यमिति वाच्यम्, पूर्वार्धन क्षयवृद्धिस्थले सर्वपर्वतिथिसमाराधनव्यवस्थायां विहितायां श्रीमहावीरनिर्वाणस्यापि पर्वतिथ्यन्तरवत् करणीयतायाः प्राप्ततया दीपावलीदिन एव जैनसमाजे प्रचलितायास्तदाराधनप्रणालिकायाः रक्षाराहित्यस्य प्रसक्तत्वेन तत्परित्राणाभिप्रायेण श्रीवीरज्ञाननिर्वाणस्यैकलस्य लोकरीत्या दीपावलीदिन एव कर्तव्यताया उपदेशात् ।
अत्रेदं नृनमवधेयं यत् कल्याणकतिथीनां क्षये क्षीणानां पर्वतिथीनामिव तासामप्यौदयिकीत्वसम्पादनेनैवाराधनमाननं न्याय्यम्, अन्यथा प्रथम दिने सूर्योदयानन्तरं प्रवृत्तानां द्वितीयदिने च सूर्योदयानन्तरं निवृत्तानां कल्याक तिथीनान्तथाविधप्रधानपर्वतिथिन्यायेन " तिथिश्च प्रातः प्रत्याख्यानवेलायां या स्यात् सा प्रमाणम्” इति श्राद्धविधिप्रकरणस्थवचनानुसारेण द्वितीयदिन एवाराधनानियमः श्रीजैनसङ्खेन नानुमन्येत, किन्तु भूयस्त्वानुरोधेन प्रथमदिने एव स्वीक्रियेत । तथा च यदि " क्षये पूर्वा तिथिः कार्या ” इति वचनस्य कल्याणकतिथिविषयकत्वं नाङ्गीक्रियते तदाक्षीणकल्याणकतिथीनां परनयेनौदयिकीत्वसम्पादनस्यासम्भवतया तदाराधनमनुपपन्नमेव स्यात् । एवं तद्वचसः कल्याणकतिथिपरत्वाभावे कल्याणकतिथिवृद्धिस्थले श्रीजैनजनताऽऽहतो द्वितीयस्मिन्नेव दिने तदाराधननियमो ऽपि हीयेत, नियामकाभावेन कदाचित्पूर्वदिने कदाचिद् द्वितीयदिने कदाचिदुभयत्रैव वा यथाकामं तदाराधने प्रवृत्त्यापत्तेः परिहर्तुमनर्हत्वात् । तदभ्युपगम एव तत्त्वतरङ्गिणीपञ्चमपृष्ठगतः "आराध्यत्वे च पञ्चदशीकल्याणकतिथ्योरप्यविशेषः" इति ग्रन्थोऽपि संगच्छते ।
(५) पञ्चमेन हेतुनापि न मनोरथसिद्धिः, तद्वचसः कल्याणक तिथिपरताराहित्यवेदिनो वचनस्य तदितरपर्वतिथिमात्रपरतया तद्व्याख्यानस्य च क्वापि प्रामाणिके जैनशास्त्रग्रन्थेऽधुनावध्यदर्शनात् ।
(६) षष्ठेनापि प्रकारेण पराशयपोषणं दुःशकमेव, चतुर्थहेत्वालोचनप्रसङ्गे कथितेन पथा श्रीमहावीरनिर्वाणतिथ्याराधनाया एव लोकवृत्तानुसारितायाः जैनशास्त्रेषूपदेशात् ।
किञ्च कल्याणकतिथीनां द्वितीयाऽष्टम्याद्यपेक्षयाऽप्राधान्याद् यदि तासां क्षयवृद्धिस्थले तदनुरोधेन प्रधानपर्वतिथीनां टिप्पणोक्ते समये आराधनपरिहारस्य युक्तत्वं नेक्ष्यते तदा चतुर्दश्याः पाक्षिकचातुर्मासिकपर्वतिथितया पूर्णिमाऽमावास्यापेक्षयोत्कृष्टतरत्वेन भाद्रशुक्लचतुर्थ्याच सांवत्सरिकपर्व तिथितया भाद्रशुक्लपञ्चम्यपेक्षयोत्कृष्टतरत्वेन पूर्णिमाऽमावास्याभाद्र शुक्लपञ्चमीनां क्षयवृद्धिप्रसङ्गेऽपि तासामनुरोधेन तदुत्कृष्टतरोक्ततिथीनां टिप्पणोदितसमये समाराधनपरिहारोऽपि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org