________________
[ જૈન દષ્ટિએ તિથિદિન અને પર્વારાધન-સંગ્રહવિભાગ हि यदि टिप्पणनिर्दिष्टस्तत्तत्तिथिकाल एव मुख्योऽभ्युपेयते, तदा कल्याणकतिथीतरपर्वतिथिमाअपरत्वेऽपि पर्वान्तरपर्वतिथीनां क्षयादिस्थले पूर्वपर्वतिथीनां मुख्यकाले आराधनानुपपत्तिरपरिहार्यव परमते ।
( २ ) द्वितीयेनापि हेतुना विवक्षितोऽर्थः साधनानर्हः, धार्मिकानुष्ठानेऽपेक्षितसावधानतायाः यथावदनाश्रयणेन तादृशदोषेण तादृशपुरुषमासस्यावश्यकत्वात् । अन्यथा तस्य वचसो विवक्षिततिथिमात्रपरत्वाभ्युपगमेऽपि क्षीणां वृद्धां वाऽमावास्यां पूर्णिमां वाऽनवधाय चतुर्दश्याः टिप्पणप्रवेदित औदयिकीत्वदिने कृततदाराधनस्य कृते किं व्यवस्थाप्येत ?
(३) तृतीयेनापि हेतुना नाभिमतसिद्धिः तस्य वचसः कल्याणकतिथीतरपर्वतिथिमात्रपरत्वेऽपि प्रतिमासं तादृशीनां द्वादशपर्वतिथीनां सत्त्वेन तासु कतिपयपर्वतिथीनां प्रायः प्रतिमासं क्षयवृद्धयोनिर्देशस्य टिप्पणे सम्भवेन तादृशसर्वनिर्देशविषये तस्याप्रमाणिकत्वाङ्गीकारेऽन्यांशेऽप्यप्रामाण्यशङ्काप्रसङ्गेनाविश्वसनीयताऽऽपत्त्या क्षीणादितिथिविषयककथितसन्देहोत्थितेरवर्जनीयतया तद्वचोमूलभङ्गप्रसङ्गस्य दुश्चिकित्स्यत्वात्।
(४) प्रकरणबलादप्युक्तवचसः कल्याणकपर्वतिथिभिन्नपर्वतिथिमात्रपरत्वं स्वीकर्तुं न शक्यम् , तादृशप्रकरणस्याभावात् । तथा हि "क्षये पूर्वा" इत्यादिवचनमुमास्वातिवाचकप्रघोषत्वेन प्रसिद्धं केवलं श्रूयते, तस्य प्राच्यमौदीच्यं वा तत्प्रघोषयितुः किमपि वचनान्तरं न श्रूयते, येन प्रधानपर्वतिथिविचारप्रकरणे पठितत्वात् तत्स्थस्य तिथिपदस्य प्रधानपर्वतिथिमात्रपरत्वं कल्प्येत । न च क्षीणानां वृद्धानां च तिथीनामाराधनोपपादकतया तस्य प्रधानपर्वतिथिप्राकरणिकतास्वीकार इति सङ्गतं क्षीणानां प्रधानपर्वतिथीनामेवाराधनोपपत्तये तत्प्रघोषो न तु कल्याणकतिथीनामित्यस्यासिद्धतया तथा कल्पनाया असम्भवात् ।
किञ्च तद्वाक्यघटके तिथिपदे श्रुते यदि तेन नानार्थकेनेव बहवोऽर्था उपस्थाप्येरन् तदा कोऽर्थोऽत्राभिप्रेत इति भवेदभिप्रायमेदबुभुत्सा, यत्प्रशमनाय प्रकरणमपेक्ष्येतं । तिथिपदन्तु तिथित्वरूपसामान्यधर्मावच्छिन्नैकवृत्तिकमिति तेन तिथित्वरूपेण तिथिसामान्यस्योपस्थापनात् सामान्यधर्मावच्छिन्नवाचकपदप्रयोगबलादेव च सामान्यधर्मावच्छिन्ने तात्पर्यग्रहसम्भवेन प्रकरणस्यानपेक्षणात् , सामान्यधर्मावच्छिन्नवाचकपदस्य बाधकादिकमन्तरा विशेषधर्मावच्छिन्ने सङ्कोचासम्भवाच्च।
न च यथा घटसामान्यवाचिनो “ घटेन जलमाहर" इतिवाक्यस्थघटपदस्य सच्छिद्रे घटे जलाहरणकरणताया बाधिततया सच्छिद्रेतरघटमात्रबोधकता भवति, तथा “क्षये पूर्वा" इत्यादिवाक्यस्थतिथिपदस्यापि प्रधानपर्वतिथिमात्रबोधकतास्वीकारे किं बाधकमिति वाच्यम् , तथा स्वीकारसाधकामावस्यैव बाधकत्वाद् दृष्टान्तमात्रस्यासाधकत्वात् । ___ न च तथापि “प्राश्नन्ति ब्राह्मणा ओदनम्" इति पूर्वमीमांसाऽऽधानप्रकरणपठित आधानाङ्गभूतब्रह्मौदनप्राशनार्थं ब्राह्मणविधायके वाक्येऽविशेषश्रुतब्राह्मणपदस्याधानाङ्गाध्वर्वादिब्राह्मणमात्रबोधकतावत् उक्तवाक्यस्थतिथिपदस्यापि प्रधानपर्वतिथिमात्रबोधकता समुचितेति विपर्यस्तव्यम् , तत्र, आधानप्रकरणस्येवात्र प्रधानपर्वतिथिप्रकरणस्याभावात् । श्रीसागरानन्दसूरिणा तदादेशेन वाग्वर्षिणाऽपरेण वाऽपि तादृशप्रकरणमप्रदर्शयता प्रकरणशब्दप्रयोगमात्रस्यैव कृतत्वात् । ____ ननु तत्तद्ग्रन्थेषु प्रधानपर्वतिथीनामेव क्षयवृद्धिविषयको विचारो दृश्यते, यथा श्रीहीरप्रश्नस्य २२ पृष्ठे “यदि पञ्चमी तिथिस्त्रुटिता भवति" "पूर्णिमायाश्च त्रुटितायाम्" श्रीहीरप्रश्ने १४ पृष्ठे " पूर्णिमाऽमावास्ययोवृद्धौ” श्रीसेनप्रश्नस्य तृतीयोल्लासे “ एकादशीवृद्धौ” इत्यादि, यदि पुनः कल्याणकतिथीनामपि क्षयवृद्धी विचारणीये स्यातान्तदा तासामपि नामग्राहं क्षयवृद्धिविचारोऽपि
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org