________________
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયને સમર્થક શ્રી અહરિથિભાસ્કર ] औदयिकीत्वविधानपुरस्सरं तत्पूर्वपर्वतिथेस्तहिनेऽसत्त्वस्य व्यवस्थापनात् तस्याः वृद्धरेवासिद्धतया तत्र " वृद्धौ कार्या तथोत्तरा” इति वचनप्रवृत्तेरसम्भवेन प्रथमदिने तस्या औदयिकीत्वस्य द्वितीयदिने क्षीणोत्तरपर्वतिथेश्चौदयिकीत्वस्य निष्कण्टकतया प्रथमदिने पूर्वपर्वतिथेर्द्वितीयदिने च परपर्वतिथेराराधना निर्बाधेति वाच्यम् , अमादिरूपाया उत्तरपतिथेः क्षयनिर्देशेन “क्षये पूर्वा" इत्यादिपूर्वार्द्धस्य चतुर्दशीरूपायाः पूर्वपर्वतिथेवृद्धिनिर्देशेनोत्तरार्धस्य च युगपदेव प्रवृत्तत्वेनोक्तकल्पनाया असम्भवात् , “वृद्धौ कार्या तथोत्तरा” इति वचनोत्थानप्रयोजकस्य टैप्पणिकवृद्धिनिदेशस्य पूर्वपर्वतिथौ सत्त्वेन तत्र तद्वचनप्रवृत्तेर्दुष्परिहरत्वाञ्च । .. ___ "क्षये पूर्वा " इत्याद्याचार्योमास्वातिवाचकवचनस्य कल्याणकतिथिव्यतिरिक्तपर्वतिथिमात्रपरत्वं यदुपवर्णितं श्रीमता सागरानन्दसूरिणा, तन्न समञ्जसम् , तदीयतथाभ्युपगमबीजतया प्रतीयमानानां सदोषत्वात् , तथा हि तदभ्युपगमबीजतयाऽग्रेपदं निर्देक्ष्यमाणा एव हेतवः प्रतिभान्ति । यथा:
(१) यदीदं वचः कल्याणकतिथिविषयकमपि स्वीक्रियते तदा यदा अक्षीणाष्टम्याद्यनन्तरं काचित् क्षीणा कल्याणकतिथिः प्राप्यते तदा तस्या अनुरोधेन अक्षीणाष्टम्यादीनामप्याराधनं टिप्पणनिर्दिष्टे मुख्ये तत्समये नोपपद्यते । । ___(२) एवं यदाऽनेकाः प्रधानाप्रधानपर्वतिथयः क्रमेण प्रवर्तन्ते, यथा-वैशाखशुक्ले सप्तमीतः पूर्णिमां यावत् , तदाऽन्तिमायाः क्षीणत्वे तस्या औदयिकीत्वसम्पादनानुरोधेन तत्र सर्वासामपकर्षः करणीयो भवेत् । तथा च प्राक्पश्चाद्वर्तिनीनां द्वित्राणामेव तिथीनामालोचनेन तिथिनिर्णयं कृत्वा धर्माद्यनुष्ठाने लोकस्य प्रवृत्तिशीलतास्वभावानुसारं यदि कश्चित् कथितस्थले प्रथमतस्तिथिराराधयन् अन्तेऽन्तिमां तिथि क्षीणां प्राप्नोति, तदा गतानां तिथीनां परावर्तनं कृत्वा पुनस्तासामाराधनायाः कर्तुमशक्यतया तासां यथाकालमनाराधननिमित्तो दोषस्तस्य प्रसज्ज्येत ।
(३) पवमेव प्रतिसंवत्सरं सप्ततीनां कल्याणकतिथीनां प्रतिमासञ्च तद्भिन्नानां द्वितीयापञ्चम्यादिपर्वतिथीनाञ्च भावेन प्रतिमासमनेकाः कल्याणकतिथयस्तदितराः पर्वतिथयश्चोपतिष्ठन्ति । तासु कियत्यः क्षीणाः कियत्यश्च वृद्धाः भवितुमर्हन्ति । एतत्स्थितौ यदि तद्वचः प्रधानाप्रधानतिथिविषयकं मन्यते तदा टिप्पणस्य प्रायः प्रतिमासमनेकत्राप्रामाण्यप्रसङ्गेन तस्याविश्वसनीयताऽऽपत्त्या यास्तिथयो यत्र दिने क्षीणतया वृद्धतया वा टिप्पणे निर्दिष्टास्तत्र दिने ताःक्षीणतया वृद्धतया वाऽपि सन्ति न वेति सन्देहस्यानिवार्योत्पत्त्या तद्वचसः प्रवृत्तेर्मूलमेव प्रतिहन्यते ।
(४) प्रकरणबलादुक्तवचसो घटकस्य तिथिपदस्य प्रधानपर्वतिथिमात्रपरतया तस्य वचसः कल्याणकतिथिपरत्वं न मान्यम् ।
(५) एतद्वचो यदि कल्याणकतिथिविषयकमपि मन्यते तदा तस्याः कल्याणकतिथिपर त्वाभावप्रत्यायकानां कल्याणकव्यतिरिक्तपर्वतिथिमात्रपरतया तद्वचोव्याख्यानपराणाञ्च जैनशास्त्रान्तर्गतप्रामाणिकग्रन्थानां विरोधः प्रसज्यते ।
(६) कल्याणकतिथ्याराधनायाः लोकवृत्तानुसारेण सम्पादनसम्भवेन निष्प्रयोजनतया तस्य वचसः कल्याणकतिथिपरता नाभ्युपेतव्या ।
अत्रेदमभिधीयते :
उक्तहेतुष्वेकतमोऽपि "क्षये पूर्वा" इत्यादिवचसः कल्याणकतिथिव्यतिरिक्तपर्वतिथिपरत्वव्यवस्थापनाय न क्षमते ।
तथा हि(१) प्रथमेन हेतुना तद्वचसः कल्याणकतिथीतरपर्वतिथिमात्रपरता न सिद्धयति । यतो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org