________________
[ જૈન દૃષ્ટિએ તિથિદિન અને પર્વારાધન-સંગ્રહવિભાગ इत्यस्योत्तरवाक्यस्थशब्दस्योत्तरदिवसीयैकादश्यामित्यर्थपरत्वमेव युक्तम् , न तु सूर्योदयकालिक्यामेकादश्यामिति । न च "औदयिक्येकादश्याम्" इत्युत्तरशब्दस्य उत्तरदिवसीयैकादश्यामित्यर्थ कृत्वा यथोत्तरस्य प्रश्नानुरूप्यमुपपाद्यते तथा “पूर्वस्यामपरस्यां वा" इति प्रश्नवाक्यस्य " अनौदयिक्यामौदयिक्यां" वा इत्यर्थं कृत्वाऽपि तदुपपादनसम्भवेन पूर्वोक्तं विनिगमनाविहीनमिति वाच्यम् , वृद्धायां तिथौ पूर्वोत्तरयोईयोरेव दिनयोष्टिप्पणतः औदयिकीत्वमवगच्छतः प्रष्टुस्तथाविधप्रश्नकर्तृत्वासम्भवात् ।
न च “औदयिक्येकादश्याम्" इत्युत्तरवाक्यस्थशब्देन उत्तरदिवसीयैकादश्यामित्यर्थस्य विवक्षितत्वं नावधारयितुं शक्यं तादृशार्थविवक्षायां " परस्यामेकादश्याम्" इति वाक्यप्रयोगस्यैवौचित्यादिति शक्यम् , प्रश्नवाक्यस्थशब्देनैवोत्तराभिधाननियमाभावात् । किन्तु यादृशधर्मिकयादृशप्रकारकजिज्ञासाप्रयुक्तो यः प्रश्नः, तादृशर्मिकतादृशप्रकारकबोधजनकमेव वाक्यं तदुत्तरया प्रयोक्तव्यमिति नियमानुरोधेन उत्तरवाक्यस्थस्यौदयिकीशब्दस्योत्तरदिवसीयार्थकत्वकल्पनाया आवश्यकत्वात् ।
ननु यदि टिप्पणानुसारेण पर्वतिथेर्वास्तविकी वृद्धिः स्वीक्रियते तदा श्रीहीरप्रश्नस्थिते “यदा चतुर्दश्यां कल्पो वाच्यते अमावास्यादिवृद्धौ वा अमावास्यायां प्रतिपदि वा कल्पो वाच्यते, तदा षष्ठतपः क्व विधेयम्" इति प्रश्नवाक्ये निर्विशेषणाया अमावास्याया उपादानमसङ्गतं स्यात् , तस्याः वास्तववृद्वात्वे पूर्वस्यामपरस्यां वा तस्यां कल्पो वाच्यत इति निश्चितार्थाप्रत्ययेन प्रश्नार्थस्य सम्यग्बोधानवतारादिति चेन्न, पर्युषणाप्रधानतिथिरूपायाः भाद्रशुक्लचतुर्थ्याः कल्पसूत्रवा चनस्य पञ्चमदिवसीयतानियममवगच्छतोऽमावास्याशब्दमात्रेणापि द्वितीयामावास्याया असन्दिग्ध बोधसम्भवात् , अग्रेतनस्य “प्रतिपदि" इतिशब्दस्य सान्निध्येन प्रतिपदव्यहितायाममायां तच्छब्दतात्पर्यस्य सुसंवेद्यत्वाञ्च । अन्यथाऽपर्वभूतायाः प्रतिपदो वृद्धेरन्यमतेऽपि वास्तविकतया ऊर्धाङ्कितहीरप्रश्नस्थवाक्ये "प्रतिपदि" इत्येवं निर्विशेषणायाः प्रतिपदोऽपि निर्देशस्यासङ्गतेरुतन्यायेन प्राप्तायाः परिहारः कथं स्यात् ?
न च तथापि अमावास्यायाः वास्तववृद्धेरभ्युपगमे कल्पसूत्रश्रवणाङ्गभूतस्य षष्ठतपसो विधानं न संगच्छेत, चतुर्दशीद्वितीयामावास्ययोः फल्गुभूतया प्रथमामावास्यया व्यवधानादिति वाच्यम् , प्रतिपदो वृद्धावपि प्रश्नस्यैतस्य समानत्वात् , चतुर्दशीप्रथमप्रतिपदोरमावास्यया व्यवधानात् । अतः प्रतिपदो वृद्धौ त्रयोदशीचतुर्दश्योः षष्ठतपसोऽमावास्यायां पारणां कृत्वा प्रथमप्रतिपदि एकोपवासमात्रेण, अथवा प्रथमद्वितीयप्रतिपदोः षष्ठेन सह कल्पश्रवणे प्रवृत्तिव्यवस्था यथा क्रियते तथाऽमावास्यावृद्धावपि त्रयोदशोचतुर्दश्योः षष्ठस्य प्रथमामावास्यायां पारणां कृत्वा द्वितीयामावास्यायामेकोपवासमात्रेण द्वितीयामातदुत्तरतिथ्योः षष्ठेन सह वा कल्पसूत्रश्रवणप्रवृत्तेः व्यवस्थासम्भवात् ।
किञ्च पर्वतिथीनां क्षयवृद्धी अनभ्युपगम्य तत्पूर्वपूर्वतरायास्तयोरङ्गीकारे पर्वानन्तरपर्वतिथिस्थले यदा पूर्वपर्वतिथेवृद्धिरुत्तरपर्वतिथेश्च क्षयष्टिप्पणे प्राप्यते तदा पूर्वोत्तरयोर्द्वयोरेव पर्वतिथ्योराराधनाया आकुलीभावः प्रसज्यते । तथा हि "क्षये पूर्वा तिथिः कार्या" इत्यंशानुरोधेन क्षीणाया उत्तरपतिथेः “वृद्धौ कार्या तथोत्तरा" इत्यंशवशेन च वृद्धायाः पूर्वपर्वतिथेरेकस्मिन्नेव दिने औदयिकीत्वं प्राप्यते, एकस्मिन् दिने च द्वयोस्तिथ्योः सूर्योदयसम्बन्धलक्षणमौदयिकीत्वं न सम्भवति, उक्तवचोबलेन तस्याभ्युपगमेऽपि एकस्मिन्नहनि पर्वतिथिद्वयस्यानाराध्यतायाः पराभिमतत्वेन तादृश्योईयोस्तिथ्योः सहाराधना नैव सम्भावनारे । ___ न च “क्षये पूर्वा तिथिः कार्या” इति वचनेन प्रथममेव क्षीणोत्तरपतिथेः क्षयदिने
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org