________________
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયને સમર્થક શ્રી અર્હત્તિથિભાસ્કર ]
૬૩
युक्तम्, मानवसन्तानजननेन स्वस्वामिनो जनकपदे प्रतिष्ठापने क्लैब्यादप्रभवन्ती नारी सुरसन्तानजननेन तस्य तत्पदे प्रतिष्ठापने कथं प्रभवेदिति प्रश्नसमानस्य निजनामाङ्किताराधनोपधानेन स्वभर्तारं प्रथमवासरमाराधनातनयाङ्कितं कर्तुमसमर्था प्रथमा क्लीवपूर्णिमादिश्चतुर्दश्यादिप्रधानतरपर्वाराधनोपपादनेन कथन्तमाराधनावन्तं कर्तुं शक्ष्यत इति प्रश्नस्यासमाधानत्वात् ।
यच्च पूर्णिमादेर्वृद्धिस्थले पूर्णिमादेर्द्वितीये दिने पूर्णिमादेराराधने स्वीकृते प्रथमपूर्णिमादिनव्यवहिते पूर्वदिने चतुर्दश्या आराधनास्वीकारे चतुर्दशी पूर्णिमाद्योरव्यवहितपौर्वापर्येण आराधनानियमो नश्यत्यतः प्रथमपूर्णिमादिन एव चतुर्दश्याराधनास्वीकार आवश्यक इति श्रीसागरानन्दसूरिणोत्प्रेक्षितम्, तदपि न युक्तिमत् तादृशनियमस्याप्रामाणिकत्वात् ।
ननु आचारमयसामाचार्याः तृतीय पत्रे, श्रीसेनप्रश्नस्य १०५ पृष्ठे, श्रीसेनप्रश्नीयचतुर्थोल्लासस्य १०६ पृष्ठे च प्रतिमाधरं श्रावकं श्राविकां चाधिकृत्य यदुपवासद्वयविधानं सूचितं तस्य पूर्णिमायाः क्षयवृद्धिप्रसङ्गे पूर्वापर्वतिथेः क्षयवृद्धयोः स्वीकारेण तयोरव्यवहितपौर्वापर्यरक्षणं विना नोपपद्यत इति चेन्न, पूर्णिमायाः क्षयवृद्धभावस्थले तत्सम्भवाभिप्रायेण तथा सूचनात् ।
अयम्भावः - यत्राराधनोपयुक्त योश्चतुर्दशी पूर्णिमादिनयोरव्यवधानं भवति तत्र तयोः षष्ठं का र्यम्, यत्र च पूर्णिमावृद्धिस्थले तयोरव्यवधानं दुर्घटम् तत्र पृथगेवोपवासद्वयं कार्यं न तु षष्ठम् तेनापि चतुपर्व्याराधनोपपत्तेः, न हि षष्ठमवश्यकर्तव्यमेव, अशक्तस्य पूर्णिमायामाचाम्लादेरेव कर्तव्यताऽऽदेशात् । तथा च पष्ठसौविध्येऽप्यशक्तौ तत्त्यागो यदि शास्त्रस्याभिमतस्तदा पूर्णिमा - वृद्धौ तदयोगस्थले तत्करणे शास्त्रानुरोधः कथं स्यात् ? ।
न च टिप्पणानुसारेण पर्वतिथेर्वास्तविकवृद्धिस्वीकारे सेनप्रश्नतृतीयोल्लासस्य सप्ताशीतिपृष्ठगतस्य " एकादशी वृद्धौ श्रीहीरविजयसूरीणां निर्वाणमहिमपौषधोपवासादिकृत्यं पूर्वस्यामपरस्यां वा किं विधेयम् ? " इति प्रश्नोत्तररूपस्य " औदयियेकादश्यां श्रीहीरविजयसूरिनिर्वाणपौषधादि विधेयम् " इति ग्रन्थस्यानुपपत्तिः स्यात्, वृद्धैकादश्याः पूर्वापरयोर्द्वयोरेव दिनयोरौदयिकीत्वेनोक्तोत्तरस्य जिज्ञासानिवर्तकत्वाभावादितिवाच्यम्, वृद्धैकादश्याः द्वितीयदिनमात्र एवौदयिकीत्वपक्षेऽपि तत्पक्षबोधकशब्दस्याप्रयोगेण टिप्पणतो द्विनद्वये एकादश्या औदयिकीत्वमवबुध्यतः प्रष्टुर्यथाश्रुतश दतो जिज्ञासाशान्त्यनुपपत्तितादवस्थ्यात्, किन्तु “ औदयिक्येकादश्याम् ” इति शब्दस्य - औदयिक्यामेव एकादश्यां न त्वस्तकालिक्यामौदयिक्यामपि —- इत्यर्थकल्पनयैव जिज्ञासानिवृत्तिसम्भवात् तादृशार्थस्य च वृद्धैकादश्याः दिनद्वये वास्तविकवृद्धिपक्ष एव युक्तत्वात् ।
"
इत्थमेव “ पूर्णिमाऽमावास्ययोर्बुद्धौ पूर्वमौदयिकी तिथिराराध्यत्वेन व्यवह्रियमाणाऽऽसीत्, चिदुक्तं श्रीतातपादाः पूर्वतनीमाराध्यत्वेन प्रसादयन्ति तत्किम् " इति प्रश्नवाक्येन " पूर्णि मामावास्ययोर्बुद्धौ औदयिक्येव तिथिराराध्यत्वेन ग्राह्या इत्युत्तरवाक्येन च घटिते ग्रन्थेऽपि औदयिकशब्दस्योत्तरदिवसीयैवार्थः कार्यः, अन्यथा टिप्पणतो वृद्धायास्तिथेर्दिनद्वय औदयिकीत्वं वुध्यतः प्रष्टुस्तथोक्तप्रश्नकर्तृत्वासम्भवेन तत्प्रश्नग्रन्थस्यासङ्गत्यापत्तेः ।
अथवा उत्-ऊर्ध्वम्, अयते-गच्छतीत्युदय उत्तरदिनम्, तत्र भवा औदयिकी - उत्तरदिवसीया इत्यौदयिकीशब्दस्यार्थो ग्राह्यः तथा सत्येव " पूर्वस्यामपरस्यां वा " इति प्रश्नानुरूपस्योत्तरस्य औदयिकी " शब्दप्रयोगेण लाभात् ।
66
""
अयम्भावः - " पूर्वस्यामपरस्यां वा " इति प्रश्नवाक्यम् एकादशीवृद्धिस्थले पूर्वदिवसीयात्वोत्तरदिवसीयात्वान्यतरविशिष्टैकादशीत्वावच्छिन्ननिष्ठतयाविधेयत्वप्रकारक श्रीहीर विजयसूरिनिर्वाणपौषधादिधर्मिक जिज्ञासाबोधकम् । तादृशजिज्ञासा च तादृशान्यतरविशेषविशिष्ठैकादशीत्वावच्छिनवृत्तितया विधेयत्वप्रकारक स्वसमानधर्मिकज्ञानादेव निवर्तितुमुचिताऽतः “ औदयिक्येकादश्याम् ”
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org