Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust

Previous | Next

Page 436
________________ ૧. લવાદી ચર્ચામાં આવેલા નિર્ણયના સમર્થક શ્રી અર્હત્તિથિભાસ્કર ] 66 ," किञ्चयमपि प्रश्नस्तदीयमुत्तरमपेक्षते यत् क्वचित् “ द्वितीयस्यां पर्वतिथावष्टस्यादावौदयिatri नियम्यते " क्वचित् " नास्माकं पक्षेऽयं वाक्यार्थः किन्तु पर्वतिथित्वनियमनरूपः” क्वचिच्च 'परस्याः पक्षप्राप्ताया नियमनम् " पुनश्च पञ्चदशे पृष्ठे "औदयिकीसंज्ञाविधानात् इति वदतस्तस्य किम् औदयिकीत्वे, पर्वतिथित्वे, पर्वतिथौ औदयिकीसंज्ञायां च विशेषाभावः सम्मतः ? यद्येवम् तर्हि तेषाम् पदार्थानां विशेषं वास्तविकं विजानतां विदुषां वर्गतो बहिर्भूय कश्चित् पदा - र्थान्यथाविदां सङ्घः शरणतया गवेषणीयः । " वृद्धौ कार्या तथोत्तरा " इति वचनस्यौदयिकीत्वनियामकतान्निषिध्य पर्वतिथित्वनियामकतां सिद्धान्तयतः पताकाकृतः शिरस्येकोऽयमपरः दुस्सहोऽनिष्टदण्डो निपतति तं स कथं प्रतिकरोतीत्येतदपि तेन चिन्तनीयम् । तथा हि यदि “ वृद्धौ कार्या" इति वचनं न नियामकमौदयिकीत्वस्य किन्तु पर्वतिथित्वस्य, तदैतस्य बलेन वृद्धप्राप्तपर्वतिथेः प्रथमदिने पर्वतिथित्वमेव निवर्त्स्यति न पुनरौदयिकत्वम् । एवञ्च वृद्धायाः पूर्णिमादेः पूर्वदिनेऽप्यौदयिकीत्वस्याक्षुण्णतया तद्दिने तत्पूर्वस्याश्चतुर्दश्यादे रौदयिकीत्वकल्पनं कथं संगच्छेत ? एकत्र दिने द्वयोस्तिथ्योः सूर्योदयस्पर्शित्वलक्षणस्यौदयिकीत्वस्य कस्यापि विशेषतः पताकाकारस्यापि स्वीकृतत्वाभावात् । अन्यथा पूर्णिमादेः क्षयस्थले टिप्पणानुसारेणौदयिकचतुर्दशीके दिने पूर्णिमाया औदयिकीत्वाय पूर्वस्यास्तदभावस्वीकारस्य तत्कर्तृकस्यासङ्गत्यापत्तेः । पर्वतिथित्वमौदयिकीत्वमादायैव निवर्तते इति तु वक्तुमयुक्तम्, पर्वतिथित्वस्यौदयिकीत्वव्यापकत्वाभावात् । पूर्णिमात्वाद्यन्यतम विशिष्टौदयिकीत्वं स्वव्याप्यमादाय निवर्तते इत्यप्यशोभनं वचनम्, तस्य पर्वतिथित्वव्याप्यत्वे तदूवलेन वृद्धायां तिथौ द्वयोरेव दिनयोः पर्वतिथित्वस्य नियतप्राप्त्या पाक्षिकप्राप्तिकर्तृताविकलस्य तस्य नियमविधिविषयत्वासम्भवात् । तथाभूतस्यापि तस्य तत्स्वीकारसम्भवे मध्यस्थोक्तस्यौदयिकीत्वे तत्सम्भवस्य निराकार्यताराहित्यापत्तेः । त्रयोदशे पृष्ठे पर्वानन्तरपर्वतिथिविचारं प्रतिज्ञाय पताकाकृता लिखितं यत् " पूर्णिमाऽमावास्यादिषु पर्वानन्तरपर्व तिथिषु टिप्पणानुसारेण क्षीणासु वृद्धासु वा तत्पूर्वस्याश्चतुर्दश्या अपि पर्व - तिथित्वेन तस्याः पर्वतिथित्वात् क्षयः वृद्धिर्वा न भवितुमर्हति । एकस्मिन् दिन औदयिकी तिथिकैव भवति एवञ्च पूर्णिमाया अमावास्याया वा टिप्पणे क्षये दृष्टे तस्याः क्षयासम्भवेन " क्षये पूर्वा तिथिः कार्या ” इत्येनेनौदयिकीत्वे प्रसाधिते तत्पूर्वस्याश्चतुर्दश्या अपि पर्वतिथित्वेनौदयिकी - त्वावश्यकतया तत्पूर्वस्यास्त्रयोदश्या एव क्षयं कृत्वा तस्मिन् दिने औदयिकीत्वं सम्पाद्याराधनं कार्यम् " इति । अत्र पर्वतिथेः क्षयो वृद्धिर्वा न भवति इति बुवाणः पताकाकारः प्रष्टुमभिलष्यते यदस्य तस्य वचसः किम्परता ? 33 यस्यास्तिथेः पर्वतिथित्वं जैनागमेषु गदितन्तस्याः सूर्योदयस्पर्शराहित्यन्न भवतीति, अथवा यस्याः पर्वतिथेः सूर्योदयस्पर्शः पञ्चाङ्गेन न निर्दिश्यते तस्या आराधनालोपो न शास्त्रसम्मतः, किन्तु तत्तिथिशालिन्यहनि तदाराधनैव शास्त्रसम्मता, एवं यस्यास्तिथेः पर्वतिथिता जैनशास्त्रानुशिष्टा तस्यास्सूर्योदयद्वयेन संस्पर्शो न भवति ? अथवा यस्याः पर्वतिथेः सूर्योदयस्पर्शो दिनद्वये पञ्चाङ्गेन दर्शितस्तस्याः दिनद्वये पूर्वदिने वाऽऽराधनं न शास्त्रसम्मतं किन्तूत्तरस्मिन्नेव दिने ? तत्र " पर्वतिथेः क्षयो न भवति, पर्वतिथेर्वृद्धिर्न भवति " इतिवाक्यद्वयेन प्रतिपिपादयिषिततया विकल्पितयोः प्रथमो न सङ्गतौ, तादृशार्थकवचसो जैनागमेऽप्राप्यमाणत्वात् । न च " क्षये पूर्वा " इत्यादिवचनमेव टिप्पणानुसारेण क्षीणामपि पर्वतिथिमौदयिकीम्, वृद्धामपि द्वितीयस्मिन्नेव दिने औदयिकीं बोधयत् कथितार्थयोः प्रमाणमिति वाच्यम्, तस्य वचसः ૫ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552