Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust
________________
.५७
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયને સમર્થક શ્રી અર્ધતિથિભાસ્કર ] जासिं, उदेइ सूरो,” “पूआपञ्चक्खाणं.........जीए उदेइ सूरो, तीइ तिहीए उ कायव्वं" इत्यादिशास्त्रवचनानामनादरप्रसङ्ग इति शङ्कयम् , सूर्योदयलक्षणोदयिकीत्वस्य पर्वतिथ्याराध्यताप्रयोजकत्वप्रतिपादनेन तेषां निष्पिपादयिषितस्य औदयिकपर्वतिथीनामनौदयिकीत्वदिने आराधनायां लोकप्रवृत्तिपरिहाररूपलक्ष्यस्याक्षुण्णत्वेन तेषां सम्मानस्य सुरक्षितत्वात् ।
अत्रेदमवधेयम्
श्रीसागरानन्दसूरिणा " उदयं मि जा तिही सा पमाणमिअरीइ कीरमाणीए । आणाभंगणवत्था मिच्छत्त विराहणं पावे” इति शास्त्रस्योत्सर्गत्वं “क्षये पूर्वा तिथिः कार्या" इति शास्त्रस्य चापवादत्वं व्वता सूर्योदयलक्षणोदयिकीत्वस्य अक्षीणतिथीनामेवाराध्यताप्रयोजकत्वं नान्यासामिति स्वीकार्यमेव । अन्यथा सर्वपर्वतिथीनामाराध्यताप्रयोजकत्वस्य सूर्योदयस्पर्श एव स्वीकारे तयोरुत्सर्गापवादभावस्वीकारस्यार्थ एव कः स्यात् ? किञ्च "क्षये पूर्वा' इत्यादिवचसः औदयिकीत्वसम्पादनेन क्षीणतिथेराराध्यतोपपादकतास्वीकारे “उदयं मि जा" इत्यादिशास्त्रस्य क्षीणक्षीणोत्तरपर्वकेतरपर्वतिथिषु सङ्कोचः कर्तव्यो भवत्यतः समाप्तत्वस्य क्षीणपर्वतिथीनां सर्वपर्वतिथीनां वाऽऽराध्यताप्रयोजकत्वप्रतिपादनपरत्वंतद्वचसः स्वीकृत्य क्षीणेतरपर्वतिथिषु सङ्कोच व लाघवान्मान्यः ।
इदमप्यत्र विमर्शमर्हति---
यत् “क्षये पूर्वा" इत्यादिप्रघोषकृतो दृष्टौ टिप्पणायत्तैव तिथेः क्षयप्राप्तिरासीत् । अत उक्तप्रघोषस्य टिप्पणे तिथेः पर्वतिथेर्वा क्षये प्राप्ते पूर्वा तिथिः कार्या-इत्येतदर्थस्य तद्विवक्षितत्वं प्रत्येतव्यम् । तथा चैतस्य वचसः क्षीणायाः पर्वानन्तरपर्वतिथेरौदयिकीत्ववोधने श्रीसागरानन्दसूरिमतानुसारेण पूर्वपर्वतिथेरनौदयिकीत्वे प्राप्ते तस्या औदयिकीत्वव्यवस्थापने तस्य वचसः प्रवृत्तिः कथं स्यात् ? टिप्पणे दृष्टक्षयाया एव तिथेरभिप्रायेण तस्य प्रादुर्भूतत्वात् । क्षीणपर्वतः प्राक्तन्याः पर्वतिथेरौदयिकीत्वस्यावश्यरक्षणीतया तदनौदयिकीत्वापादनपूर्वकतदौदयिकीत्वविधाने तात्पर्यकल्पनस्य "प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्” इतिन्यायेनानुचिततया तद्वचसः पूर्वोदयिकतिथेरनौदयिकीत्वापादनापर्यवसायिन्येवार्थे तात्पर्यस्वीकारस्य ज्यायस्त्वात्।
इत्थश्चैतावता विचारेण निर्विवादमिदं सिद्धयति यत् "क्षये पूर्वा तिथिः कार्या” इति वचनस्य पञ्चाङ्कन क्षीणतया निर्दिष्टायाः पर्वतिथेः सूर्योदयलक्षणोदयिकीत्वव्यवस्थापनस्य पञ्चाङ्गोदितौदयिकतिथ्यपकर्षफलकस्य द्वारा तदाराधनोपपादकता जैनशास्त्राणां प्राचीनजैनसदाचाराणाञ्च प्रतिकूलतया कथितानेकानर्थहेतुतया च नोचितेति।
द्वितीयतृतीयपक्षौ तु समप्रायौ निर्विवाद शास्त्रयुक्तिसदाचारसम्मतौ चेति तदवलम्बनेन "क्षये पूर्वा तिथिः कार्या” इति वचनस्य क्षीणतिथ्याराधनोपपादकतासमादरे दोषाभावः । अत एव तथैव श्रीरामचन्द्रसूरिणा तद्वचसः क्षीणपर्वतिथ्याराधनाव्यवस्थापकत्वमङ्गीकृतम् । एतत्पक्षानुकूलं तद्व्याख्यानश्चेत्थम्
क्षये-तिथेः पर्वतिथे; सूर्योदयस्पर्शराहित्यलक्षणे आये पञ्चाङ्गेन प्राप्ते, पूर्वा-स्वपूर्वसूर्योदयारब्धदिवसीया स्वसमाप्तिशालिदिवसीयेति यावत् , तिथिः, कार्या-आराधनावती कार्येति । एवञ्च पर्वतिथीनामाराधनाविधायकस्य, तत्तत्तिथ्यौदयिकीत्वदिने तत्तत्तिथ्याराधनाङ्गताबोधकस्य क्षीणतिथ्याराधनाव्यवस्थापकस्य च वचनस्य परस्परैकवाक्यतया सर्वपतिथीनां स्वसमाप्तिसम्बन्धिनि वासरे आराधनाऽऽदेशस्य जैनशास्त्रप्रतिपाद्यता सिध्यति ।। ___ अत्र प्रसङ्गे श्रीरामचन्द्रसूरिसमुक्तसिद्धान्ते शिथिलप्रेम्णा श्रीसागरानन्दसूरिणा “क्षये पूर्वा तिथिः कार्या" इति शास्त्रस्याराधनाविधायकत्वं यद् आराधनायाः प्रकारान्तरतः प्राप्तत्वहेतुनापनोदितन्तदौचित्यविवर्जितम् , औदयिकीनामेव पर्वतिथीनामाराधनाविधाने जैनशास्त्रतात्पर्ये विप
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552