Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust

View full book text
Previous | Next

Page 463
________________ [ જૈન દૃષ્ટિએ તિથિદેિન અને પૌરાધન–સંગ્રહવિભાગ दिनवृत्तित्वविशिष्टैव तिथिः, तथा शब्दस्य तिथिपरामर्शकत्वात् कार्या-आराधनाऽपेक्षया औदयिकाष्टम्यादिरूपा मान्या, अर्थात् औदयिकाष्टम्यादिभावेनाराधनार्थमुपादेयेति । अमुमेव पक्षमादाय “ क्षये पूर्वा " इत्यादिवचो व्याकुर्वाणो विभाति मध्यस्थः । 66 पञ्चमप्रकारप्रणयिनः पुनरेवं कथयन्ति यत् " क्षये पूर्वा तिथिः कार्या " इति वचनं सप्तम्यादेः क्षीणाष्टम्यादिप्रातिनिध्येनाराध्यतां प्रतिपादयत् क्षीणपर्वतिथ्याराधनामुपपादयति । एतत्पक्षप्रतिपन्नं तद्वचोव्याख्यानञ्चेत्थम्ः - क्षये अष्टम्यादिरूपायाः पर्वतिथेः क्षये दृष्टे सति, पूर्वाअष्टम्यादिरूपक्षीणपर्वतिथितः पूर्ववर्तिनी सप्तम्यादिरूपा तिथिः, तिथि: - क्षीणाष्टम्यादिरूपपर्वतिथिप्रतिनिधिः कार्या । अथवा क्षये सति पूर्वा तिथिः क्षीणपर्वतिथिप्रतिनिधिभावेन ' कार्या' आराध्यत्वेनोपादेयेति । ૬૦ न चोक्तरीत्या पूर्वतिथेरेव क्षीणतिथिस्थाने आराधनाङ्गीकारे तदाराधनायाः क्षीणाष्टम्यादिसम्बन्धिताव्यपदेशो न स्यादिति शङ्कनीयम्, प्रतिनिधिसम्बन्धिनि प्रतिनिधित्वनिरूपकसम्बन्धिताव्यवहारस्य लोक इष्टत्वात् । राजप्रतिनिधिसम्माननावमाननयोः राजकीयतया राशा लोकेन च स्वीकारस्य सर्वसुविदितत्वात् । sat चतुर्थपञ्चमपक्ष धर्माङ्गतिथ्यादिनिर्णयाय श्रीजैनसङ्खेन प्रमाणतया स्वीकृते प्रचलितपञ्चाङ्गे श्रीजैनशास्त्रजाते च प्रामाण्यापायपङ्काप्रतिक्षेपकतया प्रथमपक्षीयपर्वलोपादिदोषासम्पादकतया च न निन्दामर्हतः । अथ " वृद्धौ कार्या तथोत्तरा " इति भागस्योत्थानवीजं शास्त्रयुक्तिसम्मतं तदूव्याख्यानं च प्रदर्श्यतेः पर्वतिथीनामाराधनाविधायकस्य तदौदयिकीत्वदिनानाञ्च तदाराधनाङ्गताविधायकस्य च जैनशास्त्रीयवचसो मिथो मेलनेन सर्वा अष्टम्यादिपर्वतिथयः स्वस्पर्शिसूर्योदयारब्धे दिने आराध्या इति जैनशास्त्रादेशः सम्पद्यत इति पूर्वमुक्तम् । एतदादेशानुसारेण दिनद्वये सूर्योदयस्पर्शमासादयन्तीनों पर्वतिथीनां दिनद्वये आराधनायाः प्राप्तिर्भवति । परन्तु दिनद्वये एकस्यास्तिथेराराधनायाः जैनशास्त्रैरनादिष्टतया जैनसदाचारप्रतिकूलतया च सा पूर्वोत्तरदिनयोराराधनायाः पाक्षिकत्वे पर्यवस्यति । एवञ्चाराधनायाः पाक्षिकप्राप्तौ औदिच्यदिन एव तस्याः नियमनाय " वृद्धौ कार्या तथोत्तरा ” इति शास्त्रं समुत्तिष्ठति । तदर्थश्च - वृद्धौ - एकस्याः पर्वतिथेः सूर्योदयद्वयस्पर्शे, उत्तरा - उत्तरसूयदियदिनविशिष्टा । 'एव ' इत्यध्याहार्यम् । पूर्वभागस्थः ' तिथि:' इति शब्दोऽत्रापि योज्यः । तथा च तादृशदिनविशिष्टैव तिथिः, कार्या-आराधनावती कार्या इत्यर्थः । अयम्भावःजैनागमैः पर्वतिथीनां तत्स्पर्शिसूर्योदयसमारब्धे दिने आराधनामादिष्टम् । आदेशश्चैष वृद्धिं गतायास्तिथेरेकदिनमात्रेऽपि समाराधनया परिपालितो भवति, प्रभवति च शास्त्राभिसंहितं फलं समाराधका वितरीतुमिति न कस्यापि प्रेक्षावतो दिनद्वये तादृशतिथ्याराधने प्रवृत्तिर्भवितुमर्हति । अस्यां स्थितावविशेषेण कदाचित् पूर्वदिने कदाचिच्च परदिने तादृशतिथ्याराधने जनप्रवृत्तिः प्राप्नोति । सा च जैनागमानां जैनसदाचारणाञ्च प्रतिकूलतया नोचितेति सा मा भूयादिति भा वनया श्रीमदुमास्वातिवाचकमुख्यैः " वृद्धौ कार्या तथोत्तरा " इति वचनमुदघोषि परैश्च तथैव पर्यग्राहि पर्यचालि च । तच्च वचः पूर्वदिने तदाराधनां निवर्तयत् परदिन एव तां व्यवस्थापयत् तन्नियमविधित्वे पर्यवस्यति । अथवा वृद्धायास्तिथेराराधनाङ्गतया पूर्वोत्तरदिनयोः पाक्षिकप्राप्तौ सत्यां तदाराधनाङ्गभावेनोत्तरदिनस्यैव नियमनाय तद्वचनोत्थानमवसेयम् । एवं च तद्वचो वृद्धतिध्याराधनायाः तदङ्ग Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552