________________
[ જૈન દૃષ્ટિએ તિથિદેિન અને પૌરાધન–સંગ્રહવિભાગ दिनवृत्तित्वविशिष्टैव तिथिः, तथा शब्दस्य तिथिपरामर्शकत्वात् कार्या-आराधनाऽपेक्षया औदयिकाष्टम्यादिरूपा मान्या, अर्थात् औदयिकाष्टम्यादिभावेनाराधनार्थमुपादेयेति । अमुमेव पक्षमादाय “ क्षये पूर्वा " इत्यादिवचो व्याकुर्वाणो विभाति मध्यस्थः ।
66
पञ्चमप्रकारप्रणयिनः पुनरेवं कथयन्ति यत् " क्षये पूर्वा तिथिः कार्या " इति वचनं सप्तम्यादेः क्षीणाष्टम्यादिप्रातिनिध्येनाराध्यतां प्रतिपादयत् क्षीणपर्वतिथ्याराधनामुपपादयति । एतत्पक्षप्रतिपन्नं तद्वचोव्याख्यानञ्चेत्थम्ः - क्षये अष्टम्यादिरूपायाः पर्वतिथेः क्षये दृष्टे सति, पूर्वाअष्टम्यादिरूपक्षीणपर्वतिथितः पूर्ववर्तिनी सप्तम्यादिरूपा तिथिः, तिथि: - क्षीणाष्टम्यादिरूपपर्वतिथिप्रतिनिधिः कार्या । अथवा क्षये सति पूर्वा तिथिः क्षीणपर्वतिथिप्रतिनिधिभावेन ' कार्या' आराध्यत्वेनोपादेयेति ।
૬૦
न चोक्तरीत्या पूर्वतिथेरेव क्षीणतिथिस्थाने आराधनाङ्गीकारे तदाराधनायाः क्षीणाष्टम्यादिसम्बन्धिताव्यपदेशो न स्यादिति शङ्कनीयम्, प्रतिनिधिसम्बन्धिनि प्रतिनिधित्वनिरूपकसम्बन्धिताव्यवहारस्य लोक इष्टत्वात् । राजप्रतिनिधिसम्माननावमाननयोः राजकीयतया राशा लोकेन च स्वीकारस्य सर्वसुविदितत्वात् ।
sat चतुर्थपञ्चमपक्ष धर्माङ्गतिथ्यादिनिर्णयाय श्रीजैनसङ्खेन प्रमाणतया स्वीकृते प्रचलितपञ्चाङ्गे श्रीजैनशास्त्रजाते च प्रामाण्यापायपङ्काप्रतिक्षेपकतया प्रथमपक्षीयपर्वलोपादिदोषासम्पादकतया च न निन्दामर्हतः ।
अथ " वृद्धौ कार्या तथोत्तरा " इति भागस्योत्थानवीजं शास्त्रयुक्तिसम्मतं तदूव्याख्यानं च प्रदर्श्यतेः
पर्वतिथीनामाराधनाविधायकस्य तदौदयिकीत्वदिनानाञ्च तदाराधनाङ्गताविधायकस्य च जैनशास्त्रीयवचसो मिथो मेलनेन सर्वा अष्टम्यादिपर्वतिथयः स्वस्पर्शिसूर्योदयारब्धे दिने आराध्या इति जैनशास्त्रादेशः सम्पद्यत इति पूर्वमुक्तम् । एतदादेशानुसारेण दिनद्वये सूर्योदयस्पर्शमासादयन्तीनों पर्वतिथीनां दिनद्वये आराधनायाः प्राप्तिर्भवति । परन्तु दिनद्वये एकस्यास्तिथेराराधनायाः जैनशास्त्रैरनादिष्टतया जैनसदाचारप्रतिकूलतया च सा पूर्वोत्तरदिनयोराराधनायाः पाक्षिकत्वे पर्यवस्यति । एवञ्चाराधनायाः पाक्षिकप्राप्तौ औदिच्यदिन एव तस्याः नियमनाय " वृद्धौ कार्या तथोत्तरा ” इति शास्त्रं समुत्तिष्ठति । तदर्थश्च - वृद्धौ - एकस्याः पर्वतिथेः सूर्योदयद्वयस्पर्शे, उत्तरा - उत्तरसूयदियदिनविशिष्टा । 'एव ' इत्यध्याहार्यम् । पूर्वभागस्थः ' तिथि:' इति शब्दोऽत्रापि योज्यः ।
तथा च तादृशदिनविशिष्टैव तिथिः, कार्या-आराधनावती कार्या इत्यर्थः । अयम्भावःजैनागमैः पर्वतिथीनां तत्स्पर्शिसूर्योदयसमारब्धे दिने आराधनामादिष्टम् । आदेशश्चैष वृद्धिं गतायास्तिथेरेकदिनमात्रेऽपि समाराधनया परिपालितो भवति, प्रभवति च शास्त्राभिसंहितं फलं समाराधका वितरीतुमिति न कस्यापि प्रेक्षावतो दिनद्वये तादृशतिथ्याराधने प्रवृत्तिर्भवितुमर्हति । अस्यां स्थितावविशेषेण कदाचित् पूर्वदिने कदाचिच्च परदिने तादृशतिथ्याराधने जनप्रवृत्तिः प्राप्नोति । सा च जैनागमानां जैनसदाचारणाञ्च प्रतिकूलतया नोचितेति सा मा भूयादिति भा वनया श्रीमदुमास्वातिवाचकमुख्यैः " वृद्धौ कार्या तथोत्तरा " इति वचनमुदघोषि परैश्च तथैव पर्यग्राहि पर्यचालि च । तच्च वचः पूर्वदिने तदाराधनां निवर्तयत् परदिन एव तां व्यवस्थापयत् तन्नियमविधित्वे पर्यवस्यति ।
अथवा वृद्धायास्तिथेराराधनाङ्गतया पूर्वोत्तरदिनयोः पाक्षिकप्राप्तौ सत्यां तदाराधनाङ्गभावेनोत्तरदिनस्यैव नियमनाय तद्वचनोत्थानमवसेयम् । एवं च तद्वचो वृद्धतिध्याराधनायाः तदङ्ग
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org