________________
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયના સમર્થક શ્રી અહૂત્તિથિભાસ્કર ]
दिनस्य वा नियामकत्वेन व्यवतिष्ठते । तथा च " क्षये पूर्वा तिथिः कार्या " इति भागस्येव
66
वृद्धौ कार्या तथोत्तरा " इति भागस्याप्यनुरोधेन 'सर्वाः पर्वतिथयः स्वस्पर्शिसूर्य दियारब्धे दिने आराध्या ः ' इति जैनशास्त्रादेशः सर्वाः पर्वतिथयः स्वसमाप्तिविशिष्टसूर्योदयशालिनि स्वसमाप्तिसम्बन्धिनि वा दिने आराध्याः ' इत्येतदादेशत्वे पर्यवस्यति । वै० स्वपूर्वत्व, स्वपूर्वसूर्योदयापूर्वत्वाभ्याम् ।
न च वृद्धायास्तिथेः आराधनाङ्गतया पूर्वोत्तरदिनयोः पाक्षिकप्राप्तौ सत्यां पूर्वदिनस्यैव वृद्धतिथ्याराधनाङ्गभावेन नियमनं न्याय्यं तद्दिने तस्या अहोरात्रव्यापित्वादिति परदिनस्य तथात्वेन नियमनं निर्बीजमितिवाच्यम्, पूर्वदिने तादृशतिथ्याराधनाङ्गता स्वीकारस्यारब्धतत्तिध्याराधनायास्तत्तिथिसत्त्व एव भङ्गप्रसङ्गेनानुचितत्वात् । सर्वपर्वतिथ्याराधनाङ्गदिनानां समाप्तिमद्दिनत्वेनानुगमाय परदिनादरात् । अन्यतिथीनामिव वृद्धतिथीनामपि तत्समाप्तिदिन एव आराधनौचित्याच्च ।
निर्वणितरीत्या " वृद्धौ कार्या तथोत्तरा " इति वचनार्थे निरूपिते वृद्धपर्वतिथेः परदिनमात्रे सत्ताया अनापत्त्या तत्पूर्वाया अपर्वतिथेः पर्वान्तरपर्वतिथिवृद्धिस्थले च तत्पूर्वतराया अपर्वतिथेवृद्धि: श्रीसागरानन्दसूरिणा वर्ण्यमाना मान्यतापदन्नाधिरोहतीति तन्मते जायमानस्य टिप्पणविरोध - मृषाभाषण- पर्वलोप- नष्टभाविकार्य कारणभावादिदोषत्रातस्य नास्मिन्मते स्पर्शगन्धोऽपि । तन्म कथमेते दोषाः ? इति चेत् श्रूयन्ताम् - टिप्पणे यत्र पर्वतिथेर्बुद्धिरपर्वतिथेरवृद्धिश्वोक्ता तत्रतद्विरुद्धा पर्व तिथेरवृद्धिरपर्वतिथेश्च वृद्धिः स्वीक्रियत इति टिप्पणविरोधः । न चैष नगण्यो गणनीयष्टिपणस्य निजे विषये तिथिवृद्ध्यादिरूपे शास्त्रान्तरसंक्रमणस्यान्याय्यत्वात् । वृद्धाया अवृद्धात्ववादेनावृद्धायाश्च वृद्धात्ववादेन भृषाभाषणदोषः । पर्वानन्तरपर्वतिथेर्ऋद्धिस्थले पूर्वपर्वतिथेः टिप्पणनिर्दिष्ट उदयदिने आराधनालोपेन पर्वलोपात्मको दोषः । तत्रैव स्थले निवृत्तायाश्चतुर्दश्याः पूर्णिमा प्रथम दिने सत्तायाः स्वीकारेण नष्टचतुर्दशी - भाविपूर्णिमयोः कार्यकारणभावलक्षणो दोषः ।
अयम्भावः - वृद्धायाः पूर्णिमायाः द्वितीयदिनमात्रे सत्ताव्यवस्थापनबलेन प्रथमपूर्णिमादिने चतुर्दश्याः सत्त्वं वर्ण्यते । एतच्च तदैव स्याद् यदि पूर्णिमायाश्चतुर्दशीं प्रति का पूर्ववर्तिकारणस्य स्वोत्तरक्षणे कार्योत्पादकत्ववत् उत्तरक्षणवर्तिकारणस्य स्वपूर्वक्षणे कार्योत्पादकत्वं च स्यात्, न चैतदस्ति, अतः पूर्णिमायाः द्वितीयदिनमात्रे सद्भावाभ्युपगमबलेन प्रथमपूर्णि मादिने चतुर्दश्याः सत्त्वोपपादनमशक्यमेव । यद्येवमुच्यते यन्न प्रथमपूर्णिमादिने चतुर्दश्यास्वं स्वन्तु कार्यमात्रं प्रति कालस्य कारणतया पूर्णिमात्मककालस्य चतुर्दश्यात्मक कार्यकारणत्वात्. कारणे कार्यपदोपचारस्य च सर्वानुमतत्वेन प्रथमपूर्णिमायां चतुर्दशीपदोपचारः क्रियते, तदापि विनष्टे कार्ये भाविनः कारणतापत्तिरूपो दोषस्तदवस्थ एवेति ।
ननु नैतदुच्यते यद् द्वितीयदिने पूर्णिमानियमनवलेन पूर्वदिने चतुर्दशीसत्त्वं भवति पूर्णिमा - यामेव वा चतुर्दशीपदोपचारो भवतीति, किन्तु द्वितीयदिने पूर्णिमा, पूर्वदिने चतुर्दशी, तत्पूर्वदिनयोश्च त्रयोदशी - इत्येव वस्तुस्थितिरिति विज्ञाप्यत इति चेन्न, जैनशास्त्रकारैरपि कुत्र दिने का तिथिरिति वस्तुस्थितिनिश्चितये टिप्पणस्यैव प्रमाणतयाऽभ्युपगमात् । यथोक्तं तत्त्वतरङ्गिण्यां श्रीधर्मसागरमहाभागैः एकविंशगाथाव्याख्यायां तिथेः क्षीणत्वनिर्वचनप्रसङ्गे खरतरं प्रति - " नो चेत् टिप्पणकमवलोकनीयम् तद्वेत्ता वा प्रष्टव्यः " इति । तच्च टिप्पणकं जैनटिप्पणव्युच्छेदानन्तरं सम्प्रदायान्तरपरिचाल्यमानमेव प्रमाणतया ग्रहीतुं जैनशास्त्रकारैरादिष्टं यथा - " लौकिक टिप्पणाभिप्रायेण दीक्षोपस्थापनादिषु तिथिबवादिकरणसन्ध्यागतादिनक्षत्रप्रथमादिनक्षत्रचन्द्रग्रहचन्द्रचारादिशुद्धमुहूर्तादानं पर्युषणापर्वकरणं च ' ( श्रीविचारामृतसङ्ग्रह मु० प्र० पृ० १६ )
“ अत एव लौकिके लोकोत्तरे च टिप्पणकव्यवहारप्रवृत्तिरपि प्रतिपदादितिथिक्रमेणैव, व्यु
Jain Education International
For Personal & Private Use Only
૧
www.jainelibrary.org