________________
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયને સમર્થક શ્રી અહરિથિભાસ્કર ] याऽप्रवृत्तत्वात् । तथाप्रवृत्तावेव चतुर्दश्यनिर्देशेन तदभावानुमानसम्भवात् ।
चतुर्थप्रकारेण क्षीणादिपर्वतिथेराराध्यतामुपपादयन्तस्तावदेवं वन्ति अष्टम्यादेर्यत्र दिने क्षयः अर्थात् सूर्योदयोत्तरप्रवृत्तिपूर्विका निवृत्तिः टिप्पणतः प्राप्यते तत्र दिने सूर्योदयकालिक्यां सप्तम्यादावेव "क्षये पूर्वा तिथिः कार्या” इति शास्त्रमपूर्वविधिमर्यादयाऽष्टमीत्वादेर्व्यवस्थापनेन क्षीणामष्टम्यादितिथिमौदयिकी विदधदाराधनायोग्यां तां करोति । न च सप्तमीत्वाष्टमीत्वाद्योविरुद्धयोरेकत्र समावेशोऽनुचित इति शङ्कयम् , जैनागमेषु परस्परप्रतिकूलप्रतीतधर्माणामप्यपेक्षाभेदेनैकनिष्ठतायाः सम्भवत्स्वीकारतायाः प्रतिपादिततया एकस्यां तिथावाराधनानिमित्तापेक्षयाऽप्टमीत्वादेस्तदितरनिमित्तापेक्षया च सप्तमीत्वादेः समावेशस्वीकृतेरनौचित्याभावात् । __न चाष्टमीत्वादीनामाराधनानिमित्ताद्यपेक्षत्वस्य कल्पनैकमूलकतया प्रामाणिकप्रणयास्पदता दुरासदेति सन्देहनीयम् , आर्हतप्रजाजनेषु कस्याप्यविप्रतिपन्नप्रामाण्यया श्रीधर्मसागरप्रणीततत्त्वतरङ्गिण्या तादृशार्थस्य वर्णनात् । तद् यथा--" नन्वौदयिकतिथिस्वीकारान्यतिथितिरस्कारप्रवणयोरावयोः कथं त्रयोदश्या अपि चतुर्दशीत्वेन स्वीकारो युक्तः ? तत्र त्रयोदशीति व्यपदेशस्याप्यसम्भवात् , किन्तु प्रायश्चित्तादिविधौ चतुर्दश्येति व्यपदिश्यमानत्वात् ” इति । त्रयोदशीत्वचतुर्दशीत्वयोः परस्परविरुद्धतया त्रयोदश्याश्चतुर्दशीत्वस्वीकारो नोचित इति शङ्काऽभिप्रायः । तस्याः प्रायश्चित्ताद्यपेक्षया चतुर्दशीत्वं स्वीक्रियते, तदपेक्षया च न तस्यास्त्रयोदशीत्वं किन्तु चतुर्दशी त्वमेव । एकापेक्षयैव तयोविरोधः नत्वपेक्षाभेदेनापीति च समाधानाभिसन्धिः । स च "प्रायश्चित्तादिविधौ चतुर्दश्येव' इत्यत्र ‘प्रायश्चित्तादिविधौ' इति शब्दोपादानेन स्पष्टमेव प्रकाशितः । अतः क्षीणाष्टम्याः दिने सूर्योदयकालिकतिथ्यामष्टमीत्वाभ्युपगतये ततः सप्तमीत्वनिवृत्तेरङ्गीकारस्यावश्यकतया पर्वतिथेः क्षयाभावः पूर्वापर्वतिथेः क्षयश्चोक्तवचसा बोधितो भवतीति भावः परकीयभ्रमसम्भव एव।
पवं पर्वानन्तरपर्वरूपायाः पूर्णिमाया अमावास्यायाः वा यत्र दिने क्षयः तद्दिने सूर्योदयकालिक्यां चतुर्दश्यामेवोक्तशास्त्रानुसारेण पूर्णिमात्वममावास्यात्वं वा व्यवतिष्ठते, तत्रापि तदर्थं चतुर्दशीत्वनिवृत्तिर्नावश्यकी, एकस्यामेव तिथौ पूर्णिमाद्याराधनापेक्षया पूर्णिमात्वादेश्चतुर्दश्याराधनानिमित्तापेक्षयेतरनिमित्तापेक्षया च चतुर्दशीत्वस्य वर्तनोपपत्तेः । अतस्तत्रापि टिप्पणतश्चतुर्दशीमति सूर्योदयकाले पूर्णिमादिस्वीकारे ततश्चतुर्दशीनिवृत्तेः टिप्पणतस्त्रयोदशीमति सूर्योदयकाले चतुर्दशीस्वीकृतेश्चानावश्यकतया टिप्पणे पूर्णिमादेः क्षयनिर्देशे त्रयोदश्या एव सूर्योदयकालसंसर्गित्वरूपं क्षीणत्वमभ्युपेयमित्यपि मतिः परकीया विभ्रान्तिरेव ।
एवमष्टम्यादितिथीनां यदा वृद्धिः अर्थाद् दिनद्वये सूर्योदयसामयिकत्वं टिप्पणादुपलभ्यते तदा "वृद्धौ कार्या तथोत्तरा" इति शास्त्रं नियमविधिमर्यादया उत्तरस्मिन्नेव दिनेऽष्टम्यादेरौदयिकीत्वमष्टमीत्वं वा व्यवस्थापयति । अर्थाद् अभिवृद्धाऽष्टम्यादिः आराधनाऽपेक्षया उत्तरस्मिन्नेव दिने औदयिकी अष्टम्यादिरूपा वेत्यवबोधयति । अन्यथैकतिथ्याराधनायाः एकस्मिन्नेव दिने शास्त्रपरम्पराप्राप्तकर्तव्यताकतया तादृशतिथ्याराधनाया पाक्षिकत्वस्यापरिहार्यत्वापत्तेः। इत्थं च प्रोक्तं वचः पर्वतिथिवृद्धिप्रतिषेधं प्रत्याययत् अपर्वतिथिवृद्धि विज्ञापयतीति परप्रज्ञा परस्यैव प्रिया, निर्मर्यादमुद्गताया असत्यास्तस्याः शाब्दमर्यादया शास्त्रान्तरङ्गविज्ञानां प्रीतिपात्रताया असम्भवात् । ___ "क्षये पूर्वा" इत्यादिसम्पूर्णस्य पूर्वपादद्वयात्मकस्य वचसो व्याख्यानं चेत्थम्-क्षयेः-तिथेः पर्वतिथेर्वा क्षये टिप्पणतः ज्ञाते, पूर्वा तिथि:-सप्तम्यादिरूपौदयिकी तिथिः, कार्या-अष्टम्यादिभावेन आराधनार्थं ग्राह्या, इति । तथा वृद्धौ-कस्यास्तिथेर्दिनद्वये सूर्योदयकालिकत्वे च, तथा शब्दस्यात्र चार्थत्वात् । उत्तरा-उत्तरदिनवृत्तित्वविशिष्टव तिथिः। अथवा-वृद्धौ-उत्तरा तिथिः-उत्तर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org