________________
५८
दश्यां विस्मृतौ तु प्रतिपद्यपि” इति अन्य
[ જૈન દષ્ટિએ તિથિદિન અને પર્વોરધન-સંગ્રહવિભાગ यस्यतां जनानां क्षीणतिथ्याराधनायाः प्रकारान्तरतोऽप्राप्ततया तदपेक्षयैव आराधनाविधायकत्वस्य श्रीरामचन्द्रसूरिणा कथितत्वात्। वस्तुदृष्टया तु क्षीणपर्वतिथिसमाप्तिसम्बन्धिदिनस्य प्रकारान्तरतोऽप्राप्तस्य क्षीणतिथ्याराधनाङ्गभावस्य विधायकताया एव तेनापि स्वीकारात् । “क्षये पूर्वा तिथिः कार्या" अगर "क्षये पूर्वा तिथिर्णाह्या" ए आशा जे पर्वतिथि उदयतिथिरूपे प्राप्त थतीज न होय तेवी पर्वतिथिनी मान्यता आराधनानो दिवस नक्की करवाने माटेज छे"-इत्येवं गुर्जरभाषानिबद्धे स्वपक्षस्थापने स्पष्टमेव तेनाभिधानात् । ____ एवञ्चोक्तरीत्या क्षीणतिथीनामाराधनायास्तासामौदयिकीत्वकल्पनं विनाप्युपपन्नतया पर्वानन्तरपर्वतिथेः क्षयस्थले च एकस्मिन्नेव दिने क्षीणाक्षीणयोरुभयोः पर्वतिथ्योराराधनायाः सम्भवतया क्षीणपर्वतिथेः पूर्वस्याः पूर्वतरायाः वाऽपर्वतिथेः क्षयकल्पनमनावश्यकमसङ्गतश्चेति ।
अत्रैव प्रसङ्गे श्रीसागरानन्दसूरिणा-रामचन्द्रसूरिः पर्वतिथेः क्षये एकमासे ५कादश पर्वतिथीरेव स्वीकरोति वृद्धौ च त्रयोदश पर्वतिथीरङ्गीकरोत्यतस्तन्मते "क्षये पूर्वा" इत्यादिप्रघोषस्य नैरर्थक्यमापद्यते, पर्वतिथीनां नियमेन द्वादशसंख्याकत्वस्वीकार एव तत्प्रघोषस्योत्थानसम्भवादिति यदिदमुक्तम् , तद् वस्तुनो विस्पष्ट एवापलापः। क्षीणायास्तिथेोपस्य वृद्धायास्तिथेः सूर्योदयभेदेन भेदस्य च श्रीरामचन्द्रसूरिणाऽनभ्युपगमात् , किन्तु क्षीणायाः पर्वतिथेः सूर्योदयस्पर्श विनापि स्वरूपसत्ताया आराध्यतायाश्च वृद्धायास्तिथेर्दिनद्वयेऽभिन्नताया उत्तरदिनमात्र आराध्यतायाश्च सुस्पष्टमुद्घोषणात् ।
ननु श्रीहीरप्रश्नस्य द्वाविंशत्पत्रगते “पूर्णिमायाश्च श्रुटितायां त्रयोदशीचतुर्दश्योः क्रियते, त्रयोनयां निम्तोत्र प्रतिपदाधि" इति ग्रन्थे द्विवचनान्तत्रयोदशीचतर्दशीशब्दोल्लेखेन पर्णिमाश्रये त्रयोदश्याः क्षयः सूच्यते । अन्यथा चतुर्दश्यां पाक्षिकपूर्णिमयोद्वयोःसन्निवेशस्याभिप्रेतत्वे एकवचनान्तचतुर्दशीशब्दोल्लेख एव क्रियेतेति चेन्न, पूर्णिमाया अक्षयदशायां पूर्णिमायां समाप्यमानस्य षष्ठतपस एव पूर्णिमायाः क्षयदशायां कर्तव्यताकथन्तायाः प्रष्टुजिशास्यताऽभिप्रायेण पूर्णिमाक्षयप्रसङ्गे त्रयोदश्यामारभ्य चतुर्दश्यां सुसूचयिषितायास्तत्समाप्तेद्विवचननिर्देशं विना सूचनाया असम्भवात् । अन्यथा " त्रयोदश्यां विस्मृतौ प्रतिपद्यपि" इत्युत्तरग्रन्थोऽसङ्गतः स्यात् , प्रतिपदि पूर्णिमायाः लेशतोऽपि संसर्गाभावेन तत्र तदाराधनोपदेशासम्भवात् । .
ननु सूर्यप्रज्ञप्ति-ज्योतिष्करण्डकादिशास्त्रप्रामाण्येन युगान्ते आषाढवृद्धिप्रसङ्गे द्वितीयाषाढपूर्णिमायाः क्षयस्यावश्यकतया तस्य त वास्तविकत्वाभ्यपगमे "अभिवद्धितसंवत्सरे यदाऽधिकमासो भवति तदाऽऽषाढपूर्णिमातो विंशतौ रात्रिषु गतासु वदेत् । 'यद् वयं वसामः' इत्यर्थके "अभिवढितसंवच्छरे जत्थ अहिअमासो पडति, आसाढपुण्णिमाओ वीसतिराते गते भण्णति ठियामो त्ति" इति निशीथचूर्णिवचने आषाढपूर्णिमोपादानं न युक्तमिति चेन्न, तिथिक्षयस्य तिथेरत्यन्तलोपानात्मकत्वात् प्रत्युत क्षीणत्वेन निर्दिष्टायाः पर्वतिथेः वस्तुतोऽनौदयिकीत्वेऽपि आराधनाद्यनुरोधेन प्रधानभावेनास्तित्वव्यपदेशयोः स्वीकारेण कथिताषाढ़पूर्णिमोपादानस्य निरुपद्रवत्वात् ।
टिप्पणोक्तस्याषाढपूर्णिमाक्षयस्य परमार्थभावनाङ्गीकारे परमते तहिने चतुर्दश्या अप्यवश्यं स्वीकार्यतया पर्वतिथितया उदयकालस्पर्शितया च तदुपादानस्यैवोचिततरत्वेन तदुपेक्षा निर्बीजा स्यादिति यत् श्रीसागरानन्दसूरिणोद्गीणम् , तन्न युक्तम् , चतुर्दश्याः निर्देशे तामादायैव तिथि: गणनस्य प्रसक्त्या वर्षावासारम्भतिथेः पञ्चाशत्तमतिथौ पर्युषणाऽवतारणानियमस्यासङ्गत्यापत्तेः। अत एव तदिने चतुर्दशीपौर्णमास्योईयोरेव परमते सत्तया तदुभयविज्ञापनमेव कर्तव्यमासीत् , किन्तु तथा न कृतम् , तेन ज्ञायते यत् तद्दिने पूर्णिमाया एव सत्त्वं शास्त्रसम्मतमित्यपि तदीयोत्प्रेक्षणन्न रमणीयम् , उक्तवचसो युगान्तीयद्वितीयाषाढ़पूर्णिमादिनस्य स्वरूपसाकल्यपरिचयप्रदित्स
योयोः सन्निवेशस्याभिप्रेतत्वे एकवच
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org