Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust

View full book text
Previous | Next

Page 465
________________ ૬૨ [ જૈન દષ્ટિએ તિથિદિન અને પરાધન-સંગ્રહવિભાગ च्छिन्नेऽपि जैनटिप्पणके सम्प्रतिटिप्पणकप्रवृत्तिरेव तत्साक्षिणी" (श्रीप्रवचनपरीक्षा पृ० १९०) ___ " यत्तु जैनटिप्पणकानुसारेण श्रावणभाद्रपदवृद्धावपि आषाढवृद्धिरेव गण्यत इति तन्न युक्तम् , जैनटिप्पनकस्य व्युच्छिन्नत्वात् , सम्प्रति शैवटिप्पनकेनैव व्यवहारप्रवृत्तिः तदनङ्गीकारे दीक्षाप्रतिष्ठादिमुहूर्तज्ञानं दूरे मासवृद्धिरपि कथं ज्ञायते ? तस्माच्छावणभाद्रपदवृद्धि षाड़तया व्यवहर्तव्या किन्तु श्रावणादितयैवेति" (श्रीप्रवचनपरीक्षा मु० पृ० ४४१ )। नशास्त्रग्रन्थेषु सम्प्रदायान्तरपरिचालितटिप्पणस्य तिथिप्रवृत्त्यादिविषयजाते प्रमाणत्वेनोपादेयताया स्पष्टं प्रतिपादितत्वेन तदनुसारेण तिथीनां प्रवेशावस्थितिसमाप्त्यादीनामस्वीकरणमसद्वासनावशात् कामाचरणमेव । किञ्चेदमप्यत्रावधेयं यद् यदाऽभिवृद्धया पूर्णिमयोपगूढोऽपि प्रथमो दिवसो नपुंसकतया तामाराधनागर्भी कर्तुम् , सैव वा क्लैब्यात् स्वाश्लेषितारमपि प्रथमवासरमाराधनापितरं कर्तुं न क्षमते तदा स्वात्मानमनालिङ्गन्ती चतुर्दशीमाराधनागभी कर्तुं स दिवसः, स्वामसंस्पृशन्तं च तं चतुर्दशी वा जनकपदास्पदं कर्तुं कथं समेत ? अतोऽभिवृद्धपूर्णिमायाः प्रथमे दिने चतुर्दश्याराधनासम्भावना श्रीसागरानन्दसूरेन युज्यते, न चाभिवृद्धपूर्णिमादेः प्रथमो दिवसोन नपुंसका प्रमाणाभावात् , न वा पूर्णिमादिरेव पूर्णा क्लीबा, किन्तु “वुड्ढे पढमोऽवयवो नपुंसओ निअयनामकज्जेसु । जणं तकजकारो इअरो सव्वुत्तमो सुमओ" ॥ २०८ ॥ ___ वृद्धे–मासादी वृध्धे सति तदीयः प्रथमोऽवयवः, सूर्योदयद्वयस्पर्शिनी तिथिवृद्धत्युच्यते, तत्राद्यसूर्योदयावच्छिन्ना तिथिः प्रथमोऽवयवो द्वितीयोदयावच्छिन्ना च द्वितीयोऽवयवः भण्यते, यदा चैकस्यां संक्रान्तौ मासद्वयस्योदयः स्यात् तदा मासवृद्धिरुच्यते, तत्र प्रथममासोदयावच्छिन्ना संक्रान्तिरेव प्रथमोऽवयवो भण्यते, परस्तु द्वितीय इति एवं च सति तिथिमासयोराद्ययोरंशयोः प्रथमतिथ्यादिसंज्ञा स्यात् । तत्र प्रथमा तिथिर्मासो वा निजकनामकायैषु-आषाढादिमासेषु प्रतिपदादितिथिषु चेदंकर्तव्यादिरूपेण स्वस्वनामाङ्कितकृत्येषु नपुंसको इव नपुंसक बोध्यः," इत्यादेः प्रवचनपरीक्षायाः ४०८-४०९ पृष्ठगतत्रन्थस्यानुसारेण प्रथमदिवसीया पूर्णिमादिरेव । एवं पूर्णिमादेः प्रथमो दिवसो न चतुर्दशीसंसर्गविधुरः किन्तु वृद्धपूर्णिमादेः “वृद्धौ कार्या तथोत्तरा" इति वचनेन द्वितीयदिने नियमिततया पूर्णिमादेश्चतुर्दश्यव्यवहितोत्तरत्वनियमनिहाय प्रथमदिने नूनं निमन्त्रणीयया चतुर्दश्या संश्लिष्ट एवेति नोक्तदोषोदय इति वाच्यम् , एवमपि प्रथमपूर्णिमायाः क्लीवतया ततश्चतुर्दश्याराधनायाश्चतुर्दश्याश्चास्वतन्त्रायाः पुण्यपर्वरूपायाश्च पुण्यायाः प्रथमपूर्णिमादेः संसर्गेण दूषिते दिने आकर्षणासम्भवेन तत्सहयुक्तायास्ततोऽपि तदाराधनाया असम्भवात् । न च “ यथा हि नपुंसकः स्वापत्योत्पत्तिमधिकृत्यासमर्थस्तथा तत्तन्नामाङ्कितकृत्येष्वेव सामर्थ्याभावकथनेन तस्याश्चतुर्दश्याराधनां प्रत्यसामर्थ्यस्यासिद्धया निराबाधैव ततश्चतुर्दश्यारा धनोपपत्तिरित्यपराभूतमेव श्रीसागरानन्दवचनमिति वाच्यम् , प्रथमपूर्णिमादेः पूर्णिमात्वादिना तन्नामाङ्किताराधनादिकार्यकारितायाःप्राप्ततया तदधिकृतसामर्थ्यप्रतिक्षेपस्योचिततयाऽऽवश्यकतया च तत्रैव ग्रन्थकारस्य व्यापृतत्वेऽपि तस्याश्चतुर्दश्याराधनादिसम्पादकतायाः कथञ्चिदप्यप्राप्ततयाऽनुचिते निष्प्रयोजने च तदधिकृतसामर्थ्यप्रतिषेधे ग्रन्थकारव्यापारविरहमात्रेण तस्यां क्लीवायां चतुर्दश्याराधनोपधानासम्भवात् ।। - अत एवात्र प्रसङ्गे सन्तानजनने सामर्थ्यहीनापि नारी युद्धादिदाक्ष्यं दर्शयत्येव रणस्थल इति स्वकार्येऽसामर्थ्य परकार्येऽप्यसामर्थ्यमेवेति नियमाभावेन निजनिमित्तकाराधनोपपादनेऽक्षमापि प्रथमपूर्णिमादिश्चतुर्दश्याराधनोपपादने प्रभविष्यतीति यदुक्तं श्रीसागरानन्दसूरिणा, तदत्यन्तम Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552