Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust

Previous | Next

Page 469
________________ [ જૈન દષ્ટિએ તિથિદિન અને પર્વારાધન-સંગ્રહવિભાગ हि यदि टिप्पणनिर्दिष्टस्तत्तत्तिथिकाल एव मुख्योऽभ्युपेयते, तदा कल्याणकतिथीतरपर्वतिथिमाअपरत्वेऽपि पर्वान्तरपर्वतिथीनां क्षयादिस्थले पूर्वपर्वतिथीनां मुख्यकाले आराधनानुपपत्तिरपरिहार्यव परमते । ( २ ) द्वितीयेनापि हेतुना विवक्षितोऽर्थः साधनानर्हः, धार्मिकानुष्ठानेऽपेक्षितसावधानतायाः यथावदनाश्रयणेन तादृशदोषेण तादृशपुरुषमासस्यावश्यकत्वात् । अन्यथा तस्य वचसो विवक्षिततिथिमात्रपरत्वाभ्युपगमेऽपि क्षीणां वृद्धां वाऽमावास्यां पूर्णिमां वाऽनवधाय चतुर्दश्याः टिप्पणप्रवेदित औदयिकीत्वदिने कृततदाराधनस्य कृते किं व्यवस्थाप्येत ? (३) तृतीयेनापि हेतुना नाभिमतसिद्धिः तस्य वचसः कल्याणकतिथीतरपर्वतिथिमात्रपरत्वेऽपि प्रतिमासं तादृशीनां द्वादशपर्वतिथीनां सत्त्वेन तासु कतिपयपर्वतिथीनां प्रायः प्रतिमासं क्षयवृद्धयोनिर्देशस्य टिप्पणे सम्भवेन तादृशसर्वनिर्देशविषये तस्याप्रमाणिकत्वाङ्गीकारेऽन्यांशेऽप्यप्रामाण्यशङ्काप्रसङ्गेनाविश्वसनीयताऽऽपत्त्या क्षीणादितिथिविषयककथितसन्देहोत्थितेरवर्जनीयतया तद्वचोमूलभङ्गप्रसङ्गस्य दुश्चिकित्स्यत्वात्। (४) प्रकरणबलादप्युक्तवचसः कल्याणकपर्वतिथिभिन्नपर्वतिथिमात्रपरत्वं स्वीकर्तुं न शक्यम् , तादृशप्रकरणस्याभावात् । तथा हि "क्षये पूर्वा" इत्यादिवचनमुमास्वातिवाचकप्रघोषत्वेन प्रसिद्धं केवलं श्रूयते, तस्य प्राच्यमौदीच्यं वा तत्प्रघोषयितुः किमपि वचनान्तरं न श्रूयते, येन प्रधानपर्वतिथिविचारप्रकरणे पठितत्वात् तत्स्थस्य तिथिपदस्य प्रधानपर्वतिथिमात्रपरत्वं कल्प्येत । न च क्षीणानां वृद्धानां च तिथीनामाराधनोपपादकतया तस्य प्रधानपर्वतिथिप्राकरणिकतास्वीकार इति सङ्गतं क्षीणानां प्रधानपर्वतिथीनामेवाराधनोपपत्तये तत्प्रघोषो न तु कल्याणकतिथीनामित्यस्यासिद्धतया तथा कल्पनाया असम्भवात् । किञ्च तद्वाक्यघटके तिथिपदे श्रुते यदि तेन नानार्थकेनेव बहवोऽर्था उपस्थाप्येरन् तदा कोऽर्थोऽत्राभिप्रेत इति भवेदभिप्रायमेदबुभुत्सा, यत्प्रशमनाय प्रकरणमपेक्ष्येतं । तिथिपदन्तु तिथित्वरूपसामान्यधर्मावच्छिन्नैकवृत्तिकमिति तेन तिथित्वरूपेण तिथिसामान्यस्योपस्थापनात् सामान्यधर्मावच्छिन्नवाचकपदप्रयोगबलादेव च सामान्यधर्मावच्छिन्ने तात्पर्यग्रहसम्भवेन प्रकरणस्यानपेक्षणात् , सामान्यधर्मावच्छिन्नवाचकपदस्य बाधकादिकमन्तरा विशेषधर्मावच्छिन्ने सङ्कोचासम्भवाच्च। न च यथा घटसामान्यवाचिनो “ घटेन जलमाहर" इतिवाक्यस्थघटपदस्य सच्छिद्रे घटे जलाहरणकरणताया बाधिततया सच्छिद्रेतरघटमात्रबोधकता भवति, तथा “क्षये पूर्वा" इत्यादिवाक्यस्थतिथिपदस्यापि प्रधानपर्वतिथिमात्रबोधकतास्वीकारे किं बाधकमिति वाच्यम् , तथा स्वीकारसाधकामावस्यैव बाधकत्वाद् दृष्टान्तमात्रस्यासाधकत्वात् । ___ न च तथापि “प्राश्नन्ति ब्राह्मणा ओदनम्" इति पूर्वमीमांसाऽऽधानप्रकरणपठित आधानाङ्गभूतब्रह्मौदनप्राशनार्थं ब्राह्मणविधायके वाक्येऽविशेषश्रुतब्राह्मणपदस्याधानाङ्गाध्वर्वादिब्राह्मणमात्रबोधकतावत् उक्तवाक्यस्थतिथिपदस्यापि प्रधानपर्वतिथिमात्रबोधकता समुचितेति विपर्यस्तव्यम् , तत्र, आधानप्रकरणस्येवात्र प्रधानपर्वतिथिप्रकरणस्याभावात् । श्रीसागरानन्दसूरिणा तदादेशेन वाग्वर्षिणाऽपरेण वाऽपि तादृशप्रकरणमप्रदर्शयता प्रकरणशब्दप्रयोगमात्रस्यैव कृतत्वात् । ____ ननु तत्तद्ग्रन्थेषु प्रधानपर्वतिथीनामेव क्षयवृद्धिविषयको विचारो दृश्यते, यथा श्रीहीरप्रश्नस्य २२ पृष्ठे “यदि पञ्चमी तिथिस्त्रुटिता भवति" "पूर्णिमायाश्च त्रुटितायाम्" श्रीहीरप्रश्ने १४ पृष्ठे " पूर्णिमाऽमावास्ययोवृद्धौ” श्रीसेनप्रश्नस्य तृतीयोल्लासे “ एकादशीवृद्धौ” इत्यादि, यदि पुनः कल्याणकतिथीनामपि क्षयवृद्धी विचारणीये स्यातान्तदा तासामपि नामग्राहं क्षयवृद्धिविचारोऽपि For Personal & Private Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552