Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust

View full book text
Previous | Next

Page 458
________________ ૧. લવાદી ચર્ચામાં આવેલા નિર્ણયને સમર્થક શ્રી અર્ધનિથિભાકર ] ૫૫ चतुर्दश्या आराधनस्यापि निष्पन्नतायाः स्पष्टं सूचनात् । अष्टादशगाथाव्याख्यायाम् “ एवं क्षीणतिथावपि कार्यद्वयमद्य कृतवानहमित्यादयो दृष्टान्ताः स्वयमूह्याः" इति वचनेन क्षीणपौर्णमास्यादिके चतुर्दशीदिने तदुभयाराधनात्मनः कार्यद्वयस्य कण्ठरवेण कथनाच्च कथिता श्रीसागरानन्दोक्तिविरुद्धैव । चतुर्दश्याः क्षये पञ्चाङ्गानुसारेण त्रयोदश्या औदायिकीत्वदिने चतुर्दश्येवैका तिथिर्नतु त्रयोदशी इति यत् श्रीसागरानन्दसूरिणा कथ्यते तत् तत्त्वतरङ्गिण्याः पञ्चमगाथाव्याख्यान्तर्गतात् “नच क्षीणे पाक्षिके त्रयोदश्यां चतुर्दशीज्ञानमारोपरूपं भविष्यतीति वाच्यम् , तत्रारोपलक्षणस्यासम्भवात् , नहि घटपटवति भूतले घटपटौ स्त इति ज्ञानं कनकरत्नमयकुण्डले (वा) कनकरत्नशानं भ्रान्तं भवितुमर्हति, एवमेकस्मिन्नेव रव्यादिवारलक्षणे वासरे द्वयोरपि तिथ्योः समाप्तत्वेन विद्यमानत्वात कौतस्कत्यमारोपज्ञानम?" इति ग्रन्थादपि विरुद्धम । यतो हि यदि त्रयोदशीदिने क्षीणचतुर्दशीमात्रस्य सत्त्वमभिमतं भवेत्तदा घटवति घटज्ञानस्येव तद्दिने चतुर्दशीज्ञानस्यानारोपत्वं वयेत, नापि “द्वयोरपि तिथ्योः समाप्ततया विद्यमानत्वात् " इति वचनतः स्पष्टमेव द्वयोः सत्त्वं सूच्येत । . खरतरसम्मतायाः पौर्णमास्यां चतुर्दश्यनुष्ठेयतायाः निराकरणपूर्वकं स्वमते क्षीणपौर्णमास्याश्चतुर्दशीदिने समाराध्यताप्रदर्शनानन्तरं तत्त्वतरङ्गिणीकारेणात्रैव प्रकरणे “अथानन्तर्यासु द्वित्रादिकल्याणकतिथिषु किमेवमङ्गीक्रियते ?" इति खरतरप्रश्नः समाधातुमुत्थापितः। अयं च प्रश्नस्तदैवोत्थातुमर्हति यदि पूर्व ग्रन्थकारेण चतुर्दशीदिने चतुर्दशीक्षीणपौर्णमास्योरुभयोरेवाराधनं सूचितं स्यात् । यतः प्रश्नस्यायमाशयः स्पष्टं प्रतिभाति यद् यथा पौर्णमासीक्षये चतुर्दशीदिने चतुर्दशीपौर्णमास्योरुभयोराराधनं मन्यते तथैव किम् आनन्तर्येणागतासु द्वित्रादिकल्याणकतिथिषु चरमाया क्षयेऽपि मन्यते ? यद्येवम् , तदाऽनन्तरदिनमादाय भविष्यद्वर्षकल्याणकतिथिदिनञ्चादाय तपःसमाचरणमनावश्यकम् । यदि नैवम् , तदा पौर्णमासीक्षयस्थले चतुर्दशीदिने द्वयोराराधनास्वीकरणम् , कल्याणकतिथ्यनन्तरकल्याणकतिथिक्षये च तत्प्रकारेणाराधनाया अस्वीकरणम् इति वैषम्यं निनिमित्तत्वादनुचितम्। यदि पुनः श्रीसागरानन्दसूरिमतानुसारेण क्षीणपौर्णमास्याश्चतुर्दशीदिने चतुर्दश्याश्च त्रयोदशीदिने आराधनमेव ग्रन्थकृत्सूचितं स्वीक्रियेत तदाऽऽख्यातस्य खरतरप्रश्नस्योत्थानं नैव घटेत । तेन व्यक्तमेव भवत्येतद् यत् पौर्णमासीक्षये चतुर्दशीदिने द्वयोरेवाराधनं ग्रन्थकृतः सम्मतम् । ___ उक्त खरतरप्रश्नस्य “अग्रेतनकल्याणकतिथिपाते प्राचीनकल्याणकतिथौ द्वयोरपि विद्यमानत्वादिष्टापत्तिरेवोत्तरम् ।............कल्याणकाराधको हि प्रायस्तपोविशेषकरणाभिग्रही भवति, स च द्विधा निरन्तरतपश्चिकीर्षुः सान्तरतपश्चिकीर्षुश्च, तत्राद्य एकस्मिन् दिने द्वयोरपि कल्याणकतिथ्योर्विद्यमानत्वेन तदाराधकोऽपि सन्ननन्तरोत्तरदिनमादायैव तपःपूरकः भवति नान्यथा, यथा पूर्णिमापाते चातुर्मासिकषष्ठतपोऽभिग्रही अपरदिनमादायैव तपःपूरकः, द्वितीयस्तु भविष्यद्वर्षतकल्याणकतिथियुक्तं दिनमादायैवेति न किञ्चिदनुपपन्नम्” इति ग्रन्थेनोत्तरं कुर्वता ग्रन्थकृताऽसन्दिग्धमेवोक्तं यद् यथा पूर्णिमापाते चतुर्दशीदिने चतुर्दशीपूर्णिमयोरुभयोराराधको भवन्नपि पुमान् चातुर्मासिकं षष्ठं तपः दिनान्तरमादायैव पूरयति तथैवोत्तरकल्याणकतिथिपाते पूर्वकल्याणकदिने द्वयोः कल्याणकयोराराधकः सन्नपि नरः स्वं तपोऽभिग्रहं दिनान्तरग्रहणेनैव पूरयति, प्रकारान्तरेण तत्पूरणासम्भवात् । अस्योत्तरग्रन्थस्याधारेण श्रीसागरानन्दसूरिः पर्वतिथेस्तपःपौषधादिनाऽऽराध्यतया एकदिने द्वयोः पर्वतिथ्योराराधनं न भवितमहति, कल्याणकतिथेस्तपोमात्रेणाराध्यतायां सत्यामपि एकदिवसीयतपसा द्वयोराराधनं न भवतीति तद्वयाराधनाय दिनान्तरं गृह्यते इत्याद्यर्थं कथं वर्ण Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552