Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust

Previous | Next

Page 457
________________ ૫૪ [ જૈન દૃષ્ટિએ તિથિદિન અને પર્વોરાધન–સંગ્રહવિભાગ ह्या " तस्मिन्नेव दिवसे द्वयोरपि समाप्तत्वेन तस्या अपि समाप्तत्वात् " इति । अनेन ग्रन्थेन क्षयदिने क्षीणतिथिसत्तायाः समाप्तताहेतुकत्वमुद्युष्य तद्दिने तस्या औदयिकीत्वकल्पनाया अनावश्यकत्वं स्पष्टमेव सूचितम् । अतः क्षयदिने क्षीणतिथेः सूर्योदय समयादेव सम्बन्धकल्पनमशास्त्रीयमेव । अत्रापि या या तिथिर्यस्मिन् आदित्यादिवारलक्षणदिवसे समाप्यते स एव दिवसो वारलक्षणः प्रमाणमिति तत्तत्तिथित्वेन स्वीकार्यः इत्यनुक्त्वा 'या तिथिः तत्तिथित्वेन ' इत्युक्त्या एकदिने एक तिथेरेव सत्ता सूच्यते न द्वयोरिति श्रीसागरानन्दसूरिणा यत्कल्प्यते तन्न युक्तम् " या या तिथिः तत्तत्तिथित्वेन' इप्युक्तेः यत्र दिने एकैव तिथिः समाप्यते तद्दिनसाधारण्यासम्भवेन तद्दिने तत्तिथित्वलाभस्यासम्भवात्, 'या तिथि.... तत्तिथित्वेन' इत्युतेस्तु यत्र दिने तिथिद्वयस्य समाप्तिः, यत्र च दिने एकस्या एव तिथेः समाप्तिस्तदुभयोरेव साधारण्यसम्भवेन दोषाभावात् । " तस्मिन्नेव दिवसे द्वयोरपि समाप्तत्वेन " इत्यग्रेतनेन वचनेन तत्कल्पनायाः विस्पष्टं कदर्थनाच्च । अत्र प्रसङ्गे " किं किमप्यष्टम्या रहोवृत्त्या समर्पितं यन्नष्टाऽप्यष्टमी परावृत्त्याभिमन्यते, पाक्षिकेण च किमपराद्धं ? यत्तस्य नामापि न सह्यते " इति ग्रन्थघटकं " नष्टाऽप्यष्टमी परावृत्याभिमन्यते " इति भागं- नष्टा अपि अष्टमी, परावृत्त्याभिमन्यते - सप्तमीमपनीय मन्यते - इत्ये तदर्थकतया व्याख्यातुं यत् श्रीसागरानन्दसूरिणा चेष्टितम्, तदतिचेष्टितम् परावृत्त्येतिशब्दस्य अपनीयेत्यर्थकत्वासम्भवात् तदर्थतात्पर्ये 'परावर्त्य' इति शब्दप्रयोगस्यैव युक्तत्वात् । अन्तर्भा वितण्यर्थतायाश्च प्रमाणाभावेन वक्तुमशक्यत्वात् । 66 ,” तर्हि तद्वाक्यस्य विशुद्धा व्याख्या कीदृशी ? इति चेत्, श्रूयताम् । “ परावृत्त्याभिमन्यते " इत्यत्र “ परावृत्त्य अभिमन्यते " इति न च्छेदः किन्तु " परावृत्त्या अभिमन्यते " इति च्छेदः । परावृत्त्या इत्यस्य च परस्याः-अन्यस्याः, सप्तम्या इति यावत् । " वृत्त्या ” स्थित्या । सहेति गम्यम् । अभिमन्यते - स्वीक्रियते । अथवा परस्मिन् उत्तरस्मिन् दिवसे अवृत्त्या सम्बन्धाभावेन, अर्थात् पूर्वदिन एव समाप्तत्वेन हेतुनाऽभिमन्यते इति । अयम्भावः - येन परदिनावर्तनवेद्येन पूर्वदिने समाप्तत्वरूपनिमित्तेन नष्टामनौदयिकीमप्यष्टमी पूर्वदिने मनुषे तस्य निमित्तस्य क्षीणचतुर्दश्यामपि निर्विशेषं सत्त्वेन ताञ्च न पूर्वदिने मनुषे इति वैषम्यं कुतः कुरुषे ? किमेवं कर्तुं प्राप्तवासिकञ्चिदुत्कचमष्टम्याः ? एकस्मिन् दिने द्वयोस्तथ्योराराधनं न भवितुमर्हति इति श्रीसागरानन्दसूरिवचनं " किंच क्षीणपाक्षिकानुष्ठानं पौर्णमास्यामनुष्ठीयमानं किं पञ्चदश्यनुष्ठानं पाक्षिकानुष्ठानं वा व्यपदिश्यते ? आधे पाक्षिकानुष्ठानविलोपापत्तिः । द्वितीये स्पष्टमेव मृषाभाषणम्, पञ्चदश्या एव चतुर्दशीत्वेन व्यपदिश्यमानत्वात् " इति ग्रन्थतोऽपि विरुद्धम् । तथाहि तपागच्छपक्षपोषणे प्रवृत्तेन ग्रन्थकारेण पौर्णमास्यामनुष्ठीयमानस्य क्षीणपाक्षिकानुष्ठानस्य पञ्चदश्यनुष्ठानत्वव्यपदेशे यथा पाक्षिकानुष्ठानविलोपापत्तिः प्रदर्शिता तथा तस्य पाक्षिकानुष्ठानत्वव्यपदेशे पौर्णमास्यनुष्ठानविलोपापत्तिन भाविता, तेन स्पष्टं ज्ञायते यत् पाक्षिकानुष्ठाने पौर्णमास्यनुष्ठानमन्तर्भवति, अतः क्षीणपौर्णमास्याश्चतुर्दश्यौदयिकीत्व दिने आराधनोपपादनानुरोधेन ततश्चतुर्दश्या अपसारणम् एकत्र दिने द्वयोस्तिथ्योराराधनाऽनौचित्यकल्पनं च नैव न्याय्यम् । " किंच पञ्चमगाथाव्याख्यायां खरतराक्षेपं प्रतिक्षिपता " चतुर्दश्यां द्वयोरपि विद्यमानत्वेन तस्या अप्याराधनं जातमेव " इति यदुक्तं तत्र " तस्या अपि " इत्यत्र " अपि " शब्दोपन्यासेन Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552