Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust

Previous | Next

Page 455
________________ પર [ જૈન દષ્ટિએ તિથિદિન અને પર્વારાધન-સંગ્રહવિભાગ दिविधावित्युक्तत्वात् , गौणमुख्यमेदात् मुख्यतया चतुर्दश्या एव व्यपदेशो युक्त इत्यभिप्रायेणोक्तत्वाद्वा” इति वाक्यं ग्रन्थकता सन्दृब्धम् । एतदखिलप्रसङ्गपर्यालोचनेन स्पष्टमिदं प्रतिभाति यद् ग्रन्थकृतः क्षीणचतुर्दशीदिने त्रयोदशीचतुर्दश्योरुभयोरेव सत्त्वं व्यपदेश्यत्वञ्चाभिमतम् । अन्यथा यदि तस्य तत्राहनि चतुर्दशीमात्रस्य तदुभयमभिमतमभविष्यत्तदा “ अवरावि" इत्यस्य "अपरा एव" इत्यर्थपरतां प्रदर्श्य प्रागुक्तस्य "चतुर्दश्येव" इत्यस्यासङ्कचितस्यैव समर्थनं कृतं प्राप्स्यत् । परमत्र तु “प्रायश्चित्तादिविधावित्युक्तत्वात्" इत्यादिग्रन्थेन पूर्वोक्तस्य “चतुर्दश्येव" इत्यस्यैवार्थसङ्कोचः कृतो दृश्यते । तेनासन्दिग्धमवधार्यते यत् “अवरावि" इत्यनेन क्षीणचतुर्दशीदिने त्रयोदशीचतुर्दश्योर्द्वयोरेव व्यपदेश्यत्वं यत् पश्चात् सूचितं तस्यैव समर्थनं तच्चिकीर्षितम् । अत एव “गौणमुख्यभेदात् मुख्यतया चतुदश्या एव व्यपदेशो युक्त इत्यभिप्रायेणोक्तत्वाद् वा” इति ग्रन्थे “मुख्यतया” इत्यस्य हेतुनिर्देशपरत्वं निर्वर्ण्य मुख्यत्वहेतुना चतुर्दशीमात्रस्य व्यपदेशार्हताया युक्तत्वे ग्रन्थकृद्विवक्षितत्वसाधनाय श्रीसागरानन्दसूरिणा यच्चेष्टितम् तद् हास्यास्पदमेव उक्तरीत्योभयव्यपदेशस्यं समर्थन . एव ग्रन्थकारव्यापारस्य सिद्धत्वात् । ____ किञ्च “गौणमुख्यभेदात् मुख्यतया” इत्यादिग्रन्थस्य " मुख्यतया चतुर्दश्या एव व्यपदेशो योग्यः” इत्यर्थे तात्पर्यं शक्यकल्पनं तदा स्याद् यद्येष चतुर्दश्या एव व्यपदेशसमर्थनाय निबद्धः स्यात् , परमेवन्नास्ति । अयन्तु “ता अवरविद्ध अवरावि" इति ग्रन्थस्यापिशब्देन सूचितस्यापर्वतिथिव्यपदेशस्य रक्षायै प्रानिर्दिष्टायाश्चतुर्दशीमात्रव्यपदेशोक्तेः कथञ्चिदुपपादनाय संग्रथितः । अतोऽस्य ग्रन्थस्यायमेवाशयो मान्यो यत् प्राक् चतुर्दशीमात्रस्य यो व्यपदेश उक्तः स चतुर्दशीमात्रस्य मुख्यताव्यपदेशपरो न तु त्रयोदशीनिषेधपरः। अर्थात् चतुर्दशीक्षयदिने त्रयोदशीचतुर्दश्योरुभयोरेव सत्त्वेन कस्याः गौणत्वं कस्याश्च मुख्यत्वम् ? इति गवेषणायां चतुर्दश्या एव मुख्यत्वं पर्वरूपत्वान्न तु त्रयोदश्याः, तस्या अपर्वरूपतयाऽप्राधान्यात् । गवेषणापि सा नानावसरिकी, तद्दिने चतुर्दश्या मुख्यतानभ्युपगमे औदयिकचतुर्दश्याः पूर्वदिन इव क्षीणचतुर्दश्याः क्षयदिने आराधनाया अयोग्यत्वापत्तेः। एवं यद्यपर्वतिथेरपि पर्वतिथिक्षयदिने सत्तासंशयोलोपो न सह्यते विपश्चिज्जैनशास्त्राचार्यस्तदा क्षीणोत्तरपर्वतिथिकाया अक्षीणायाः पर्वतिथेस्तयोर्लोपः टिप्पणेन निर्दिष्टे तदौदयिकीत्वदिने कथमिव तैः सोढुमिष्टो भवेत् ? अतः पर्वानन्तरपतिथेः क्षयस्थले एकस्मिन्नेव दिने पूर्वापरपर्वतिथ्योराराध्यतायां श्रीधर्मसागरप्रभृतिप्राचीनजैनशास्त्रसदाचारधुरन्धराणां सम्मतत्वं विज्ञेयम् । एतदर्थसमर्थकोऽपि तत्त्वतरङ्गिणीग्रन्थः स्पष्टमुपलभ्यत एव, तथाहि “नन्वेवं पौर्णमासीक्षये भवतामपि का गतिः ?" इति खरतरप्रश्नस्य " अहो विचारचातुरी, यतस्तत्र चतुर्दश्यां द्वयोरपि विद्यमानत्वेन तस्या अप्याराधनं जातमेव" इत्युत्तरं ग्रन्थकृता कृतमस्ति. “ अत्र चतुर्दश्यां द्वयोरपि विद्यमानत्वेन" इति विस्पष्टपदावलीं शृण्वन् को नाम ऋते प्रमत्ताद् एकदिने द्वयोस्तिथ्योः सत्तायाः “ तस्या अप्याराधनं जातमेव” इति शब्दसंहति च शृण्वन् पकस्मिन् दिने द्वयोराध्यतायाश्च जनशास्त्रसम्मतत्वे सन्दिहानमनाः भविष्यति ? न च “चतुर्दश्यां द्वयोरपि विद्यमानत्वेन" इत्यस्य “टिप्पणानुसारेण द्वयोरपि विद्यमानत्वेन" इत्येतदर्थकतया न तद्वलेनैकत्र दिने द्वयोः पर्वतिथ्योः सत्तायास्तत्त्वतरङ्गिणीकृत्सम्मतत्वं समर्थनार्हमिति नोद्यम् , “टिप्पणानुसारेण" इति शब्दाध्याहारे विपरीतवासनाव्यतिरिक्तनिमित्तस्याभावात् , चतुर्दश्यां पूर्णिमामात्रसत्त्वस्याभिप्रेतत्वे टिप्पणापेक्षयाऽपि तदस्तित्वोपदर्शनस्यानावश्यकत्वात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552