________________
પર
[ જૈન દષ્ટિએ તિથિદિન અને પર્વારાધન-સંગ્રહવિભાગ दिविधावित्युक्तत्वात् , गौणमुख्यमेदात् मुख्यतया चतुर्दश्या एव व्यपदेशो युक्त इत्यभिप्रायेणोक्तत्वाद्वा” इति वाक्यं ग्रन्थकता सन्दृब्धम् ।
एतदखिलप्रसङ्गपर्यालोचनेन स्पष्टमिदं प्रतिभाति यद् ग्रन्थकृतः क्षीणचतुर्दशीदिने त्रयोदशीचतुर्दश्योरुभयोरेव सत्त्वं व्यपदेश्यत्वञ्चाभिमतम् । अन्यथा यदि तस्य तत्राहनि चतुर्दशीमात्रस्य तदुभयमभिमतमभविष्यत्तदा “ अवरावि" इत्यस्य "अपरा एव" इत्यर्थपरतां प्रदर्श्य प्रागुक्तस्य "चतुर्दश्येव" इत्यस्यासङ्कचितस्यैव समर्थनं कृतं प्राप्स्यत् । परमत्र तु “प्रायश्चित्तादिविधावित्युक्तत्वात्" इत्यादिग्रन्थेन पूर्वोक्तस्य “चतुर्दश्येव" इत्यस्यैवार्थसङ्कोचः कृतो दृश्यते । तेनासन्दिग्धमवधार्यते यत् “अवरावि" इत्यनेन क्षीणचतुर्दशीदिने त्रयोदशीचतुर्दश्योर्द्वयोरेव व्यपदेश्यत्वं यत् पश्चात् सूचितं तस्यैव समर्थनं तच्चिकीर्षितम् । अत एव “गौणमुख्यभेदात् मुख्यतया चतुदश्या एव व्यपदेशो युक्त इत्यभिप्रायेणोक्तत्वाद् वा” इति ग्रन्थे “मुख्यतया” इत्यस्य हेतुनिर्देशपरत्वं निर्वर्ण्य मुख्यत्वहेतुना चतुर्दशीमात्रस्य व्यपदेशार्हताया युक्तत्वे ग्रन्थकृद्विवक्षितत्वसाधनाय श्रीसागरानन्दसूरिणा यच्चेष्टितम् तद् हास्यास्पदमेव उक्तरीत्योभयव्यपदेशस्यं समर्थन . एव ग्रन्थकारव्यापारस्य सिद्धत्वात् । ____ किञ्च “गौणमुख्यभेदात् मुख्यतया” इत्यादिग्रन्थस्य " मुख्यतया चतुर्दश्या एव व्यपदेशो योग्यः” इत्यर्थे तात्पर्यं शक्यकल्पनं तदा स्याद् यद्येष चतुर्दश्या एव व्यपदेशसमर्थनाय निबद्धः स्यात् , परमेवन्नास्ति । अयन्तु “ता अवरविद्ध अवरावि" इति ग्रन्थस्यापिशब्देन सूचितस्यापर्वतिथिव्यपदेशस्य रक्षायै प्रानिर्दिष्टायाश्चतुर्दशीमात्रव्यपदेशोक्तेः कथञ्चिदुपपादनाय संग्रथितः । अतोऽस्य ग्रन्थस्यायमेवाशयो मान्यो यत् प्राक् चतुर्दशीमात्रस्य यो व्यपदेश उक्तः स चतुर्दशीमात्रस्य मुख्यताव्यपदेशपरो न तु त्रयोदशीनिषेधपरः। अर्थात् चतुर्दशीक्षयदिने त्रयोदशीचतुर्दश्योरुभयोरेव सत्त्वेन कस्याः गौणत्वं कस्याश्च मुख्यत्वम् ? इति गवेषणायां चतुर्दश्या एव मुख्यत्वं पर्वरूपत्वान्न तु त्रयोदश्याः, तस्या अपर्वरूपतयाऽप्राधान्यात् । गवेषणापि सा नानावसरिकी, तद्दिने चतुर्दश्या मुख्यतानभ्युपगमे औदयिकचतुर्दश्याः पूर्वदिन इव क्षीणचतुर्दश्याः क्षयदिने आराधनाया अयोग्यत्वापत्तेः।
एवं यद्यपर्वतिथेरपि पर्वतिथिक्षयदिने सत्तासंशयोलोपो न सह्यते विपश्चिज्जैनशास्त्राचार्यस्तदा क्षीणोत्तरपर्वतिथिकाया अक्षीणायाः पर्वतिथेस्तयोर्लोपः टिप्पणेन निर्दिष्टे तदौदयिकीत्वदिने कथमिव तैः सोढुमिष्टो भवेत् ? अतः पर्वानन्तरपतिथेः क्षयस्थले एकस्मिन्नेव दिने पूर्वापरपर्वतिथ्योराराध्यतायां श्रीधर्मसागरप्रभृतिप्राचीनजैनशास्त्रसदाचारधुरन्धराणां सम्मतत्वं विज्ञेयम् । एतदर्थसमर्थकोऽपि तत्त्वतरङ्गिणीग्रन्थः स्पष्टमुपलभ्यत एव, तथाहि
“नन्वेवं पौर्णमासीक्षये भवतामपि का गतिः ?" इति खरतरप्रश्नस्य " अहो विचारचातुरी, यतस्तत्र चतुर्दश्यां द्वयोरपि विद्यमानत्वेन तस्या अप्याराधनं जातमेव" इत्युत्तरं ग्रन्थकृता कृतमस्ति. “ अत्र चतुर्दश्यां द्वयोरपि विद्यमानत्वेन" इति विस्पष्टपदावलीं शृण्वन् को नाम ऋते प्रमत्ताद् एकदिने द्वयोस्तिथ्योः सत्तायाः “ तस्या अप्याराधनं जातमेव” इति शब्दसंहति च शृण्वन् पकस्मिन् दिने द्वयोराध्यतायाश्च जनशास्त्रसम्मतत्वे सन्दिहानमनाः भविष्यति ?
न च “चतुर्दश्यां द्वयोरपि विद्यमानत्वेन" इत्यस्य “टिप्पणानुसारेण द्वयोरपि विद्यमानत्वेन" इत्येतदर्थकतया न तद्वलेनैकत्र दिने द्वयोः पर्वतिथ्योः सत्तायास्तत्त्वतरङ्गिणीकृत्सम्मतत्वं समर्थनार्हमिति नोद्यम् , “टिप्पणानुसारेण" इति शब्दाध्याहारे विपरीतवासनाव्यतिरिक्तनिमित्तस्याभावात् , चतुर्दश्यां पूर्णिमामात्रसत्त्वस्याभिप्रेतत्वे टिप्पणापेक्षयाऽपि तदस्तित्वोपदर्शनस्यानावश्यकत्वात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org