________________
૫૩
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયને સમર્થક શ્રી અહતિથિભાસ્કર ].
एवं " तयोः" इत्यनुक्त्वा " तस्याः” इति कथनेन चतुर्दशीदिने क्षीणपूर्णिमामात्रस्याराधनं सूच्यत इति वचनमपि बालप्रलापमात्रम् , “तस्या अपि” इत्येवम् “अपि"शब्दसंवलितस्य " तस्या” इति शब्दस्य प्रयुक्तत्वात् । पूर्णिमामात्रस्याराधनावर्णनतात्पर्य तु अपिशब्दोपादानस्यासत्यापत्तेः “चतर्दश्यां द्वयोरपि विद्यमानत्वेन" इत्यादिना द्वयोस्सत्तासूचनस्यानर्थक्यापत्तेश्च।
किञ्च “नन्वेवं पौर्णमासीक्षये भवतामपि का गतिः ? " इति वाक्येन "क्षीणायाः पौर्णमास्या आराधनोपपत्तिः कथम् ? इत्यस्यैव पृष्टतया तदनुसारेणोत्तरवाक्ये “ तस्याः” इति कथनस्यैवौचित्यम् “तयोः” इति कथने तृत्तरस्य प्रश्नाननुरूपताऽऽपत्तिः । ____ इदमप्यत्रावधेयं यच्चतुर्दशीदिने चतुर्दशीन्दूरीकृत्य पौर्णमासीमात्रस्यावस्थानं नाभिप्रेतं ग्रन्थकृतः किन्तु चतुर्दशीपौर्णमास्योईयोरेव । अन्यथा “चतुर्दश्यां द्वयोरपि विद्यमानत्वेन" इतिस्थाने "चतुर्दश्यां पौर्णमास्या एव विद्यमानत्वेन" इत्येवोक्तं भवेत् । अग्रेऽपि “ यतस्युटितत्वेन चतुर्दश्यां पौर्णमास्या वास्तव्येव स्थितिः” इतिस्थाने “ यतस्त्रुटितत्वेन चतुर्दश्यां पौर्णमास्या एव वास्तवी स्थितिः” इत्येव कथितं स्यात् ।
किञ्च क्षीणचतुर्दश्याः पौर्णमास्यामाराध्यतावादिनः खरतरस्य मतं निराकुर्वता तत्त्वतरङ्गिणीकृता खरतरो यदैवमाख्यातो यत् “चतुर्दशीपौर्णमासी चेत्युमे अप्याराध्यत्वेन सम्मते स्तस्तद्यदि भवदुक्तरीतिराश्रीयते तर्हि पौर्णमास्येवाराधिता चतुर्दश्याश्चाराधनं दत्ताञ्जलीव भवेत् ” तदा खरतरेण सोऽपि पृष्टो यत् " नन्वेयं पौर्णमासीक्षये भवतामपि का गतिः ?” इति।
अनेन खरतरप्रश्नेन स्पष्टमिदं प्रतीयते यत्तदानीं तपागच्छे पौर्णमास्यादिपर्वतिथिक्षयावसरे चतुर्दश्यामेव चतुर्दशीपौर्णमास्योराराधना प्रचलिताऽऽसीत् , न तु पौर्णमास्याश्चतुर्दश्याम् , चतुर्दश्याश्च त्रयोदश्याम् अन्यथा ग्रन्थकृता तपागच्छपक्षानुसारेण पौर्णमास्यां क्षीणचतुर्दशीपौर्णमास्योरुभयोराराध्यताप्रतिषेधे तपागच्छीयैरपि चतुर्दश्यां तस्याः क्षीणपौर्णमास्याश्चाराधनं कथं स्वीकर्तुं शक्यते ? इत्यभिप्रायकस्य तत्प्रश्नस्यानुत्थानपराहतत्वमेव स्यात् ।
उक्तखरतरप्रश्नस्योत्तरं ददता ग्रन्थकृता यदुक्तं तेन निगदितोऽर्थः सम्यक्स्फुट एव, तद्यथा" अहो विचारचातुरी, यतस्तत्र चतुर्दश्यां द्वयोरपि विद्यमानत्वेन तस्या अप्याराधनं जातमेवेति जानताऽपि पुनर्नोद्यते । न च तत्रारोपिता सती पूर्णिमाऽऽराध्यते, यतस्युटितत्वेन चतुर्दश्यां पौर्णमास्या वास्तव्येव स्थितिः, युक्तिस्तु तत्रोक्ता वक्ष्यते च क्षीणतिथिवृद्धतिथिसाधारणलक्षणावसरे इति । भवता तु त्रुटितचतुर्दशी पूर्णिमायां बुद्ध्याऽऽरोप्याराध्यते। तस्यां तद्भोगगन्धाभावेऽपि तत्त्वेन स्वीक्रियमाणत्वात् , आरोपस्तु मिथ्याज्ञानम्” इति खरतरं प्रत्याख्यात उत्तरग्रन्थः। ____ अत्रोत्तरकारभावेन ग्रन्थकारेण खरतरं प्रति निजाभिप्रायोऽयं प्रकाशितो यत् “न मया एकदिने द्वयोस्तिथ्योराराधनाया अनौचित्यमसम्भवत्वं वाऽऽश्रित्य भवदभिमतायाः पौर्णमास्यां चतुर्दश्याराधनायाः निराकरणं क्रियते किन्तु पौर्णमासीदिने तस्या अभावेन । अतो मां यद् भवानुपालभते यत् “पौर्णमासीक्षये भवतामपि का गतिः?” इति, तन्न युज्यते, मया चतुर्दशीदिने त्रुटितत्वेन विद्यमानाया एव पौर्णमास्या आराधनास्वीकारात् इति।
किश्च “युक्तिस्तु तत्रोक्ता वक्ष्यते च क्षीणतिथिवृद्धतिथिसाधारणलक्षणावसरे” इत्येतेन वाक्येन चतुर्दश्यां पौर्णमास्याः वृत्तित्वे क्षीणतिथिवृद्धतिथिसाधारणलक्षणावसरे वक्ष्यमाणायाः युक्तेरपि मूलत्वमुक्तम् , सा च युक्तिः “संपुण्णत्ति अ काउं वुड्ढीप घिप्पई न पुवतिही। जंजा जंमि हु दिवसे समप्पई सा पमाणंति" इति सप्तदशगाथाया उत्तरार्धव्याख्यानप्रसङ्गे पवमुक्ता यत् “या तिथिर्यस्मिन् आदित्यादिवारलक्षणदिवसे समाप्यते स एव दिवसो वारलक्षणः प्रमाणमिति-तत्तिथित्वेनैव स्वीकार्यः, अत्र हु एवकारार्थे ज्ञातव्य इत्यर्थः । अतएव “क्षये पूर्वा तिथि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org