________________
૫૪
[ જૈન દૃષ્ટિએ તિથિદિન અને પર્વોરાધન–સંગ્રહવિભાગ ह्या " तस्मिन्नेव दिवसे द्वयोरपि समाप्तत्वेन तस्या अपि समाप्तत्वात् " इति । अनेन ग्रन्थेन क्षयदिने क्षीणतिथिसत्तायाः समाप्तताहेतुकत्वमुद्युष्य तद्दिने तस्या औदयिकीत्वकल्पनाया अनावश्यकत्वं स्पष्टमेव सूचितम् । अतः क्षयदिने क्षीणतिथेः सूर्योदय समयादेव सम्बन्धकल्पनमशास्त्रीयमेव ।
अत्रापि या या तिथिर्यस्मिन् आदित्यादिवारलक्षणदिवसे समाप्यते स एव दिवसो वारलक्षणः प्रमाणमिति तत्तत्तिथित्वेन स्वीकार्यः इत्यनुक्त्वा 'या तिथिः तत्तिथित्वेन ' इत्युक्त्या एकदिने एक तिथेरेव सत्ता सूच्यते न द्वयोरिति श्रीसागरानन्दसूरिणा यत्कल्प्यते तन्न युक्तम् " या या तिथिः तत्तत्तिथित्वेन' इप्युक्तेः यत्र दिने एकैव तिथिः समाप्यते तद्दिनसाधारण्यासम्भवेन तद्दिने तत्तिथित्वलाभस्यासम्भवात्, 'या तिथि.... तत्तिथित्वेन' इत्युतेस्तु यत्र दिने तिथिद्वयस्य समाप्तिः, यत्र च दिने एकस्या एव तिथेः समाप्तिस्तदुभयोरेव साधारण्यसम्भवेन दोषाभावात् । " तस्मिन्नेव दिवसे द्वयोरपि समाप्तत्वेन " इत्यग्रेतनेन वचनेन तत्कल्पनायाः विस्पष्टं कदर्थनाच्च ।
अत्र प्रसङ्गे " किं किमप्यष्टम्या रहोवृत्त्या समर्पितं यन्नष्टाऽप्यष्टमी परावृत्त्याभिमन्यते, पाक्षिकेण च किमपराद्धं ? यत्तस्य नामापि न सह्यते " इति ग्रन्थघटकं " नष्टाऽप्यष्टमी परावृत्याभिमन्यते " इति भागं- नष्टा अपि अष्टमी, परावृत्त्याभिमन्यते - सप्तमीमपनीय मन्यते - इत्ये तदर्थकतया व्याख्यातुं यत् श्रीसागरानन्दसूरिणा चेष्टितम्, तदतिचेष्टितम् परावृत्त्येतिशब्दस्य अपनीयेत्यर्थकत्वासम्भवात् तदर्थतात्पर्ये 'परावर्त्य' इति शब्दप्रयोगस्यैव युक्तत्वात् । अन्तर्भा वितण्यर्थतायाश्च प्रमाणाभावेन वक्तुमशक्यत्वात् ।
66
,”
तर्हि तद्वाक्यस्य विशुद्धा व्याख्या कीदृशी ? इति चेत्, श्रूयताम् । “ परावृत्त्याभिमन्यते " इत्यत्र “ परावृत्त्य अभिमन्यते " इति न च्छेदः किन्तु " परावृत्त्या अभिमन्यते " इति च्छेदः । परावृत्त्या इत्यस्य च परस्याः-अन्यस्याः, सप्तम्या इति यावत् । " वृत्त्या ” स्थित्या । सहेति गम्यम् । अभिमन्यते - स्वीक्रियते । अथवा परस्मिन् उत्तरस्मिन् दिवसे अवृत्त्या सम्बन्धाभावेन, अर्थात् पूर्वदिन एव समाप्तत्वेन हेतुनाऽभिमन्यते इति । अयम्भावः - येन परदिनावर्तनवेद्येन पूर्वदिने समाप्तत्वरूपनिमित्तेन नष्टामनौदयिकीमप्यष्टमी पूर्वदिने मनुषे तस्य निमित्तस्य क्षीणचतुर्दश्यामपि निर्विशेषं सत्त्वेन ताञ्च न पूर्वदिने मनुषे इति वैषम्यं कुतः कुरुषे ? किमेवं कर्तुं प्राप्तवासिकञ्चिदुत्कचमष्टम्याः ?
एकस्मिन् दिने द्वयोस्तथ्योराराधनं न भवितुमर्हति इति श्रीसागरानन्दसूरिवचनं " किंच क्षीणपाक्षिकानुष्ठानं पौर्णमास्यामनुष्ठीयमानं किं पञ्चदश्यनुष्ठानं पाक्षिकानुष्ठानं वा व्यपदिश्यते ? आधे पाक्षिकानुष्ठानविलोपापत्तिः । द्वितीये स्पष्टमेव मृषाभाषणम्, पञ्चदश्या एव चतुर्दशीत्वेन व्यपदिश्यमानत्वात् " इति ग्रन्थतोऽपि विरुद्धम् ।
तथाहि तपागच्छपक्षपोषणे प्रवृत्तेन ग्रन्थकारेण पौर्णमास्यामनुष्ठीयमानस्य क्षीणपाक्षिकानुष्ठानस्य पञ्चदश्यनुष्ठानत्वव्यपदेशे यथा पाक्षिकानुष्ठानविलोपापत्तिः प्रदर्शिता तथा तस्य पाक्षिकानुष्ठानत्वव्यपदेशे पौर्णमास्यनुष्ठानविलोपापत्तिन भाविता, तेन स्पष्टं ज्ञायते यत् पाक्षिकानुष्ठाने पौर्णमास्यनुष्ठानमन्तर्भवति, अतः क्षीणपौर्णमास्याश्चतुर्दश्यौदयिकीत्व दिने आराधनोपपादनानुरोधेन ततश्चतुर्दश्या अपसारणम् एकत्र दिने द्वयोस्तिथ्योराराधनाऽनौचित्यकल्पनं च नैव न्याय्यम् ।
"
किंच पञ्चमगाथाव्याख्यायां खरतराक्षेपं प्रतिक्षिपता " चतुर्दश्यां द्वयोरपि विद्यमानत्वेन तस्या अप्याराधनं जातमेव " इति यदुक्तं तत्र " तस्या अपि " इत्यत्र " अपि " शब्दोपन्यासेन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org