________________
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયના સમર્થક શ્રી અર્જુત્તિથિભાસ્કર ]
पूर्वदिनेऽधिककालं सत्त्वेऽपि तद्दिने सूर्योदयस्पर्शविधुरतया तद्दिनापेक्षया उत्तरदिने स्वल्पायुष्ट्वेऽपि प्राप्तसूर्योदयस्पर्शतया तद्दिने तिथेः प्राधान्यवर्णन एव तात्पर्यं न तु तस्या उत्तरदिनेऽहोरात्रव्यापिन्याः सत्तायाः वर्णने । उत्तरदिने सम्पूर्णतोक्तिरपि न तस्या सम्पूर्ण दिनव्यापिताबोधनपरा किन्तु समाप्ततया तत्पूर्णताप्रतिपादनपरा, युज्यतेऽप्येतदेव, पूर्णतायाः समाप्ततानियतत्वात् । अत एव तत्त्वतरङ्गिण्यां श्रीधर्मसागरमहाभागैः " संपुण्ण त्ति अ काउं बुड्ढीए " इत्यादिसप्तदशगाथाव्याख्यायां वृद्धायास्तिथेः पूर्वदिनेऽहोरात्रव्यापित्वेऽपि तत्र दिने अध सम्पूर्णा तिथिः इति बुद्धेर्भ्रमरूपत्वमुक्तम् । पुनश्च " तं पुण असच्चवयणम् " इत्याद्येकोनविंशगाथाव्याख्यायां " कथं पूर्णातिथिरद्य वासरे इति वक्तुं युक्तम् " इति ग्रन्थतः पूर्वदिनेऽहोरात्रव्यापिन्या अपि वृद्धायातिथे: पूर्णत्वं निराकृत्योत्तरदिने स्वल्पकालस्थितिकाया अपि तस्याः “ एकादिघटिकासंयुक्तेऽपि दिने अद्यामुका तिथिरिति सार्वजनीनव्यवहार ” इत्यादिना समाप्ततया पूर्णत्वं वर्षितम् । अतो वैमत्यविनाकृतं व्यवस्थितमेतद् यत्तिधीनां प्रवृत्तिस्थितिनिवृत्तिषु ज्योतिषस्य तदुपजीविनः टिप्पणस्यैव च प्रामाण्यम् । धर्मशास्त्राणि तु कीदृशी तिथिः कस्मिन्नहनि धर्मकार्येषु ग्राह्या इत्येतदाप्रतिपादयन्ति ।
Jain Education International
૫૧
न च जैनसम्प्रदाये पर्वतिथ्याराधनायाः पूर्वदिवसीयसूर्योदयसमयादारभ्य द्वितीयदिवसीय - सूर्योदयान्तं यावत् करणीयतया पर्वतिथ्यारम्भस्य पूर्वसूर्योदयसमयात् तत्समाप्तेश्चोत्तरसूर्योदयसमये माननीयत्वेन. क्षीणपर्वतिथेः क्षयदिने सूर्योदयसमयादेवारम्भो वाच्योऽन्यथा तदस्तितालोपस्य दुर्निवारत्वं स्यादिति तदर्थं " क्षये पूर्वा तिथिः कार्याः " इति शास्त्रस्य क्षयदिने सूर्योदयसमये क्षीणपर्वतिथिसम्बन्धविधायकत्वस्यावश्यमभ्युपगमनीयतया तत्पूर्वापर्वतिथेः क्षयोऽनिवार्य सिद्धिक इति वाच्यम्, अन्यतिथीनामिव पर्वतिथीनामप्यारम्भसमाप्त्योः टिप्पणोदितसमय एव मान्यतायाः न्याय्यत्वात्, आराधनाया आरम्भस्य तु जैनशास्त्रीयव्यवस्थाऽनुरोधेन पूर्वतः प्रवृत्तायाः पर्वतिथेः तत्सूर्योदय स्पर्शसमयात् क्षीणायाश्च तत्पूर्वसूर्योदयसमयात् वृद्धायाश्च द्वितीसूर्योदयसमयात् समाप्तेश्चारम्भोत्तरसूर्योदयेऽवसिते स्वीकार्यताया औचित्यात् । नचाहोरात्रं पर्वतिथिसम्बन्धानङ्गीकारे तत्सम्बन्धविधुरे तद्दिनभागे तदसम्बद्धवासरान्तर इव तदाराधनाया अकार्यत्वसम्भवेन तन्निवृत्तौ परित्यक्ताया अपि तदाराधनायाः साफल्यं तद्भङ्गभवदोषवैकल्यं च स्यादिति वाच्यम्, या तिथिर्यत्सूर्योदयारब्धे दिने समाप्नोति तत्सूर्योदयारब्धे समग्र दिने तत्तिथ्याराधनायाः शास्त्रादिष्टतया तत्तिथिनिवृत्तावपि तद्दिननिवृत्तेः पूर्वं तत्त्यागस्य पापापादकत्वात् ।
पर्वतिथेः टिप्पणोक्तं क्षयमस्वीकृत्य ततः पूर्वायाः पूर्वतरायाः वाऽपर्वतिथेः पर्वतिथिक्षयदिने सत्तासंज्ञयील पर्यवसायी तत्क्षयाभ्युपगमो जैनशास्त्रविरुद्धतयाऽपि नाङ्गीकार्यः ।
तथाहि— तत्त्वतरङ्गिण्याम् “ तिहिवार पुव्वतिही " इत्यादिचतुर्थगाथायाः व्याख्यानम् " नन्वौ - दयिकतिथिस्वीकारान्यतिथितिरस्कारप्रवणयोरावयोः कथं त्रयोदश्या अपि चतुर्दशीत्वेन स्वीकारो युक्तः " इति ग्रन्थेन खरतरोत्थापितप्रश्नस्य " तत्र त्रयोदशीति व्यपदेशस्याप्यसम्भवात्, किन्तु प्रायश्चित्तादिविधौ चतुर्दश्येवेति व्यपदिश्यमानत्वात् " इत्युत्तरं ददता तत्त्वतरङ्गिणीकृता क्षीणचतुदेशीदिने त्रयोदशीव्यपदेशासम्भवत्वाभिधानपूर्वकचतुर्दशीमात्रस्य व्यपदेशार्हतामुक्त्वा " संवच्छर चउमासे पक्खे अट्टाहियासु य तिहीसु । ताउ पमाणं भणिया जाओ सूरो उदयमेइ " " अह जह कवि न लब्भंति ताओ सूरूग्गमेण जुत्ताओ । ता अवरधिद्ध अवरावि हुज्ज नहु पुव्व तव्विद्धा ॥ २ ॥ इति यद्गाथाद्वयमुद्धृतम्, तत्र “ अवरविद्ध अवरावि ” इति शब्दे दत्तावधानेन खरतरेण " न च प्राक्चतुर्दश्येवेत्युक्तम्, अत्र तु 'अवरावि ' इत्यनेन अपिशब्दादन्यसंज्ञापि गृह्यते तत्कथं न विरोधः" इति ग्रन्थेनोद्भावितस्य पूर्वापरोक्तयोर्विरोधस्य परिजिहीर्षया " प्रायश्चित्ता
22
For Personal & Private Use Only
23
www.jainelibrary.org