________________
[ જૈન દૃષ્ટિએ તિથિદિન અને પર્વોરાધન–સંગ્રહવિભાગ फलतोऽपर्वतिथिपूर्विकायाः क्षयग्रस्ताया अष्टम्यादिरूपायाः पर्वतिथेरक्षीणत्वे सम्पन्ने तत्पूर्वापर्वतिथेः क्षीणता सम्पद्यते । पर्वतिथिपूर्विकायाः पूर्णिमादिरूपायाः पर्वतिथेस्तु तेन वचसा टिप्पणतश्चतुर्दशीमति दिनेऽक्षीणत्वव्यवस्थितौ ततो निवृत्तायाश्चतुर्दश्या अपि पर्वतिथित्वेनास्वीकार्यक्षयतया पुनः प्रवृत्तेन तेनैव वचसाऽव्यवहितपूर्वे त्रयोदशीदिनेऽक्षीणत्वं त्रयोदश्याश्चापर्वतिथ्याः क्षीणत्वं निष्पद्यते । अयमेव च पक्षः श्रीसागरानन्दसूरिणा स्वीकृतः ।
परमेष पक्षो न सङ्गतः, यतो ह्येवं स्वीकारे टिप्पणस्य प्रामाण्ये एतच्छास्त्रस्य, एतच्छास्त्रस्य प्रामाण्ये च टिप्पणस्याप्रतीकार्य मप्रामाण्यं प्रसज्ज्यते । न च भवतु नाम टिप्पणस्य पर्वतिथिप्रवृत्तिनिवृत्ति विषयेऽप्रामाण्यम्, किन्तेन हीयते ? इति वाच्यम्, पर्वतिथीनां प्रवृत्तिनिवृत्तिविषये टिप्पणस्याप्रमाणत्वस्वीकारे तद्भोगविषये तिथ्यन्तरादीनामपि प्रवृत्त्यादिविषये च तस्याप्रामाण्यशङ्कायाः सम्भवेन तस्याविश्वसनीयत्वापत्त्या साधनान्तरस्य च तिथ्यादिपरिचायकस्याभावेन सर्वाराधनाविलयापत्तेः। पर्वानन्तरपर्वतिथिक्षयस्थले च पूर्वपर्वतिथेः मुख्यकाले प्राप्ताया आराधनाया अनुपपन्नतया तद्विराधनाप्रसक्तेश्च ।
૫૦
न चैतस्य वचसो दृशा क्षीणोत्तरपर्वतिथिकायाः पर्वतिथेः टिप्पणोक्तकालो मुख्यकाल एव न भवति किन्तु टिप्पणोक्तस्तादृशपर्वतिथिकालः क्षीणाया उत्तरपर्वतिथेः मुख्यः कालः टिप्पणोक्तः पूर्वपर्वतिथिपूर्वाया अपर्वतिथेः कालश्च तादृश्याः पूर्वपर्वतिथेः मुख्यः काल इति नैष द्वितीयो दोष इति वाच्यम् । एतत्कथायाः निजश्रद्धान्धसेवकानां समक्षमेव सम्भवात् । तिथिप्रवृत्त्यादिरूपे टिप्पणस्य निजासाधारणविषये धर्मशास्त्रात्मनोऽपि तस्य वचसः सङ्क्रमणस्यान्याय्यताविदां बुद्धिविचारशास्त्रवस्तुश्रद्धा जुषामपरेषां समक्षन्तु तस्या अत्यन्तमुपहसनीयत्वात् । प्रकारान्तरेण तेन वचसा क्षीणतिथीनामाराधनोपपादनस्य करणासम्भव एव तादृशकल्पनायाः कथञ्चिद् सम्भवदवतारत्वाच्च ।
59
न च " तिथिश्च प्रातः प्रत्याख्यानवेलायां या स्यात् सा प्रमाणम् " इति वचनं या तिथिर्य - स्मिन् दिने सूर्योदयसमये भवति तस्या एव सम्पूर्णे तदहोरात्रे सत्तारूपाम् प्रमाणतामाचष्टे । तथा च टिप्पणतः क्षीणायाः पर्वतिथेः सूर्योदयसमयेऽवस्थानकल्पनं विना तस्या अस्तित्वमेव न सिद्ध्यति तत्क्षयदिने सूर्योदयकालिक्यास्तिथेरेवोक्तवचनानुसारेणाहोरात्रं व्याप्तत्वात् । अतस्तदाराधनालोपवारणाय तस्याः सूर्योदयेन सह सम्बन्धस्तदनुरोधेन च पूर्वतिथेः क्षयः कल्पनीय एवेति वाच्यम्, एतदुक्तेरपि " तिथिश्च प्रातः इत्यादिवचनार्थपरिज्ञानाभावस्यैव विजृम्भणात् । तथाहि नैतद्वचः सूर्योदयकालिक्यास्तिथेरहोरात्रव्यापितां वदति तथा सति तस्य पूर्वदिने टिप्पणप्राप्तस्य तत्तत्तिथिसम्बन्धस्य निषेधकताया उत्तरदिने टिप्पणोक्तं तत्तिथिकालं यावत् तत्तिथिसम्बन्धानुवादकताया अवशिष्टे काले च तत्तिथिसम्बन्धविधायकतायाः स्वीकार्यत्वापत्त्या टिप्पणस्यात्यन्तमाकुलीभावापत्तेः । तिथ्यादिप्रवृत्त्यादिरूपे टिप्पणविषये तत्प्रवृत्त्यनुपपत्तेश्च । किन्तु या तिथिर्यत्र दिने सूर्योदयकालिकी तत्रैव दिने सा धर्मानुष्ठाने ग्रहणार्हा पूर्वदिने तत्तिथेरधिककालव्यापिका सत्ता सूर्योदयस्पर्शदिने तस्याः स्वल्पाया अपि सत्ताया अपेक्षया धर्मकार्येष्वनुपयुक्तैवेत्येतत्प्रतिपादनपरमेव तद्वचनम् । उचितमप्येतत्तात्पर्यकत्वमेव तस्य तस्यैतदर्थतायां दोषाभावात् पूर्वोक्तार्थतायाञ्च कथितानेकदूषणग्रासात् ।
न चैवं समग्रे दिने सूर्योदयकालिक्यास्तिथेः सत्तानङ्गीकारे समस्ते तद्दिवसे लोकाभ्युपगतस्तादृशतिथिव्यवहारो न संगच्छेतेति शङ्कनीयं सूर्योदयकालिक्यास्तिथेः टिप्पणोक्त समयमात्रं याव - दवस्थानेनापि तत्पराय " अद्यामुकतिथिः " इति स्वारसिकस्य लोकव्यवहारस्योपपत्तौ बाधकाभावात्, " अद्याहोरात्रममुकतिथिः " इति व्यवहारस्य त्वसिद्धत्वात् । " आदित्योदयवेलायां या स्तोकाऽपि तिथिर्भवेत् । सा सम्पूर्णेति मन्तव्या प्रभूता नोदयं विना " इति स्मृतिवचसोऽपि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org