SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ૧. લવાદી ચર્ચામાં આવેલા નિર્ણયના સમર્થક શ્રી અર્હત્તિથિભાસ્કર ] अतः तिथिथ प्रातः प्रत्याख्यानवेलायां या स्यात् सा प्रमाणम् ” । “ चाउम्मासि अ वरिसे पक्खियपञ्चमीसु नायव्वा । ताओ तिहिओ जार्सि, उदेइ सूरो न अण्णाओ " ॥ १ ॥ 44 पूआ पच्चक्खाणं पडिकमणं तह य नियमगहणं च । जीए उदेह सूरो, ती तिहीए उ कायव्वं " ॥ २ ॥ उदय जातिहि सा पमाणमिअरी कीरमाणीए । आणा गणवत्था-मिच्छत्तविराहणं 44 पावे " ॥ ३ ॥ आदित्योदयवेलायां, या स्तोकाऽपि तिथिर्भवेत् । सा सम्पूर्णेति मन्तव्या, प्रभूता नोदयं विना ॥ ४ ॥ इत्यादिशास्त्रवचनानि तादृशतिथीनां तादृशतिथिस्पर्शिसूर्योदयारब्धे दिने समाराध्यताव्यवस्थापनेन निर्दिष्टां जिज्ञासां निवर्तयन्ति । 66 66 पवञ्च पर्वतिथ्याराधनाविधायकवचसां तिथ्यौदयिकीत्वस्याराधनौपयिकताबोधकवचसां च परस्परैकवाक्यतया " सर्वा अष्टम्यादिपर्वतिथयः स्वस्पर्शिसूर्योदयारब्धे दिने आराध्या ” इत्येवंविधो जैनशास्त्रीयः पर्वतिथ्याराधनाऽऽदेशो लभ्यते । इत्थञ्च याः पर्वतिथयः सूर्योदयस्पर्शरहिता एव समाप्तिं व्रजन्ति, तत्स्पर्शिसूर्योदयारब्धदिनाप्रसिद्ध्या तासामाराधनालोपः प्राप्नोति न चैष इष्टतयाऽभ्युपगन्तुमुचितः सर्वासामेव पर्वतिथीनामवश्याराध्यतायाः शास्त्रैरादेशात् । अतो धर्मलोपभीरोर्जनस्य जायते तावदेषा जिज्ञासा यत् सूर्योदयस्पर्शराहित्यरूपक्षयभाजां पर्वतिथीनामाराधना कथं कार्या ? इति तादृशीनां क्षीणतिथीनामाराधनोपपादकतया “ क्षये पूर्वा तिथिः कार्या ” इत्याचार्योमा स्वातिवाचकमुख्यमुखारविन्द विनिकरदो मनस्युलासयन्नार्हतनरमिलिन्दानां समुत्तिष्ठति समारोहति च सम्भावनापदवीं प्रकारपञ्चकेन क्षीणतिथ्याराधनोपपादनायाः । तद् यथा : . (१) पर्वतिथेः टिप्पणोक्तं क्षयमस्वीकृत्य तस्याः सूर्योदयस्पर्शलक्षणस्यौदयिकीत्वस्य स्वीकारेण । (२) सूर्योदयस्पर्शात्मकौदयिकीत्वव्यतिरिक्तस्य तद्दिने समाप्तत्वरूपस्य पारिभाषिकौदयिकीत्वस्य पर्वतिथ्याराधनाप्रयोजकत्वाङ्गीकारेण । (३) सूर्योदयस्पर्शलक्षणस्यौदयिकीत्वस्य सूर्योदयस्पर्शिनीनामेव तिथीनां तत्स्पर्शरहितानाञ्च समाप्तत्वस्याराधनौपयिकतासमादरेण । (४) औदयिक्यास्तिथेः कथञ्चिदनौदयिकपर्वतिथिरूपतामाननेन । (५) Jain Education International ૪૯ टिप्पणादौदयिक्यास्तिथेरनौदयिकपर्वतिथिप्रातिनिध्याभ्युपगमेन । (१) तत्र यदि प्रथमः पक्षः आश्रीयते तदा " क्षये पूर्वा तिथिः कार्या " इति वचनस्य क्षयदिने सूर्योदयकालादेव क्षीणतिथिप्रवृत्तिबोधकता वक्तव्या । तदर्थश्च - “ क्षये-पर्वतिथेः क्षये टिपणप्राप्ते सति पूर्वा-टिप्पणेनौदयिकीत्वेन निर्दिष्टा तिथिः, तिथि: - क्षीणपर्वतिथिरूपा, कार्या, अर्थात् तद्दिवसीयसूर्योदयादिकालेऽपर्वतिथेः सम्बन्धममत्वा तद्दिवसीयक्षीणपर्वतिथेः सम्बन्धो मन्तव्यः, इत्येवंरूपोऽङ्गीकार्यः । एवञ्च वचनमेतत् क्षीणायाः पर्वतिथेरौदयिकीत्वं प्रबोधयद् द्वयो. स्तिथ्योरेकेन सूर्योदयेन सह सम्बन्धस्यासम्भवतया टिप्पणतोऽक्षीणायास्तिथेः क्षीणत्वव्यवस्थापने पर्यवस्यति । ७ For Personal & Private Use Only www.jainelibrary.org
SR No.005673
Book TitleTithidin ane Parvaradhan tatha Arhattithibhaskar
Original Sutra AuthorN/A
AuthorJain Pravachan Pracharak Trust
PublisherJain Pravachan Pracharak Trust
Publication Year1977
Total Pages552
LanguageGujarati, Hindi, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy