Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust
View full book text
________________
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયના સમર્થક શ્રી અર્હત્તિથિભાસ્કર ]
अतः तिथिथ प्रातः प्रत्याख्यानवेलायां या स्यात् सा प्रमाणम् ” । “ चाउम्मासि अ वरिसे पक्खियपञ्चमीसु नायव्वा । ताओ तिहिओ जार्सि, उदेइ सूरो न अण्णाओ " ॥ १ ॥ 44 पूआ पच्चक्खाणं पडिकमणं तह य नियमगहणं च । जीए उदेह सूरो, ती तिहीए उ कायव्वं " ॥ २ ॥ उदय जातिहि सा पमाणमिअरी कीरमाणीए । आणा गणवत्था-मिच्छत्तविराहणं
44
पावे " ॥ ३ ॥
आदित्योदयवेलायां, या स्तोकाऽपि तिथिर्भवेत् । सा सम्पूर्णेति मन्तव्या, प्रभूता नोदयं विना ॥ ४ ॥
इत्यादिशास्त्रवचनानि तादृशतिथीनां तादृशतिथिस्पर्शिसूर्योदयारब्धे दिने समाराध्यताव्यवस्थापनेन निर्दिष्टां जिज्ञासां निवर्तयन्ति ।
66
66
पवञ्च पर्वतिथ्याराधनाविधायकवचसां तिथ्यौदयिकीत्वस्याराधनौपयिकताबोधकवचसां च परस्परैकवाक्यतया " सर्वा अष्टम्यादिपर्वतिथयः स्वस्पर्शिसूर्योदयारब्धे दिने आराध्या ” इत्येवंविधो जैनशास्त्रीयः पर्वतिथ्याराधनाऽऽदेशो लभ्यते ।
इत्थञ्च याः पर्वतिथयः सूर्योदयस्पर्शरहिता एव समाप्तिं व्रजन्ति, तत्स्पर्शिसूर्योदयारब्धदिनाप्रसिद्ध्या तासामाराधनालोपः प्राप्नोति न चैष इष्टतयाऽभ्युपगन्तुमुचितः सर्वासामेव पर्वतिथीनामवश्याराध्यतायाः शास्त्रैरादेशात् । अतो धर्मलोपभीरोर्जनस्य जायते तावदेषा जिज्ञासा यत् सूर्योदयस्पर्शराहित्यरूपक्षयभाजां पर्वतिथीनामाराधना कथं कार्या ? इति तादृशीनां क्षीणतिथीनामाराधनोपपादकतया “ क्षये पूर्वा तिथिः कार्या ” इत्याचार्योमा स्वातिवाचकमुख्यमुखारविन्द विनिकरदो मनस्युलासयन्नार्हतनरमिलिन्दानां समुत्तिष्ठति समारोहति च सम्भावनापदवीं प्रकारपञ्चकेन क्षीणतिथ्याराधनोपपादनायाः ।
तद् यथा :
. (१) पर्वतिथेः टिप्पणोक्तं क्षयमस्वीकृत्य तस्याः सूर्योदयस्पर्शलक्षणस्यौदयिकीत्वस्य स्वीकारेण । (२) सूर्योदयस्पर्शात्मकौदयिकीत्वव्यतिरिक्तस्य तद्दिने समाप्तत्वरूपस्य पारिभाषिकौदयिकीत्वस्य पर्वतिथ्याराधनाप्रयोजकत्वाङ्गीकारेण ।
(३) सूर्योदयस्पर्शलक्षणस्यौदयिकीत्वस्य सूर्योदयस्पर्शिनीनामेव तिथीनां तत्स्पर्शरहितानाञ्च समाप्तत्वस्याराधनौपयिकतासमादरेण ।
(४) औदयिक्यास्तिथेः कथञ्चिदनौदयिकपर्वतिथिरूपतामाननेन ।
(५)
Jain Education International
૪૯
टिप्पणादौदयिक्यास्तिथेरनौदयिकपर्वतिथिप्रातिनिध्याभ्युपगमेन ।
(१) तत्र यदि प्रथमः पक्षः आश्रीयते तदा " क्षये पूर्वा तिथिः कार्या " इति वचनस्य क्षयदिने सूर्योदयकालादेव क्षीणतिथिप्रवृत्तिबोधकता वक्तव्या । तदर्थश्च - “ क्षये-पर्वतिथेः क्षये टिपणप्राप्ते सति पूर्वा-टिप्पणेनौदयिकीत्वेन निर्दिष्टा तिथिः, तिथि: - क्षीणपर्वतिथिरूपा, कार्या, अर्थात् तद्दिवसीयसूर्योदयादिकालेऽपर्वतिथेः सम्बन्धममत्वा तद्दिवसीयक्षीणपर्वतिथेः सम्बन्धो मन्तव्यः, इत्येवंरूपोऽङ्गीकार्यः । एवञ्च वचनमेतत् क्षीणायाः पर्वतिथेरौदयिकीत्वं प्रबोधयद् द्वयो. स्तिथ्योरेकेन सूर्योदयेन सह सम्बन्धस्यासम्भवतया टिप्पणतोऽक्षीणायास्तिथेः क्षीणत्वव्यवस्थापने पर्यवस्यति ।
७
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552