Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust
View full book text
________________
[ જૈન દૃષ્ટિએ તિથિનિ અને પર્વોરાધન—સંગ્રહવિભાગ
एतद्ग्रन्थतस्तदीयोऽयमाशयो बोधमध्यारोहति यदेकादश्याः वृद्धिरुत्तरकर्तुर्न सम्मता, अन्यथा एकादश्यामौदयिकीत्वस्य पूर्वोत्तरयोर्द्वयोरेव दिनयोः सत्त्वेन " औदयिक्येकादश्याम् ” इत्युत्तरमुक्तप्रश्नस्य न संगच्छेत । परं वयमिदमत्र प्रष्टुमभिलषामस्तं यदुत्तरकर्तुः एकादशी वृद्धेरनभिमतत्वस्वीकारेऽपि टिप्पणेन दिनद्वये औदयिकीत्वेनैकादश्यानिर्दिष्टतया तस्यां कस्मिन् दिने श्रीहीरविजयनिर्वाणम हिमपौषधोपवासकृत्यं कार्यम् ? इति प्रश्नस्य " औदयिक्येकादश्याम् ” इत्युत्तरं कथं संगच्छते ? यतो हि उत्तरयिता पताकाकृन्मते उत्तरस्मिन्नेकस्मिन्नेवाहनि तस्या औदयिकीत्वं जानन्नपि स्पष्टं तन कथयति, प्रष्टा च पञ्चाङ्गतो दिनद्वये तस्या औदयिकीत्वं जानाति । अतस्तदुत्तरवचनादेकादश्या एकस्मिन्नेव दिने औदयिकीत्वं समाधातुः सम्मतमित्यनुमायापि कस्मिन् दिने तत्तत्र तस्यानुमतमित्यनुमातुमशक्यतया तादृशादुत्तराजीर्णजिज्ञासो नैव जायेत प्रष्टा । अतोऽत्रेदमुचितमाभाति माननं यत् “ औदयिक्येकादश्याम्" इत्युत्तरं श्रुत्वा प्राश्निकस्तदर्थं विमृशन् उक्तोत्तरवाक्यस्य "औदयिक्यामेव एकादश्याम् इत्यर्थेऽर्थाद् यत्र दिने एकादशी औदयिकी - सूर्योदयस्पर्शिनी एवं नत्वस्तकालिकी तत्र दिने तस्यां तादृशं कृत्यं कार्यमित्यर्थे तात्पर्यप्रतिसन्दधानो द्वितीयदिन एव एकादश्यास्तथात्वेन तत्रैव दिने तस्या उपादेयतां सम्प्रधार्य विनि-वृत्तविवदिषो भवति । इत्थं चैतादृशार्थकात् कथितोत्तरवाक्यात् एकादशीवृद्धेरुत्तरकर्तुरनभिमतत्वानुमानं नैव कर्तुं शक्यत इत्यतोऽत्रत्यं वक्तव्यं पताकाकारस्य साम्पातिकमेवाभ्युपेयम् ।
अत्रैव पृष्ठे “ मध्यस्थस्वरूपं तत्कर्तव्यञ्च ” इति शीर्षकेण सह कियन्ति वाक्यान्युपनिवध्नता पताकाकृता प्रकृतमध्यस्थस्य माध्यस्थ्याच्च्युतिं प्रदर्शयितुं प्रचुरं पराक्रान्तम् । “ निर्णयितुम् " इत्येवंविधशब्दान् विन्यस्यता च शब्दशास्त्रप्रजापतिपाणिनिप्रभृतिविद्वन्मुनिवृन्दमपि समाक्रान्तम् । अत्र विषये नाधिकमभिधाय केवलमेतदेव स प्रष्टुमिष्यते यत्किन्तेन स्वयं काशीस्थसत्पण्डितस्य स्वरूपं कर्तव्यञ्च संरक्षितम् ? उभयपक्षाभ्यां माध्यस्थ्येन वृतस्य निर्णयो मान्यः, कुतोऽपितोस्तस्यानुचिताचारतासंशये च पक्षद्वयनिर्वाचित एवापरो विद्वान् विद्वत्समवायो वा पुनर्निर्णयदानाय प्रार्थनीय इत्युचितां न्याय्यां च सम्मतिमदत्त्वा कस्यचिदवाच्यस्य कारणस्य परवशो भूत्वा स्वयमेवान्यं निजनियोक्तृप्रीणतप्रवीणं निर्णयं लिखित्वा द्वारि द्वारि मुहुर्मुहुर्भ्रमणिकया विनयादिविविधमुद्रया च विदुषां हस्ताक्षरसङ्ग्रहं कृत्वा च किन्तेन न केवलमात्मनोऽपितु वाराणस्याः विद्वत्समाजस्य सम्मानो नैवाधरीकृतः ? येन मध्यस्थं मुधैवाधिक्षिपता न मन्दोऽपि मन्दाक्षोऽनुभूतः । शासनजयपताकायाः संक्षिप्तेनाप्येतावता पर्यालोचनेनेदं स्पष्टीभवति यन्मध्यस्थेन निजे निर्णयपत्रे निर्णीतार्थानां यदालोचनं कृतं पताकाकृता तन्न केवलमालोचनभाववञ्चितं किन्तु स्वाचरितुः पदपदार्थप्रकृतविवादास्पदप्रभृतौ परिचयशून्यतामनधिकारिताञ्च प्रकाशयति । अतोऽस्मत्समित्या पताकाकृतो व्यवस्थापत्रस्य सम्बन्धे वाराणसेय विद्वत्प्रतिष्ठासंरक्षणैकधिया यत्किमपि कथितं तत्सुधाभावेन स्वीकृत्य समर्थयिष्यमाणस्य जैनशास्त्राणां प्राचीनतम जैनसदाचाराणाञ्चानुकूलस्य श्रीमद्रामचन्द्रसूरिसमुपस्थापितसिद्धान्तस्य पालनकर्मताऽऽयतनाकरणेन पुण्यपुञ्जमुपार्जनीयज्जैनैः ।
ar " क्षये पूर्वा तिथिः कार्या ” इत्युमास्वातिवचनस्योत्थानबीजं किम् ? को वा जैनशास्त्रसशुक्तिसम्मतस्तदीयोऽर्थः ? इति निरूप्यते:
४८
जैनशास्त्रेषु प्रतिमासमष्टम्योश्चतुर्दश्योः पूर्णिमाऽमावास्ययोः द्वितीययोः पञ्चम्योरेकादश्योः, भाद्रशुक्लचतुर्थ्याः कल्याणकतिथीनाञ्च पर्वतिथिभावेन समाराधनमादिष्टमस्ति । तत्र यास्तिथयो यत्र दिने सूर्योदयात्प्रवृत्त्य दिनान्तरीयसूर्योदयञ्चाप्राप्यैव समाप्ति यान्ति तासान्तद्दिने समाराधनं निष्प्रत्यूहम् । परं याः पूर्वदिने सूर्योदयानन्तरं प्रवृत्य दिनान्तरे सूर्योदयानन्तरं निवर्तन्ते, तासां विषये भवति जिज्ञासा, यत्ताः पूर्वदिने आराध्या उत्तरदिने वा अथवा दिनद्वय एवेति ?
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552