Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust

Previous | Next

Page 445
________________ | જૈન દૃષ્ટિએ તિથિદિન અને પર્વરાધન-સંગ્રહવિભાગ अत्रैव प्रसङ्गे पृष्ठे च “ तथाहि-आवश्यकचूर्णी-" अट्ठमीपन्नरसीसु य नियमेण हविज पोसहिओ" इति, व्यवहारवृत्तौ-" एतेषु चाष्टम्यादिदिवसेषु चैत्यानामन्यवसतिगतसुसाधूनां वा अवन्दने प्रत्येकं प्रायश्चित्तम्" इति, श्रीतत्त्वार्थटीकायां हारिभद्रीयायां "प्रतिपदादिषु अनियम दर्शयति, अष्टम्यादिषु नियमः " इति, श्रीतत्त्वार्थसिद्धसेनटीकायां “ अनेन चान्यासु तिथिषु अनियमं दर्शयति, नावश्यतयाऽन्यासु कर्तव्यः, अष्टम्यादिषु तु नियमेन कार्यः” इतीमान् ग्रन्थानुद्धृत्य प्रधानतराभिः पाक्षिकचातुर्मासिकसांवत्सरिकतिथिभिः पराभूतानामपि पूर्णिमाऽमावास्या भाद्रशुक्लपञ्चमीनां तपसस्तत्तत्तिथिनियतत्वव्यवस्थापनाय पताकाकृता प्रयतितम् । परमुद्धृतग्रन्थेष्वेकमपि पदमुपदर्शयितुन्न पारितं येन तदीयमभिलषितं पूर्यमाणं प्रतीयेत । विचारेण तु तावदेतदवसीयते यत् “प्रतिपदादिषु अनियमं दर्शयति, अष्टम्यादिषु नियमः” इत्यादिग्रन्थः "प्रतिपदादिषु” इति शब्देन प्रतिपत्पदप्रतिपिपादयिषितद्वितीयायां तत्सदृशीषु पञ्चम्यादिशुभतिथिषु अनियमम् , “ अष्टम्यादिषु" इति शब्देन चाष्टम्यां पर्धान्तरापराभूतपूर्वतिथित्वेन तत्सदृश्यां चतर्दश्यान नियमं प्रदर्शयति । एवोक्तग्रन्थैरपि पञ्चम्याः पर्णिमाऽमावास्ययोश्च तिथि पस्त्वन्नैव निवेद्यते । यदि चेदं समुचितमप्युदितन्नैव रुचितं पताकाकर्तुस्तदा तेन तादृशं प्रमाणं वाच्यं यत् “ अष्टम्यादिषु" इत्यत्रत्यादिशब्दस्य ग्राह्यतां पञ्चमीपूर्णिमाऽमावास्यादिषु साधयेत्। अस्मत्कथितेऽर्थे तु पाक्षिकादिप्रधानतरतिथीनां टिप्पणोक्ते मुख्ये काले आराधनाया अवश्यकर्तव्यसंरक्षणमेव समर्थकमिति । ____ अतः पाक्षिकचातुर्मासिकसांवत्सरिकप्रतिक्रमणात्मकमेवाराधनं तिथिनियतम् , अष्टमीतरतिथीनाञ्च तपांसि न सर्वदा तिथिनियतानि किन्तु बाधकेऽसत्येवेति यदुक्तं मध्यस्थेन तदेव श्री जैनशास्त्रसुपरिशीलनप्रशाभृतां पण्डितानामन्तःकरणसम्प्रीणने प्रवीणं, नान्यत् । किचात्र मध्यस्थस्य सुगूढोऽयमाशयो नूनमवधेयो यत् क्षीणायाः भाद्रशुक्लपञ्चम्याः पूर्णिमाया अमावास्यायाः वा क्षयदिने आराधनीयता-स्वीकरणं पताकाकृत्परिपोषणीयपक्ष एव प्रधानतरपतिथेर्मुख्य दिने आराधनाबाधकतया दुःशकं तत्पक्षे क्षयनिर्देशदिने क्षीणतिथेरौदयिकीत्वस्य तद्दिनेऽक्षीणतिथेरनौदयिकीत्वनान्तरीयकत्वात् । सिद्धान्तपक्षे तु तादृशतिथीनां क्षयदिने आराधनास्वीकरणन्नैव दुष्यति क्षीणाक्षीणतिथ्योर्द्वयोरेवैकस्मिन् दिने आराधनायाः सम्भवात् । अतः सिद्धान्ते पञ्चम्यादीनामपि तिथिनियततपस्कता यदि स्वीक्रियते तदाऽपि न किञ्चित् कालुष्यमिति । विंशतितमे पृष्ठे “पञ्चमी तिथिस्युटिता भवति तदा तत्तपः पूर्वस्यां क्रियते, पूर्णिमायां च त्रुटितायां त्रयोदशीचतुर्दश्योः क्रियते, त्रयोदश्यां विस्मृतौ तु प्रतिपद्यपि” इति हीरप्रश्नग्रन्थस्यांशमुद्धृत्य " अनेनेदमवगम्यते पूर्णिमाऽमावस्ययोवृद्धौ त्रयोदशीवृद्धिर्भवतीति " इत्युक्तं पताकाकारेण । अत्र उक्तग्रन्थस्यांशतः पूर्णिमाऽमावास्ययोवृद्धौ त्रयोदशीवृद्धिभवनं प्रतीतिपथं कथ. मुपारोहति ? इति विद्वांसो विचारयन्तु यदि तेन स्वकीयन्तात्पर्यमेवं वर्येत यत् पूर्णिमाक्षये त्रयोदशीचतुर्दश्योर्द्वयोराराध्यताकथनेन पूर्णिमायाश्चतुर्दशीदिने औदयिकीत्वे मते तद्दिने चतुर्दश्या अनौदयिकीत्वप्रसक्त्या तस्यास्त्रयोदशीदिने औदयिकीत्वं सम्पाद्य आराधनस्योपपादनीयत्वेन त्रयोदश्या एव क्षयः कार्य इति प्रतिभाति । तथा च यथा पूर्णिमादिरूपपर्वतिथेः क्षयनिर्देशे त्रयोदशीरूपाया अपर्वतिथिरेव क्षयः सम्मतस्तथा पूर्णिमादिपर्वतिथिवृद्धौ त्रयोदश्या एव वृद्धिरुचितेति । तदा तदपि न शोभनम् , त्रयोदशीचतुर्दश्योः क्षीणपूर्णिमातपःकर्तव्यतावर्णनस्य तात्पर्यान्तरस्यापि सम्भवेन ततः पूर्णिमादिक्षयस्थले त्रयोदशीक्षयस्य सम्मतत्वानुमानासम्भवात् । तथा हि पूर्णिमायां समाप्यतया पूर्णिमातपस्त्वेन व्यपदेश्यं षष्ठात्मकं तपस्तस्या अक्षये चतुर्दशीपौर्णमास्योः क्रियते। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552