________________
| જૈન દૃષ્ટિએ તિથિદિન અને પર્વરાધન-સંગ્રહવિભાગ अत्रैव प्रसङ्गे पृष्ठे च “ तथाहि-आवश्यकचूर्णी-" अट्ठमीपन्नरसीसु य नियमेण हविज पोसहिओ" इति, व्यवहारवृत्तौ-" एतेषु चाष्टम्यादिदिवसेषु चैत्यानामन्यवसतिगतसुसाधूनां वा अवन्दने प्रत्येकं प्रायश्चित्तम्" इति, श्रीतत्त्वार्थटीकायां हारिभद्रीयायां "प्रतिपदादिषु अनियम दर्शयति, अष्टम्यादिषु नियमः " इति, श्रीतत्त्वार्थसिद्धसेनटीकायां “ अनेन चान्यासु तिथिषु अनियमं दर्शयति, नावश्यतयाऽन्यासु कर्तव्यः, अष्टम्यादिषु तु नियमेन कार्यः” इतीमान् ग्रन्थानुद्धृत्य प्रधानतराभिः पाक्षिकचातुर्मासिकसांवत्सरिकतिथिभिः पराभूतानामपि पूर्णिमाऽमावास्या भाद्रशुक्लपञ्चमीनां तपसस्तत्तत्तिथिनियतत्वव्यवस्थापनाय पताकाकृता प्रयतितम् । परमुद्धृतग्रन्थेष्वेकमपि पदमुपदर्शयितुन्न पारितं येन तदीयमभिलषितं पूर्यमाणं प्रतीयेत । विचारेण तु तावदेतदवसीयते यत् “प्रतिपदादिषु अनियमं दर्शयति, अष्टम्यादिषु नियमः” इत्यादिग्रन्थः "प्रतिपदादिषु” इति शब्देन प्रतिपत्पदप्रतिपिपादयिषितद्वितीयायां तत्सदृशीषु पञ्चम्यादिशुभतिथिषु अनियमम् , “ अष्टम्यादिषु" इति शब्देन चाष्टम्यां पर्धान्तरापराभूतपूर्वतिथित्वेन तत्सदृश्यां चतर्दश्यान नियमं प्रदर्शयति । एवोक्तग्रन्थैरपि पञ्चम्याः पर्णिमाऽमावास्ययोश्च तिथि पस्त्वन्नैव निवेद्यते । यदि चेदं समुचितमप्युदितन्नैव रुचितं पताकाकर्तुस्तदा तेन तादृशं प्रमाणं वाच्यं यत् “ अष्टम्यादिषु" इत्यत्रत्यादिशब्दस्य ग्राह्यतां पञ्चमीपूर्णिमाऽमावास्यादिषु साधयेत्। अस्मत्कथितेऽर्थे तु पाक्षिकादिप्रधानतरतिथीनां टिप्पणोक्ते मुख्ये काले आराधनाया अवश्यकर्तव्यसंरक्षणमेव समर्थकमिति । ____ अतः पाक्षिकचातुर्मासिकसांवत्सरिकप्रतिक्रमणात्मकमेवाराधनं तिथिनियतम् , अष्टमीतरतिथीनाञ्च तपांसि न सर्वदा तिथिनियतानि किन्तु बाधकेऽसत्येवेति यदुक्तं मध्यस्थेन तदेव श्री जैनशास्त्रसुपरिशीलनप्रशाभृतां पण्डितानामन्तःकरणसम्प्रीणने प्रवीणं, नान्यत् ।
किचात्र मध्यस्थस्य सुगूढोऽयमाशयो नूनमवधेयो यत् क्षीणायाः भाद्रशुक्लपञ्चम्याः पूर्णिमाया अमावास्यायाः वा क्षयदिने आराधनीयता-स्वीकरणं पताकाकृत्परिपोषणीयपक्ष एव प्रधानतरपतिथेर्मुख्य दिने आराधनाबाधकतया दुःशकं तत्पक्षे क्षयनिर्देशदिने क्षीणतिथेरौदयिकीत्वस्य तद्दिनेऽक्षीणतिथेरनौदयिकीत्वनान्तरीयकत्वात् । सिद्धान्तपक्षे तु तादृशतिथीनां क्षयदिने आराधनास्वीकरणन्नैव दुष्यति क्षीणाक्षीणतिथ्योर्द्वयोरेवैकस्मिन् दिने आराधनायाः सम्भवात् । अतः सिद्धान्ते पञ्चम्यादीनामपि तिथिनियततपस्कता यदि स्वीक्रियते तदाऽपि न किञ्चित् कालुष्यमिति ।
विंशतितमे पृष्ठे “पञ्चमी तिथिस्युटिता भवति तदा तत्तपः पूर्वस्यां क्रियते, पूर्णिमायां च त्रुटितायां त्रयोदशीचतुर्दश्योः क्रियते, त्रयोदश्यां विस्मृतौ तु प्रतिपद्यपि” इति हीरप्रश्नग्रन्थस्यांशमुद्धृत्य " अनेनेदमवगम्यते पूर्णिमाऽमावस्ययोवृद्धौ त्रयोदशीवृद्धिर्भवतीति " इत्युक्तं पताकाकारेण । अत्र उक्तग्रन्थस्यांशतः पूर्णिमाऽमावास्ययोवृद्धौ त्रयोदशीवृद्धिभवनं प्रतीतिपथं कथ. मुपारोहति ? इति विद्वांसो विचारयन्तु यदि तेन स्वकीयन्तात्पर्यमेवं वर्येत यत् पूर्णिमाक्षये त्रयोदशीचतुर्दश्योर्द्वयोराराध्यताकथनेन पूर्णिमायाश्चतुर्दशीदिने औदयिकीत्वे मते तद्दिने चतुर्दश्या अनौदयिकीत्वप्रसक्त्या तस्यास्त्रयोदशीदिने औदयिकीत्वं सम्पाद्य आराधनस्योपपादनीयत्वेन त्रयोदश्या एव क्षयः कार्य इति प्रतिभाति । तथा च यथा पूर्णिमादिरूपपर्वतिथेः क्षयनिर्देशे त्रयोदशीरूपाया अपर्वतिथिरेव क्षयः सम्मतस्तथा पूर्णिमादिपर्वतिथिवृद्धौ त्रयोदश्या एव वृद्धिरुचितेति । तदा तदपि न शोभनम् , त्रयोदशीचतुर्दश्योः क्षीणपूर्णिमातपःकर्तव्यतावर्णनस्य तात्पर्यान्तरस्यापि सम्भवेन ततः पूर्णिमादिक्षयस्थले त्रयोदशीक्षयस्य सम्मतत्वानुमानासम्भवात् । तथा हि पूर्णिमायां समाप्यतया पूर्णिमातपस्त्वेन व्यपदेश्यं षष्ठात्मकं तपस्तस्या अक्षये चतुर्दशीपौर्णमास्योः क्रियते।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org