________________
४३
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયને સમર્થક શ્રી અર્વત્તિથિભાકર ]. किन्तु तस्याः क्षये तस्थाश्चतुर्दश्याश्चैकदिन एव समावेशे कृते तादृशं दिनद्वयसम्पाद्यं तपः कथं कार्यमिति प्रश्नोत्तरतया " पूर्णिमायां च श्रुटितायां त्रयोदशीचतुर्दश्योः क्रियते" इत्युक्तिसंभवात् । ___ किश्च पराग्रहप्राचुर्येण तथैवाभ्युपगम्य विचारे क्रियमाणेऽपि पूर्णिमावृद्धौ त्रयोदशीवृद्धिवोधकतायां " त्रयोदशीचतुर्दश्योः" इत्युक्तेः पर्यवसानन्नैव सम्भवति उक्तरीत्या क्षीणायाः पूर्णिमायाश्चतुर्दशीदिने औदयिकीत्वस्वीकारेणानौदयिकीत्वं गतायाश्चतुर्दश्यास्त्रयोदशीदिने औदयिकीत्वकर वश्यकतया त्रयोदशीक्षयस्य यौक्तिकत्वसम्भवेऽपि पूर्णिमावृद्धौ त्रयोदश्या वर्धनस्य नितरां युक्तिशून्यत्वात् । वृद्धिं गतायाः पूर्णिमाया उत्तरदिवसीयस्यैव औदयिकीत्वस्य आराधनौपयिकतास्वीकृतौ चतुर्दश्याःप्रथमपूर्णिमादिने आकर्षणं विना अवृद्धिदशायां प्राप्तायाः द्वयोस्तिथ्योरव्यवधानेनाराध नायाः निर्वाहाभावप्रसक्तेर्वारणाय तस्याः प्रथमपूर्णिमादिने आकर्षणस्यावश्यकत्वेन तत्र पूर्णिमानिवृत्तेधुवतया तवृधेरसिद्धत्वेऽपि चतुर्दश्याः दिनद्वये औदयिकीत्वस्य उत्तरदिन एव चाराध्यत्वेन नियमितत्वस्य स्वीकारेऽवद्यायोगेन त्रयोदशीवृद्धः सिद्धयसम्भवात्। ____ पुनरत्रैव पृष्ठे “जीतव्यवहारेणाप्ययमेवार्थः सिद्धयति । जीतव्यवहारस्वरूपं च स्थानाङ्गसूत्रे पञ्चविधो व्यवहार उक्तः। तद्यथा (१) आगमः (२) श्रुतम् (३) आज्ञा (४) धारणा (५) जीतं चेति । तत्र यदा व्यवहर्तुरागमो भवेत् तदा तेनैव व्यवहर्तव्यम्। तदभावे श्रुतेन व्यवहर्तव्यम् । एवमन्यत्रापि पूर्वपूर्वाभावे परेण परेण व्यवहर्तव्यमित्यादि" इत्येवमुल्लिख्य " न च विजयदेवसामाचार्या जीतव्यवहारसिद्धत्वे किं मानमिति शङ्कनीयम् , सप्तदशशताब्दीत आरभ्य विवादोत्पत्तिसमयं यावत् तपोगच्छीयेन चतुर्विधेनापि श्रीजैनसङ्घन श्रीविजयदेवसूरिसामाचारी समाचरितेति तत्कालीनैर्ग्रन्थैस्ताम्रशासनैराचारैश्चावगम्यते । अद्यापि विवादेऽत्रासम्पृक्तैस्तटस्थैस्सर्वैरपि तपोगच्छीयैराचार्यस्सैव सामाचारी समाचार्यते” इत्युल्लेखो लभ्यते पताकाकृतः।।
अत्रेदं पृच्छ्यते यत् “जीतव्यवहारेणापि” इत्यत्रापिना किमुपादित्सितम् ? यद्यागमादिः, कुतः स स्पष्टन्नोपन्यस्तः? याच्यते उपन्यस्त एवासकृत् “ क्षये पूर्वा" इत्यादिक इति । तदा नैतदुक्तियुक्तिमती, तदर्थस्याधुनापि अव्यवस्थितत्वात् । त्वदुक्तार्थे तस्य तात्पर्यावधृतये प्रमाणान्तरस्यापेक्षणात् , तस्य चाभावात् , तादृशार्थ तद्वचोविवक्षिततागमकस्य कस्यापि जैनशास्त्रवचसोऽधुनावधि सुचिरगवेषणयाऽप्यप्राप्तत्वात् । .. किञ्च यदि स्याज्जीतपूर्वोक्तेषु अन्यतमस्तदा तस्मिन् ज्यायसि प्रमाणे जीवति जीतोपन्यासस्य निष्प्रयोजनता स्यात् । न हि अविप्रतिपन्नप्रत्यक्षसाक्षिके लौकिकेऽर्थे तथाविधशास्त्रसमुक्तेऽलौकिकेऽर्थे वा भवति ततोऽवरस्य मानान्तरस्य प्रदर्शनावश्यकता, नैव कश्चित् प्रज्ञावानपेक्षते, नापि कश्चिन्मेधावान् प्रदर्शयते। अत आगमादिचतुष्ठयापेक्षया जीतस्य “पूर्वपूर्वाभावे परेण व्यवहर्तव्यम्” इत्यादिना दौर्बल्यन्दर्शयित्वा तमुपन्यस्यताऽऽगमादीनामभावस्य स्वीकृतिसूचनादपिना जिघृक्षितो नैव घटते। ____अथ स पुन: पृच्छ्यते यत् " न च विजयदेवसूरिसामाचार्या जीतव्यवहारसिद्धत्वे” इत्यादिना विजयदेवसूरिसामाचार्यां जीतव्यवहारसिद्धत्वं साधयितुं प्रयस्यता पताकाकृता विजयदेवसरिसामाचारीत्वेन का सामाचारी उपादित्सिता ? तिथ्यादिपरिचयाय प्रमाणत्वेन जैनसङ्घस्वीकृतस्य पञ्चाङ्गस्य विरोधेन पर्वतिथीनां क्षयवृद्धिस्थले पूर्वापर्वतिथीनां क्षयवृद्धिभावस्य पर्वोत्तरपर्वतिथीनां क्षयवृद्धिस्थले पूर्वपर्वतिथीनां पञ्चाङ्गप्रोक्तपारमार्थिकसमयातिरिक्तसमये आराध्यत्वस्य च स्वीकरणरूपा अन्या वा काचित् ? यदि काचिदन्या तदानवसरस्तस्य जीतव्यवहारसिद्धत्वसाधनस्य, तत्र विप्रतिपत्तरप्रवृत्तत्वात् । यदि प्रथमा तदा तस्यां विजयदेवसूरिसम्मतत्वासिध्या सामान्यतो विजयदेवसूरिसामाचार्यास्तथात्वसाधनेनापि नेष्टसिद्धिः । न चोक्तमतपत्रकात्तस्य विजयदेवीयत्वं सुप्र मेयमिति वाच्यम् , तस्य तत्कृतत्वे मानराहित्यादप्रमाणत्वाच्चेति प्रागेव प्रतिपादनात्। अतो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org