________________
[ જૈન દૃષ્ટિએ તિથિદિન અને પર્વારાધન-સંગ્રહવિભાગ विजयदेवसूरीणां प्रशस्तौ न्यायविशारदश्रीयशोविजयप्रणीतपद्यान्युद्धरतापि न किञ्चित् स्वेप्सितं साधयितुं शक्यं पताकाकृता।
किञ्चक्वचिद् विजयदेवसूरिसामाचार्या जीतव्यवहारसिद्धत्वं क्वचिच्च जीतव्यवहारत्वं साधयता तेन स्पष्टं वक्तव्यं यत्तेन विजयदेवसूरिसामाचार्या अर्वाचीनपरिग्रहेण प्रामाणिकता सिपाधयिषिता? उत तयाऽर्वाचीनपरिग्रहस्य प्रमाणमूलत्वं सिषाधयिषितम् ? अथवा तस्याःजीतव्यवहारत्वं तबलेन स्वनियोक्तुर्मनोऽभिलषितं सिपाधयिषितम् ? तत्र न तावदाद्यमनवद्यम् , अर्वाचीनपरि ग्रहः किम्मूलकः ? इत्यस्यैव विचार्यमाणतयाऽसिद्धप्रमाणभूलकताकेन तेन तस्याः प्रामाणिकत्वसाधनासम्भवात् । तस्याः प्रामाणिकत्वे विप्रतिपत्त्यभावेन तत्साधनस्यानावश्यकत्वात् । तत्सिद्धावपि पताकाकर्तुस्तत्प्रवर्तयितुर्वा पर्वतिथिक्षयवृद्धिसम्बन्धे विवक्षितस्यान्तर्भावासिद्धया फलाभावाच्च । अत एव न द्वितीयमपि शुतिमत् , विजवदेवसूरिसामाचार्यां पर्वतिथिक्षयवृद्धिविषये श्रीसागरानन्दसूरिसमुच्यमानस्यानन्तर्भावेन तस्या इदम्मूलत्वासम्भवात् । अत एव न तृतीयमपि, र जीतव्यवहाररूपत्वेऽपि तत्र श्रीसागरानन्दसूरिविवक्षितस्याप्रविष्टतया तया तस्य समर्थनासम्भवात् ।
यदि चेदेवमुच्यते यत् पर्वतिथिक्षयवृद्धिविषये श्रीसागरानन्दसूरिसम्मतोऽर्थः विजयदेवसूरीणां समयात् तत्पूर्वसमयाद्वाऽविच्छेदेन समाद्रियमाण आयाति । न च तैरन्यैर्वा तत्सदृशः स प्रतिषिद्धो न वा शास्त्रविरुद्धोऽतो जीतव्यवहारपदं प्राप्ततयाऽधुनापि स तथैव स्वीकर्तुमुचित इति । तदा नेदं न्याय्यं युक्तं चेति समुपुष्यतेऽस्माभिः । यतो ह्ययमों विजयदेवसूरिसमयात् तत्पूर्वसमयाद्वा स्वीक्रियमाणस्समायातीत्यत्र नास्ति किश्चित् प्रमाणम् । प्रत्युत क्षीणत्वे वृद्धत्वे वा पर्वतिथीनामाराधनोपपादकस्य “क्षये पूर्वा" इत्याधुमास्वातिप्रघोषस्य दर्शनात् तत्समय एव तिथ्यादिनिर्णयाय लौकिकपञ्चाङ्गस्य प्रामाणिकत्वस्वीकारस्य सिद्धत्वेन तत्सन्मानसंरक्षणप्रवीण एव पन्था विजयदेवसूरिप्रभृतिभिगृहीतः स्यादित्यनुमानस्यैव निर्वाधत्वेन तात्कालिकाचारस्य प्रचलिताचारप्रतिकूलतैव सिद्धयति । अतः प्रचलिताचारश्चेदयुक्तोऽप्रमाणो वा तदा तैस्तत्सदृशैरन्यैर्वा कुतो न प्रतिषिद्धः? इति प्रश्नस्यावसर एव नास्ति, पतदाचारस्य तदानीमभावात् ।
अतोऽस्मद्विचारानुसारेणायमेवार्थ सिदध्यति यत पर्वतिथीनां क्षयवृद्धिप्रसङ्गे श्रीसागरानन्दसूरिसम्मत आचारः शास्त्रज्ञानसदाचारादीनां हासकालाद् विजयदेवसूरिचिरोत्तरस्मात् प्रवृत्तोऽभवदिति तद्विरुद्धशास्त्रपाठवलात् , शास्त्रानुसारिणो विचाराद् युक्तिनिचयाञ्च तमशास्त्रीयमाचारं निराकर्तुं पुरातनं शास्त्रीयमाचारं च पुनः प्रतिष्ठापयितुं श्रीमता रामचन्द्रसूरिमहाशयेन स्तुत्यः प्रयत्नः प्रारम्भीति।
द्वाविंशे पृष्ठे “ जैनशास्त्रस्य जीतव्यवहारस्य प्रामाण्यसिद्धये येऽपेक्षिताश्चत्वारोंऽशाः (१) युगप्रधानसदृशाचार्यप्रवर्तितत्वम् । (२) किमपि विशिष्टं प्रयोजनमुद्दिश्य प्रवर्तनम् (३) प्रवर्तितस्य धर्मस्य शास्त्रैस्सहाविरोधः (४) संविग्नगीतार्थाचारप्रतिषेधित्वं बहुभिरनुमतत्वं चेति ते सर्वेऽप्यत्र समग्रतयोपलभ्यन्त एवेति" इति अन्थात् पताकाकृता श्रीसागरानन्दसूरिसम्मतस्य पर्वतिथीनां क्षयवृद्धिविषये पञ्चाङ्गस्याप्रामाण्यं मत्वा अपर्वतिथीनामेव पूर्वपूर्वतराणां क्षयवृद्धिस्वीकरणस्य प्रामाणिकजीतव्यवहारत्वसाधने परिश्राम्यता जीतव्यवहारस्य प्रामाणिकतागमकतौपयिकानां कथितांशचतुष्टयानां सत्त्वं यदाशंसितं तन्न युक्तिमत् । तथा हि पूर्वप्रतिपादितप्रकारेण श्रीसागरानन्दसूरिसम्मते श्रीविजयदेवसूरिप्रवर्तितत्वस्यासिद्धतया तादृशापराचार्यप्रवर्तितत्वस्य श्रीसागरानन्दसरे रप्यननुमततया तत्र युगप्रधानसदृशाचार्यप्रवर्तितत्वरूपस्य प्रथमांशस्याभावोऽस्ति।
पर्वतिथीनां क्षयवृद्धयोर्वास्तवताऽभ्युपगमेऽपि सिद्धान्ते वक्ष्यमाणरीत्या तत्तत्तिथ्याराधनस्य सम्यपालनसम्भवेन तद्रक्षणस्य पर्वतिथीनां क्षयवृद्धयोरपारमार्थिकत्वस्वीकृतेः प्रयोजनत्वासम्भवाद विशिष्टप्रयोजनोद्देशेन प्रवर्तनरूपस्य द्वितीयस्याप्यंशस्याभावो विद्यते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org