________________
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયનો સમર્થક શ્રી અતિથિભાસ્કર ]. ___ सेनन ने तृतीयोल्लासे “वृद्धौ सत्यां स्वल्पाऽप्यनेतना तिथिः प्रमाणम्” इति ग्रन्थेन, कल्पसूत्रसुबोधिकायाम् “भाद्रपदवृद्धौ प्रथमो भाद्रपदोऽपि अप्रमाणमेव यथा चतुर्दशीवृद्धौ प्रथमां चतुर्दशीमवगणय्य द्वितीयायां चतुर्दश्यां पाक्षिककृत्यं क्रियते तथा” इति ग्रन्थेन, कल्पसूत्रदीपिकायाम् “भाद्रपदवृद्धौ प्रथमभाद्रपदोऽपि पर्युषणाकृत्येषु अनधिकृत एव, अभिवद्धिततिथिरिव तदीयकृत्येषु, तथाहि विवक्षितं हि पाक्षिकप्रतिक्रमणं तस्य चतुर्दश्यां नियतं सा च यद्यपि वर्द्धिता तदा प्रथमां परित्यज्य द्वितीयाऽङ्गीकार्या" इति ग्रन्थेन, हीरप्रश्नस्य द्वात्रिंशे पृष्ठे “पञ्चमी तिथित्रुटिता भवति तदा तत्तपः कस्यां तिथौ ? पूर्णिमायाञ्च त्रुटितायां कुत्रेति ? उत्तरम्-पञ्चमीतिथिस्युटिता भवति तदा तत्तपः पूर्वस्यां तिथौ क्रियते, पूर्णिमायां च त्रुटितायां त्रयोदशीचतुर्दश्योः क्रियते, त्रयोदश्यां विस्मृतौ तु प्रतिपद्यपि" इति ग्रन्थेनैतत्सदृशेनापरेणाप्यनेकेन जैनशास्त्रग्रन्थेन पर्वतिथीनां वृद्धिक्षययोः स्पष्टं प्रतिपादनात् शास्त्रविरोधरूपस्य तृतीयांशस्याप्यभावो वर्तते । ____एकोनविंशवैक्रमवत्सरस्य तुरीयभागे विद्यावृत्तादिशिथिलयतिप्राचुर्यप्राधान्ये विम्भमाणे "पर्वतिथीनां परमार्थतः क्षयवृद्धी न भवतः किन्तु तत्प्रसङ्गे तत्पूर्वापर्वतिथीनामेव" इत्येतदात्मनोऽर्थस्य प्रचलनात् , तदानीं च कतिपयसंविग्नगीतार्थमुनीनां सत्त्वेऽपि तेषामप्रधानतयाऽल्पसंख्यतया च तत्कृतविधिप्रतिषेधयोर्धारणरक्षणादिव्यवस्थाया अभावादपि तयोरप्राप्ततायाः सम्भाव्यमानतया अप्राप्तिमात्रेण तदर्थस्य तादृशमुनिजनप्रतिषिद्वत्वाभावस्य वक्तुमशक्यत्वात् साम्प्रतिकसंविग्नगीताथैः क्रियमाणायाः प्रामाणिक्याः प्रतिषिद्धताया उपेक्षणस्थानौचित्याच संविग्नगीतार्थाप्रतिषेधित्वरूपस्य चतांशस्याप्यभावोऽस्ति। ___अतः “पर्वतिथीनां क्षयवृद्धयोष्टिप्पणस्याप्रामाण्यमुपगम्य तत्पूर्वपूर्वतराणामपर्वतिथीनामेव क्षयवृद्धी मन्तव्ये” इति श्रीसागरानन्दसूरिणो ष्यमाणस्यार्थस्य जीतव्यवहारत्वं तत्सिद्धत्वं वाऽसिद्धमेवेति बोध्यम् । ___ पताकायाः २४-२५ पृष्ठयोस्तत्प्रणेत्रा निर्णयपत्रस्य त्रयोदशे पृष्ठे स्थितम् “ तदेवमाचार्यश्रीसागरानन्दसूरिभिरुमास्वातिवचनस्य स्वाभिमतार्थसिद्धये यानि शास्त्राणि समुपन्यस्तानि तानि शास्त्रा भासान्येव" इति मध्यस्थवचनमादाय मध्यस्थस्य जैनशास्त्राणामप्रमाणत्वासच्छास्त्रत्वयोरुदघोषकतामुपुष्य जैनजनतां क्षुब्धतां नेतुं या रीतिरङ्गीकृता सा न तत्स्वभावसामीचीन्यसूचने समर्था । . तर्हि किन्तात्पर्य मध्यस्थस्य तादृशोक्तेरिति चेत् , श्रूयतात् । श्रीसागरानन्दसूरिणोमास्वातिप्रघोषस्य प्रकृतस्य स्वाभिमतार्थसिद्धये यानि पूर्वचर्चितमतपत्रकादीनि समुपन्यस्तानि तानि न शास्त्राणि किन्तु शास्त्राभासानि, यानि च सेनप्रश्नादिग्रन्थान्तर्गतानि शास्त्रात्मकवचनानि उपन्यस्तानि तान्यपि श्रीसागरानन्दसूरिविवक्षिते “ पर्वतिथीनां क्षयवृद्धी न वास्तविक्यौ किन्तु तत्प्रसङ्गे तत्पूर्वापर्वतिथीनामेव ते तथाभूते " इत्येवंरूपेऽर्थे शास्त्राभासान्येव ।
न च सेनप्रश्नादिवचसामपि शास्त्राभासत्वं वदता मध्यस्थेन जैनशास्त्रावमानना कृतैवेति वक्तव्यम् , येषां शास्त्राणां यादृशार्थपरता तदीयमीमांसातो न व्यवतिष्ठते तादृशार्थकतया व्याख्यायमानानान्तेषां शास्त्राभासतायाः सर्वसुधीसद्धार्मिकाणां सम्मतत्वात् । अत एव वैदिकसम्प्रदायेऽप्यापौरुषेयाः परमेश्वराः वा वेदा अप्यन्यथा वर्ण्यमाना अप्रमाणतां व्रजन्तो मन्यन्ते । उचितमप्येतदेव, पूर्वापरसन्दर्भशद्धे सत्तर्कपरिशोधित एवार्थ शास्त्राणां शास्त्ररूपत्वात् । अन्यथा तत्तच्छास्त्रपरिग्रहीतृसम्प्रदायप्रतिकूलानामप्यर्थानां पूर्वापरशोधनाद्यभावे तत्तच्छास्त्रतो बोधसम्भवेन तेष्वप्यर्थेषु तेषां शास्त्रत्वं प्रमाणत्वं च स्यादिति तदनुसार प्रवर्तमानोऽधुनातनो वैदेशिकभावनाधनो जनोऽपि नैव प्रत्यवेयात् प्राप्नुयाच्च शास्त्रादेशपरिपालनप्रभवान् रमणीयपरिणामान् ।
अतो वयं वूमो यन्मध्यस्थेन श्रीसागरानन्दसूरिसम्मतेऽयौक्तिकेऽनेकशास्त्रीयवचोविरुद्ध दुर्घ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org