________________
[ જૈન દૃષ્ટિએ તિથિદિન અને પર્વોરાધન–સંગ્રહવિભાગ शास्त्रवचस्के चार्थे जैनशास्त्राणां शास्त्राभासत्वं प्रमाणाभासत्वञ्चाभिदधता तेषां शास्त्रत्वं प्रमाणत्वं च सम्यक् सुरक्षितमिति मेधाविनो धर्मप्राणस्य जैनलोकस्य हार्दिकान् धन्यवादानर्हति मनीषी मध्यस्थः ।
पताकायाः पञ्चविंशे पृष्ठे निर्णयपत्रस्य नवमपृष्ठस्थषष्ठविवादपदविचारान्तर्गतम् " प्रकरणं नामातीव दुर्बलं प्रमाणं वाक्यार्थनिर्णये इति ब्रूमः” इति मध्यस्थवचनं निराचिकीर्षता पताकाकृता तदभिप्रायमविज्ञाय व्यर्थमेव बहु जल्पितम् । यतो हि मध्यस्थोऽत्रेदमेवाभिधित्सति यत् प्रकरणस्य वाक्यार्थबोधे तात्पर्यनिश्चयद्वारा शब्दशक्तिप्रकाशिकायां जगदीशतर्कालङ्कारदर्शितदिशा साक्षादेवापेक्षणीयत्वेऽपि तस्य नानार्थकपदघटितवाक्यस्थल एवोपयोगो नान्यत्र । अतः प्रकरणस्य क्वाचित्यतया शाब्दबोधस्य हेत्वन्तरापेक्षया दौर्बल्यम् ।
૪૬
एवश्च क्षये पूर्वा तिथिः कार्या ” इतिवाक्यघटकस्य तिथिपदस्य नानार्थताविरहेण विवक्षितविचिकित्साया अभावात् तत्र प्रकरणप्रवृत्तेरनवसरत्वात् तिथिपदोपस्थाप्यस्य तिथिसामान्यस्य तद्वचोजन्यबोधे भानाभ्युपगमस्य निर्बाधत्वाच्च तद्वचसः कल्याणकतिथिव्यतिरिक्तपर्वतिथिमात्रपरत्वं श्री सागरानन्दसूरिणा स्वीक्रियमाणमनादरणीयमेवेति ।
यदि पुनः पूर्वमीमांसोत्तस्य तार्तीयीकस्य प्रकरणस्य वलं विवक्षितं पताकाकृतस्तन्नियुक्तिकृतो वा तदा तस्यापि युक्त्यन्तरमुखनिरीक्षकतया तादृशयुक्त्यभावे शाब्दबोधीयहेत्वन्तरापेक्षया दौर्बल्यात् प्रकृतेऽभावाच्च ततो बललाभस्याशा दुराशामात्रम् ।
66
अत्रैव प्रसङ्गे षड्ड्वंशे पृष्ठे " एवञ्च प्रकरणबाधकस्य कस्यापि प्रमाणस्याभावात् 'क्षये पूर्वा तिथिः " इति सामान्यतः श्रुतस्यापि तिथिपदस्प प्रकरणात् पर्वतिथिपरत्वमेव निश्चीयते, यथा " प्राश्नन्ति ब्राह्मणा ओदनम् " इत्याधानप्रकरणे पठिते आधानाङ्गभूतब्रह्मौदनप्राशनार्थं ब्राह्मणवि धायके वाक्येऽविशेषश्रुतस्यापि ब्राह्मणपदस्य प्रकरणादाधानाङ्गतया विहिताध्वर्य्यादिऋत्विङ्मात्रपरत्वं तद्वत् " इति ग्रन्थेन पताकाकृता " क्षये पूर्वा तिथिः " इत्यादिवाक्यस्थतिथिपदस्य " प्राश्नन्ति ब्राह्मणा ओदनम् " इति वाक्यघटकब्राह्मणपदेन सह यत्साम्यं प्रदर्शितम्, तन्न युक्तम्, तत्राधानप्रकरणस्येव प्रकृते कस्यचित् प्रकरणस्य सत्वे प्रमाणाभावात् । न हि पर्वतिथीनां किञ्चित् प्रकरणमेवं प्रसिद्धमस्ति यत्र " क्षये पूर्वा तिथिः " इत्यादिवचसः पाठवलात् तद्घटकस्य तिथिपदस्य पर्वतिथौ प्रधानपर्वतिथौ वा सङ्कोचः सिद्धयेत् । यदि चास्ति प्रकरणं तादृशं किञ्चित्, कुतस्तर्हि तदुपन्यासमकृत्वा स्वात्मनस्तदज्ञातृत्वानुमानावसरः प्रदत्तश्चतुरेणापि तेन ।
अत एवात्र प्रसङ्गे पताकाकारेण " सैन्धवमानय " इति लौकिकं वाक्यं दर्शपूर्णमासप्रकरणपठितं " समिधो यजति " इत्यादि शास्त्रीयं वाक्यञ्चोपादाय प्रकरणस्य वाक्यार्थनिर्णयोपयोगि तासाधनाय यः प्रयासः कृतः स व्यर्थ एव, मध्यस्थेन तस्य तत्रानुपयोगिताया अनुल्लेखात् किन्तु क्वाचित्कतया युक्त्यन्तरमुखपर्यवेक्षकतया च तस्य शाब्दबोधीय हेत्वन्तरापेक्षया दौर्बल्यस्यैव कथनात् ।
न च निर्णयपत्रस्य नवमे पृष्ठे तिथीनां पर्वापर्वत्वेनाशक्यविभागताम् अष्टमीचतुर्दश्यादीनां प्रधानपर्वतिथिताञ्च ब्रूवाणस्य मध्स्थस्य व्याहतवचस्त्वमिति वाच्यम्, यतो हि मध्यस्थो न तिथीनां पर्वापर्वत्वेन विभागाभावमभिप्रैति, किन्तु “ क्षये पूर्वा " इत्यादिवचनमुद्दिश्य पर्वापर्वविभागो नास्तीत्येव ब्रवीति । अर्थात् " क्षये पूर्वा " इत्यादिवचसः कल्याणक तिथिव्यतिरिक्त पर्वतिथिमात्रपरतासाधनायाष्टम्यादीनां पर्वतिथित्वं प्रधानपर्व तिथित्वं वा, कल्याणकतिथीनामपर्व तिथित्वं सामा न्यपर्वतिथित्वंवेति विभागः श्रीसागरानन्दसूरिणा वर्ण्यमानो निष्प्रमाणकः । पर्वतिथीनामष्टम्यादीनामिव कल्याणकतिथीनामपि क्षयवृद्धिस्थलयोराराधनानियमनार्थं तस्य प्रधानाप्रधानसाधारणपर्व -
Jain Education International
66
For Personal & Private Use Only
www.jainelibrary.org