________________
४७
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયને સમર્થક શ્રી અતિથિભાસ્કર ] तिथिपरतायाआवश्यकत्वेन सर्वतिथिपरताया पव स्वीकारस्यौचित्यात् ।
षड्विंशे पृष्ठे “ एवञ्चाराधनायां पर्वतिथेः परमार्थतः क्षयो वृद्धिर्वा नास्ति इति श्रीसागरानन्दसूरीणां मतम्” इति पताकाकारकथनं स्पष्टमाचष्टे यत्स विवादास्पदमतभेदौ न विजानाति, यतो हि आराधनायां पर्वतिथेः क्षयो वृद्धिर्वा नास्तीति न कस्याप्यनुमतम् । किन्तु विवदमानयोराचार्ययोर्मतभेदस्य बीजमन्यदेवास्ति । तद् यथा-श्रीसागरानन्दसूरिमते प्रचलता पञ्चाङ्गेन निर्दिष्टे पर्वतिथीनां क्षयवृद्धी न सत्ये, अर्थात् पर्वतिथीनां क्षयो वृद्धिश्च नैव भवतः । अतो यत्र पञ्चाङ्गेन तयोनिर्देशः क्रियते तत्र पर्वतिथीनां क्षयवृद्धी न स्वीकृत्य ततः पूर्वायाः पूर्वतरायाः वाऽपर्वतिथेरेव यथोचितं क्षयवृद्धी मन्तव्ये । श्रीरामचन्द्रसरिमते तु पञ्चाङ्गेन निर्दिश्यमाने पर्वतिथीनां क्षयवृद्धी अन्यतिथीनां क्षयवृद्धी इव सत्ये एव । किन्तु क्षीणापि पर्वतिथिरक्षीणेव वृद्धापि चावृद्धव तन्निवृत्तियुक्ते दिने आराधनार्थमुपादेया "क्षये पूर्वा" इत्याधुमास्वातिवाचकवचः प्रामाण्यात्।
अत पव वयं ब्रूमो यत् पर्वतिथीनामाराधनायां क्षयवृद्धयभावस्य श्रीसागरानन्दसूरिसम्मतत्ववचनेन सूच्यमानस्य श्रीरामचन्द्रसूरिसम्मतत्वाभावस्य आराधनाऽपेक्षापरित्यागेन पर्वतिथीनामपि क्षयवृद्धिमत्तायाः श्रीसागरानन्दसूरिसम्मतत्वस्य चासङ्गततया तद्वचनं पताकाकृतो विवादास्पदविषये मतभेदाज्ञानं व्यनक्तीति ।
२६-२७ पृष्ठयोः “ तथाहि “ अभिवढियसंवच्छरे जत्थ अहियमासो पडति तो आषाढपूण्णिमाओ विसतिराते गते भण्णति-ठियामोत्ति" इति निशीथचूर्णिगतं वचनम् । अस्यायमनुवादःअभिवर्द्धितसंवत्सरे यदाऽधिकमासो भवति तदा आषाढपूर्णिमातो विंशतौ रात्रिषु गतासु भणति यत् वयं स्थिताः स्म इति । प्राचीनज्योतिर्गणितानुसारेण पञ्चवर्षात्मके युगे युगमध्ये पौषमासस्य युगान्ते चाषाढमासस्येति द्वयोरेव मासयोर्वृद्धिर्भवति । तत्र युगमध्ये पौषमासस्य वृद्धौ सत्यां आषाढ़पूर्णिमायान्सत्त्वेन तदुक्तिसम्भवेऽपि आषाढमासस्य युगान्ते वृद्धौ सत्यां सूर्यप्रज्ञप्तिज्योतिष्करण्डकादिशास्त्रप्रामाण्येन क्षयं प्राप्ताया द्वितीयाषाढ़पूर्णिमाया उपादानमयुक्तमेव स्यात् । तदुपादानेन चाराधनायां तस्याः क्षयाभावः स्पष्ट प्रतीयते" इति पताकाकृतः प्रबन्धः प्राप्यते । ____अत्र स पृच्छयते यत् पर्वतिथीनां क्षयो वृद्धिर्वा वस्तुतो नैव भवतीति श्रीसागरानन्दसूरिमतव्यवस्थापनार्थं प्रवृत्तः स सूर्यप्रज्ञप्तिप्रभृतीनां जैनग्रन्थानामेव प्रामाण्यबलेन युगान्ते द्वितीयापाढ़पूर्णिमाया अवश्यं क्षीणतां ब्रुवन् किं स्वसमर्थनीयस्योक्तमतवालविटपस्य मूलमत्युष्णेन वारिणानाभिषिञ्चति ? अग्रे “तदुपादानेन चाराधनायां तस्याः क्षयाभावः स्पष्टं प्रतीयते" इत्युक्त्वा च वस्तुतः क्षीणापि पर्वतिथिराराधनायां न क्षीयत इत्यात्मविरुद्धवादं स्वरक्षणीयपक्षस्य वक्षसि मुष्टिप्रहाराय लब्धावसरं न करोति ? __ अतः पताकाकृतो ग्रन्थादमुष्मादिदं विज्ञायते यत् कुतश्चित्कारणादतात्त्विके पक्षे प्रसभं तेन प्रेर्यमाणाऽपि तदीया धीः " तत्त्वपक्षपातो हि धियां स्वभावः” इत्येवं प्रसिद्धस्य धीस्वभावस्यानुरोधेन तत्त्वरूपं श्रीरामचन्द्रसूरिसम्मतं पर्वतिथीनां क्षयवृद्धी वस्तुतः सत्ये अपि तासामाराधनार्थमपेक्ष्ययोः क्षयवृद्धयभावयोर्न प्रतिकूले इत्येतादृशं पक्षं बलादालिङ्गति । ___ सप्तविंशतितम पृष्ठे “ एवं सेनप्रश्नस्य तृतीयोल्लासे एकादशीवृद्धौ श्रीहीरविजयसूरीणां निर्वाणमहिमपौषधोपवासकृत्यं पूर्वस्यामपरस्यां वा कुत्रानुष्ठेयम् ? इति प्रश्नस्योत्तरतया “ औदयिक्येकादश्यां श्रीहीरविजयसूरिनिर्वाणपौषधादि विधेयम्" इत्युक्तम् । अत्राप्येकादश्याः परमार्थतो वृद्धिस्वीकारे उभयत्रौदयिकीत्वसत्वेन औदयिक्यामेकादश्यामिति कथनमसङ्गतं स्यात् ! तेनावगम्यते वस्तुतः पर्वतिथेवृद्धयभावेनैकैवौदयिकी एकादशी भवति । तस्यां च शास्त्रत एकायामेव प्राप्तायामौदयिक्यामेकादश्यां पौषधाद्यनुष्ठेयमिति" इति पताकाकृतो ग्रन्थ उपलभ्यते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org