________________
४१
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયને સમર્થક શ્રી અર્વત્તિથિભાસ્કર ] इत्यादिग्रन्थेन भाद्रपदशुक्लपञ्चम्यां श्रीकालकाचार्यानन्तरमपि पर्वानन्तरपर्वतिथित्वं व्यवस्थाप्य तस्याः पञ्चाङ्गे क्षयनिदेशे तस्या औदयिकीत्वसम्पादनानुरोधेन प्रधानतमाया अपि भाद्रपदशुक्लचतुर्थ्याः पञ्चाङ्गनिर्दिष्टे दिनेऽनौदयिकीत्वस्वीकरणमुचितमिति प्रतिपादयता पताकाकृता मध्यस्थवक्तव्यमधरीकर्तुं चेष्टितम्।
परं विचारः शास्त्रं वा तदीयप्रतिपादनं न प्रमाणयति प्रत्युत निर्दयं प्रतिक्षिपति । तथा हि" बीया पञ्चमी” इत्याद्युद्गीतगाथानुसारेण तस्याः शुभतिथित्वमेव शास्त्रसिद्धन्नतु पर्वतिथित्वम् । अतो भाद्रशुक्लपञ्चम्याः कालकाचार्यात्पूर्व वार्षिकप्रतिक्रमणतिथित्वरूपम् प्रधानपर्वतिथित्वमेवासीन्न तु तदतिरिक्तं शुभतिथित्वातिरिक्तं च सामान्यपर्वतिथित्वम् । तत्तु प्रवचनसारोद्धारादिगतात् " चतुर्दश्यष्टमीपूर्णिमाऽमावास्यासु पर्वतिथिषु” इत्यादिवचनान्तरबलात् अष्टमी, चतुर्दशी, पूर्णिमा, अमावास्येति तिथिष्वेवास्ति । तास्वपि कालकाचार्यात् पूर्वम् आषाढ़कार्तिकतपस्यपूर्णिमानां चातुमासिकप्रतिक्रमणतिथित्वात्मकप्रधानपर्वतिथित्वेन सह सामान्यपर्वतिथित्वमासीत् । परं कालकाचार्यादनन्तरं तदीयादेशानुसारेण भाद्रशुक्लपञ्चम्याः प्रधानपर्वतिथित्वं तच्चतुर्थ्या गृहीतं तया च शुभतिथित्वमात्रेणावस्थितम् । एवं पूर्णिमायाः चातुर्मासिकप्रतिक्रमणतिथित्वात्मकं प्रधानपर्वतिथित्वं तत्पूर्वचतुर्दश्याऽऽत्मसात्कृतं पूर्णिमया च सामान्यपर्वतिथित्वेन वर्तितम् । ___चतुर्दश्याश्च सर्वस्याः पाक्षिकप्रतिक्रमणतिथित्वमनादिकालादविच्छिन्नमायाति । अष्टम्यमावास्ययोश्चाखिलयोः पाक्षिकादिप्रतिक्रमणतिथ्याद्यपेक्षया सामान्यपर्वतिथित्वमपि निर्बाधमागच्छति। पश्चात् पूर्णिमाऽमावास्ययोः, अष्टमीचतुर्दश्योः, भाद्रशुक्लचतुर्थ्याः, द्वितीयापञ्चम्येकादशीनां पर्वतिथित्वं व्यवहृतमभवत् । ततोऽप्यनु तासामिव कल्याणकतिथीनामपि पर्वतिथित्वं व्यवहियमाणमवर्तत । मध्यस्थेन च भाद्रशुक्लपञ्चम्यां पूर्णिमाऽमावास्ययोश्च पर्वानन्तरसमकक्षपर्वतिथित्वमेव प्रतिषिद्धमिति तदीयनिर्णयपत्रस्य पर्यवेक्षणेन सर्वसाधारणस्यापि सुलभम् । ____ एवञ्च पञ्चम्याः शुभतिथित्वेन अर्वाचीनव्यवहारतः सामान्यपर्वतिथित्वेन वा पूर्णिमाऽमावास्ययोश्च सामान्यपर्वतिथित्वेन समाराध्यत्वेऽपि तत्क्षयनिर्देशदिने तासामाराधनं तदैव युज्यते यदि तत् तत्र दिने प्रधानपर्वतिथेर्भाद्रशुक्लचतुर्थ्याश्चतुर्दश्याः वाऽऽराधनस्य प्रतिकूलं न भवेत् । प्रतिकूलत्वे तु अप्रधानपर्वतिथीनामेव तद्दिने आराधनयोग्यतापरित्यागः प्रशस्यो न तु प्रधानपर्वतिथीनाम् , प्राधान्येन तासान्तदपेक्षयोत्कर्षात् , इति मध्यस्थोऽभिप्रेतीत्यतो विवक्षिताबोधेन पताकाकृता कृतं खण्डनमखण्डनमेव ।। ___न च भाद्रशुक्लपञ्चम्याः क्षीणत्वे यदि तस्या आराधनीयत्वं भाद्रशुक्लचतुर्थ्यां न स्वीक्रियते तदा " पञ्चमीतिथिस्त्रुटिता भवति तदा तत्तपः कस्यां तिथौ क्रियते ?” इति प्रश्नस्य “यदा पञ्चमी तिथिस्युटिता भवति तदा तत्तपः पूर्वस्यां तिथौ क्रियते” इत्युत्तरं हीरप्रश्नग्रन्थस्थितमसङ्गतं स्यादिति वाच्यं, तत्र भाद्रशुक्लपञ्चम्याः विशेषतोऽनिर्देशेन दोषाभावात् । अयम्भाव:भाद्रशुक्लपञ्चम्यास्त्रुटितायास्तत्पूर्वस्यामाराधनीयताया अस्वीकारे उक्तो हीरप्रश्नग्रन्थस्तदैवासंगतः प्रसज्ज्येत यदि तद्ग्रन्थान्तर्गतः पञ्चमीशब्दो विशेषेण भाद्रशुक्लपञ्चमीपरो भवेत् । परं स तु पञ्चमीत्वेन पञ्चमीपर इति त्रुटितपञ्चम्यन्तरमादाय तस्य प्रश्नोत्तरग्रन्थस्योपपत्तिसम्भवेन दोषो नास्ति । न च तत्रत्यपञ्चमीपदस्य पञ्चमीसामान्यपरत्वेन भाद्रशुक्लपञ्चमीपरत्वस्याप्यावश्यकतया तस्यास्त्रुटितपञ्चम्यन्तरादन्यथाकरणं तद्ग्रन्थविरुद्धं स्यादेवेति शङ्कनीयम् , कथितप्रकारेण सर्वतः प्रधानायाः भाद्रशुक्लचतुर्थ्याः ततोऽप्रधानायाः भाद्रशुक्लपञ्चम्याः अनुरोधेन टिप्पणप्राप्ते मुख्यदिने आराधनालोपस्यानौचित्येन उक्तहीरप्रश्नीयग्रन्थस्थपञ्चमीपदस्य भाद्रशुक्लपञ्चमीभिन्नपञ्चमीषु तात्पर्यसङ्कोचस्यावश्यकत्वात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org