Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust

View full book text
Previous | Next

Page 446
________________ ४३ ૧. લવાદી ચર્ચામાં આવેલા નિર્ણયને સમર્થક શ્રી અર્વત્તિથિભાકર ]. किन्तु तस्याः क्षये तस्थाश्चतुर्दश्याश्चैकदिन एव समावेशे कृते तादृशं दिनद्वयसम्पाद्यं तपः कथं कार्यमिति प्रश्नोत्तरतया " पूर्णिमायां च श्रुटितायां त्रयोदशीचतुर्दश्योः क्रियते" इत्युक्तिसंभवात् । ___ किश्च पराग्रहप्राचुर्येण तथैवाभ्युपगम्य विचारे क्रियमाणेऽपि पूर्णिमावृद्धौ त्रयोदशीवृद्धिवोधकतायां " त्रयोदशीचतुर्दश्योः" इत्युक्तेः पर्यवसानन्नैव सम्भवति उक्तरीत्या क्षीणायाः पूर्णिमायाश्चतुर्दशीदिने औदयिकीत्वस्वीकारेणानौदयिकीत्वं गतायाश्चतुर्दश्यास्त्रयोदशीदिने औदयिकीत्वकर वश्यकतया त्रयोदशीक्षयस्य यौक्तिकत्वसम्भवेऽपि पूर्णिमावृद्धौ त्रयोदश्या वर्धनस्य नितरां युक्तिशून्यत्वात् । वृद्धिं गतायाः पूर्णिमाया उत्तरदिवसीयस्यैव औदयिकीत्वस्य आराधनौपयिकतास्वीकृतौ चतुर्दश्याःप्रथमपूर्णिमादिने आकर्षणं विना अवृद्धिदशायां प्राप्तायाः द्वयोस्तिथ्योरव्यवधानेनाराध नायाः निर्वाहाभावप्रसक्तेर्वारणाय तस्याः प्रथमपूर्णिमादिने आकर्षणस्यावश्यकत्वेन तत्र पूर्णिमानिवृत्तेधुवतया तवृधेरसिद्धत्वेऽपि चतुर्दश्याः दिनद्वये औदयिकीत्वस्य उत्तरदिन एव चाराध्यत्वेन नियमितत्वस्य स्वीकारेऽवद्यायोगेन त्रयोदशीवृद्धः सिद्धयसम्भवात्। ____ पुनरत्रैव पृष्ठे “जीतव्यवहारेणाप्ययमेवार्थः सिद्धयति । जीतव्यवहारस्वरूपं च स्थानाङ्गसूत्रे पञ्चविधो व्यवहार उक्तः। तद्यथा (१) आगमः (२) श्रुतम् (३) आज्ञा (४) धारणा (५) जीतं चेति । तत्र यदा व्यवहर्तुरागमो भवेत् तदा तेनैव व्यवहर्तव्यम्। तदभावे श्रुतेन व्यवहर्तव्यम् । एवमन्यत्रापि पूर्वपूर्वाभावे परेण परेण व्यवहर्तव्यमित्यादि" इत्येवमुल्लिख्य " न च विजयदेवसामाचार्या जीतव्यवहारसिद्धत्वे किं मानमिति शङ्कनीयम् , सप्तदशशताब्दीत आरभ्य विवादोत्पत्तिसमयं यावत् तपोगच्छीयेन चतुर्विधेनापि श्रीजैनसङ्घन श्रीविजयदेवसूरिसामाचारी समाचरितेति तत्कालीनैर्ग्रन्थैस्ताम्रशासनैराचारैश्चावगम्यते । अद्यापि विवादेऽत्रासम्पृक्तैस्तटस्थैस्सर्वैरपि तपोगच्छीयैराचार्यस्सैव सामाचारी समाचार्यते” इत्युल्लेखो लभ्यते पताकाकृतः।। अत्रेदं पृच्छ्यते यत् “जीतव्यवहारेणापि” इत्यत्रापिना किमुपादित्सितम् ? यद्यागमादिः, कुतः स स्पष्टन्नोपन्यस्तः? याच्यते उपन्यस्त एवासकृत् “ क्षये पूर्वा" इत्यादिक इति । तदा नैतदुक्तियुक्तिमती, तदर्थस्याधुनापि अव्यवस्थितत्वात् । त्वदुक्तार्थे तस्य तात्पर्यावधृतये प्रमाणान्तरस्यापेक्षणात् , तस्य चाभावात् , तादृशार्थ तद्वचोविवक्षिततागमकस्य कस्यापि जैनशास्त्रवचसोऽधुनावधि सुचिरगवेषणयाऽप्यप्राप्तत्वात् । .. किञ्च यदि स्याज्जीतपूर्वोक्तेषु अन्यतमस्तदा तस्मिन् ज्यायसि प्रमाणे जीवति जीतोपन्यासस्य निष्प्रयोजनता स्यात् । न हि अविप्रतिपन्नप्रत्यक्षसाक्षिके लौकिकेऽर्थे तथाविधशास्त्रसमुक्तेऽलौकिकेऽर्थे वा भवति ततोऽवरस्य मानान्तरस्य प्रदर्शनावश्यकता, नैव कश्चित् प्रज्ञावानपेक्षते, नापि कश्चिन्मेधावान् प्रदर्शयते। अत आगमादिचतुष्ठयापेक्षया जीतस्य “पूर्वपूर्वाभावे परेण व्यवहर्तव्यम्” इत्यादिना दौर्बल्यन्दर्शयित्वा तमुपन्यस्यताऽऽगमादीनामभावस्य स्वीकृतिसूचनादपिना जिघृक्षितो नैव घटते। ____अथ स पुन: पृच्छ्यते यत् " न च विजयदेवसूरिसामाचार्या जीतव्यवहारसिद्धत्वे” इत्यादिना विजयदेवसूरिसामाचार्यां जीतव्यवहारसिद्धत्वं साधयितुं प्रयस्यता पताकाकृता विजयदेवसरिसामाचारीत्वेन का सामाचारी उपादित्सिता ? तिथ्यादिपरिचयाय प्रमाणत्वेन जैनसङ्घस्वीकृतस्य पञ्चाङ्गस्य विरोधेन पर्वतिथीनां क्षयवृद्धिस्थले पूर्वापर्वतिथीनां क्षयवृद्धिभावस्य पर्वोत्तरपर्वतिथीनां क्षयवृद्धिस्थले पूर्वपर्वतिथीनां पञ्चाङ्गप्रोक्तपारमार्थिकसमयातिरिक्तसमये आराध्यत्वस्य च स्वीकरणरूपा अन्या वा काचित् ? यदि काचिदन्या तदानवसरस्तस्य जीतव्यवहारसिद्धत्वसाधनस्य, तत्र विप्रतिपत्तरप्रवृत्तत्वात् । यदि प्रथमा तदा तस्यां विजयदेवसूरिसम्मतत्वासिध्या सामान्यतो विजयदेवसूरिसामाचार्यास्तथात्वसाधनेनापि नेष्टसिद्धिः । न चोक्तमतपत्रकात्तस्य विजयदेवीयत्वं सुप्र मेयमिति वाच्यम् , तस्य तत्कृतत्वे मानराहित्यादप्रमाणत्वाच्चेति प्रागेव प्रतिपादनात्। अतो Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552