Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust

Previous | Next

Page 443
________________ [ જૈન દષ્ટિએ તિથિદિન અને પરાધન-સંગ્રહવિભાગ दिनद्वयावच्छेदेन तस्य सत्वे च । तदा स पुनः पर्यनुयुज्यते यत् कुतस्तदा तेन जैनशास्त्रसम्मतं श्रीसागरानन्दसूरिसम्मतं वा पारिभाषिकमौदयिकीत्वं “क्षये पूर्वा" इत्यादिवचसा बुबोधयिषितं नोल्लिखितं निजपताकायाम् ? किं तदुल्लेखाभावस्तदीयं तत्परिचयाभावं न प्रकाशयति ? एतदपि घाच्यम पताकाकता यत्कस्तावत टिप्पणस्य क्षीणपर्वतिथेः पारिभाषिकौदयिकीत्वराहित्ये वद्धायास्तिथेश्च दिनद्वयावच्छेदेन पारिभाषिकौयिकीत्वे प्रामाण्यं मन्यते यम्प्रत्येतादृशः प्रयासस्तस्य फलेग्रहिर्भवेत् ? किश्च पताकाकृता नूनमिदमप्यनुस्मर्तव्यं यत्तस्य नियोक्तुः पारिभाषिकमौदयिकीत्वन्नास्त्यभिमतं किश्चित् , अन्यथा पारिभाषिकौदयिकीत्वस्य तदभिमतत्वे चतुर्दशीक्षयदिने चतुर्दश्याः पारिभाषिकौदयिकीत्वस्य स्वीकृतेस्त्रयोदश्याः क्षयाभावं विनापि सम्भवेन तल्लोपकरणस्यानावश्यकत्वापत्तेः। यदि कथञ्चित् पारिभाषिकमप्यौदयिकीत्वमेतादृशं निरुच्येत यत् त्रयोदश्याः क्षयाभ्युपगम एव चतुर्दश्यामुपपद्येत तदा तु सोऽमान्य एव स्यात् , शास्त्रसम्मति विना पारिभाषिकौदयिकीत्वस्य यथाभिलाषितस्य निर्वचने नैकानर्थप्रसक्तेः। ___ अष्टादशे पृष्ठे “पर्वतिथेष्टिप्पणे क्षयदर्शनेऽपि न शास्त्रतोऽत्यन्तलोपोऽङ्गीक्रियते मध्यस्थेनापि। आराधनार्थं तस्यास्सप्तम्यां तेन विधानाङ्गीकारात् । अतः प्रथमतो लोपमापाद्य व्यपदिश्य वा अनन्तरं तस्याः विधानापेक्षया स्थिताया एव तस्याः औदयिकीत्वं व्यपदेशः परं विधीयते लाघवादित्याचार्यसागरानन्दसूरिमतम्" इति पदावली पताकाकृतः प्राप्यते। __ अत्रोच्यते यत् सत्यमेतत् , न मध्यस्थेन क्षीणाया अष्टम्यादेरत्यन्तलोपः क्रियते, परं पताकाकृताऽत्यल्पं बुध्यते । यतस्तादृशतिथेरत्यन्तलोपः टिप्पणेनापि न क्रियते, किन्तु गणितागतमनौदयिकीत्वं निर्दिश्यते। यदि तेन स्वीयन्तात्पर्यमेवं वर्ण्यते यन्मध्यस्थेन तादृशाष्टम्यादेः औदयिकीत्वस्य सर्वथा लोपो न क्रियते किन्तु औदयिकसप्तम्यादावष्टम्यादिकं तादात्म्येन विधाय विबोध्य वा तस्य सत्त्वमेवाभ्युपगम्यते । तदा तस्य "प्रथमतो लोपमापाद्य,व्यपदिश्य वाऽनन्तरं तस्या विधानापेक्षया" इत्यादिकथनं कथं संगच्छते? यतो न मध्यस्थेन कदाप्येवमुक्तं यत् सप्तम्यादौ क्षीणाष्टम्यादितादात्म्यम् , अष्टम्यादिक्षयदिवसीयसप्तम्यादौ आराधनार्थमष्टम्यादिरूपत्वम् , तादृशसप्तम्यादावष्टम्यादिभावेनाराधनीयत्वम् , क्षीणाष्टम्यादौ पारिभाषिकमौदयिकीत्वमाराधनोपयुक्तं वा नास्तीति । अतो यथा तत्पाल्यनिदेशाचार्यमतेऽष्टम्यादिक्षयनिर्देशदिने वस्तुतः सर्योदयवेलायां विद्यमानायामेवाष्टम्यादौ टिप्पणतोऽविदिता तादृशविद्यमानता “क्षये पूर्वा" इत्यादिवचसा बोध्यते तथा मध्यस्थस्थापनीयमतेऽपि अष्टम्यादिक्षयदिवसीयसप्तम्यादौ वस्तुतो विद्यमान एव आराधनार्थाष्टम्यादिभावः टिप्पणादितोऽनवबोधितो वचसा तेन बोध्यते इति कुतः पताकाकृतो मतिर्मन्दायते मध्यस्थमनीषिताश्लेषे! एकोनविंशे पृष्ठे “भाद्रपदशुक्लचतु एव तत्पर्वतिथित्वात् तत्पञ्चम्याः पर्वानन्तरपर्वतिथित्वभ्यपगम्य ततीयायाः क्षयवद्धिसम्पादनं श्रीमदाचार्यसागरानन्दसूरीणामनावश्यकमिति मध्यस्थो ब्रवीति। तदिदमसङ्गतम्। हीरप्रश्ने पञ्चमीतिथिस्त्रुटिता भवति तदा तत्तपः कस्यां तिथौ क्रियते इति प्रश्नमुत्थाप्य यदा पञ्चमीतिथिस्त्रुटिता भवति तदा तत्तपः पूर्वस्यां तिथौ क्रियते इति सामान्यत एव पञ्चमीनिर्देशात् तत्र भाद्रपदशुक्लपञ्चम्या व्यावृत्त्यदर्शनात् , “बीया पञ्चमी अट्टमी एगारसी चउदसी पणतिहिओ। एआओ सुयतिहीओ गोयमगणहारिणा भणिया" इति गाथायां सामान्यत एव पञ्चमीग्रहणात् गीतार्थाचीर्णत्वेन परम्पराव्यवहारेण च पञ्चम्यास्सामान्यपर्वतिथित्वमस्त्येव । कालकाचार्येण प्रधानपर्वतिथित्वस्यैव परिवर्तनात् । पर्वतिथित्वञ्च नियताराधनाधिकरणत्वम् । तच्चाष्टमीचतुर्थीरिवान्यासामपि तिथीनामस्त्येव बह्वीनाम् । जैनागमेषु तथा दर्शनात् ।" Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552