Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust

View full book text
Previous | Next

Page 441
________________ ३८ [ જૈન દષ્ટિએ તિયિદિન અને પરાધન-સંગ્રહવિભાગ प्राप्तेति सैव व्यपदेशमर्हति । व्यपदिश्यते च तथा प्रायश्चित्तादौ न तु त्रयोदशीति व्यपदेशः क्रियत इति" इति पताकाकृतो वाक्यमुपलभ्यते ।। ___अत्र स प्रष्टव्यो भवति यदेतेन तत्त्वतरङ्गिणीवाक्येन "चतुर्दशीक्षये त्रयोदशीक्षयः कार्यः" इति तदभिलाषितोऽर्थः कथं प्रकाश्यते ? “तत्र त्रयोदशीति व्यपदेशस्याप्यसम्भवात्" इति भागेन सोऽर्थो बोध्यत इत्युच्यते चेत् । नैतत् सम्यक् । तद्घटकशब्दानां तादृशेऽर्थे शक्तिविरहात् । तेन भागेन तादृशार्थो न शाब्द्यते किन्त्वर्थतो गम्यत इति चेदभिधीयते । तदपि शोभनम् । आराधनादौ त्रयोदशीव्यपदेशानौचित्यप्रत्यायनपरस्य तस्य त्रयोदशीक्षयप्रत्यायनपरतायाः कल्पनस्य निष्प्रमाणकत्वात् । ___अयम्भावः-चतुर्दशीक्षयदिने टिप्पणानुसारेणौदयिक्यां त्रयोदश्यां न सर्वथा त्रयोदशीव्यपदेशस्यानौचित्यमसम्भवत्वं वा उक्तवाक्यभागेन विवर्णयिषितम् किन्तु आराधनादिविधावेव, “प्रायश्चित्तादिविधौ चतुर्दश्येवेति व्यपदिश्यमानत्वात् ” इत्यग्रिमवाक्येनैतदर्थस्य स्पष्टं सूचनात् । "संवच्छरचउमासे पक्खे अट्ठाहियासु तिहीसु । ताउ पमाणं भणिआ, जाओ सूरो उदयमेइ ॥ अह जइ कह वि न लब्भन्ति, ताओ सूरुग्गमेण जुत्ताओ। ता अवरविद्ध अवरावि हुज्ज, नहु पूव तविद्धा॥” इति गाथान्तर्गतेन “अवरावि" इति शब्देनाप्येतस्यैवार्थस्य सूचनाञ्च । अत उक्ततरङ्गिणीवाक्यं केवलमेतदेव बोधयति यत्तादृशी त्रयोदशी वस्तुतस्त्रयोदशी भवन्ती अपि आराधनादिकर्मणि त्रयोदशीशब्देन न व्यपदेश्या, तादृशव्यपदेशस्य तदननुकूलत्वात् , किन्तु चतुर्दशीशब्देनैव व्यपदेश्या चतुर्दशीव्यपदेशस्य तदानुकूल्यात् । अयमर्थश्च तत्त्वतरङ्गिण्याम् उक्तगाथोत्तरमुपलभ्यमानात् “न च प्राक् चतुर्दश्येवेत्युक्तम् , अत्र तु 'अवरावि' इत्यनेन अपिशब्दादन्यसंशापि गृह्यते तत्कथं न विरोध इति वाच्यम्, प्रायश्चित्तादिविधावित्यक्तत्वात" इत्येवंविधाद ग्रन्थात् सम्यक् परिपुष्यति । अत एतत्तत्त्वतरङ्गिणीग्रन्थात् पताकाकारप्रभृतयस्सर्वथा त्रयोदशीलोपस्य तत्त्वतरङ्गिणीकृत्सम्मतत्वं कथं प्रतियन्तीति चिन्तयन् बुधवर्गो विस्मयोदन्वति निमजति । __पञ्चदशे पृष्ठे “शास्त्रेण पर्वतिथेः क्षयाभावकथनादपर्वतिथेरर्थात् क्षयप्राप्तेः चतुर्दश्याश्च पर्वतिथित्वेन तत्क्षयस्याकरणात् तत्पूर्वस्यास्त्रयोदश्या ण्व क्षये कृते क्षीणतिथेळपदेशः प्रयोजनाभावान्न युक्तः। अत एव तस्य व्यपदेशो न क्रियते, चतुर्दश्या एव भूमाधिकरणन्यायेन भूयसा व्यपदेशः क्रियते । तथा हि "सृष्टीरुपदधाति यथासृष्टमेवावरुन्धे” इति चयनप्रकरणे श्रयते ।............ तत्र सृष्टिपदेन सृष्टयसृष्टिसमुदायरूपसप्तदशसंख्याकमन्त्रा अभिधीयन्ते, तस्मिन् समुदाये।...... ......चतुर्दशमन्त्रास्सृष्टिवाचकपदघटिताः।...............त्रयोदशमन्त्रास्तदघटिताः । तादृशोभयसमुदायस्सृष्टिशब्देनोच्यते भूम्ना बाहुल्येन ।........... ...एवं दिने यस्मिन् त्रयोदश्याः क्षयश्शास्त्रेणोक्तस्तस्मिन् दिने अधिकांशश्चतुर्दश्या व्याप्तस्तदव्याप्तश्चाल्पीयानंशः। तादृशोभयांशसमुदायश्चतुर्दशीपदेन व्यपदिश्यते.” इति पताकाकृतो ग्रन्थो ज्ञानाध्वगो भवति । अत्र स महाशयः पुनः प्रष्टव्यो जायते यत्केन तावत्तपोनिचयेनेशी विचित्रा प्रतिभा तेन लब्धा यशात सर्वथा विषमोऽपि दृष्टान्तो दार्टान्तिके नियोज्यते, न च लज्ज्यते लेशमपि । तथा हि सृष्टयसृष्टिसमुदायरूपसप्तदशसंख्याकमन्त्रेषु सृष्टिवाचकपदघटितमन्त्राणां बाहुल्येन तदघटितानाञ्चाल्पत्वेन तत्समुदाये सृष्टिशब्दप्रयोगस्य भूमादिकरणन्यायविषयता युज्यते परं पताकाकृत्समर्थनीये मते टिप्पणदृष्टया चतुर्दशीक्षयदिने त्रयोदश्याः सर्वथालोपस्य स्वीकारेण तस्याः स्तोकमप्यसत्तया तद्दिवसीयतिथौ चतुर्दशीत्वमात्रस्यैव च सत्तया तत्र चतुर्दशीव्यपदेशस्योक्तन्यायविषयता कथं संगच्छते ? किश्च कीदृशमनवधानं पताकाकर्तः? यदनपदमेव चतर्दशीक्षयदिने “चतुर्दश्याश्च पर्वतिथित्वेन तत्क्षयस्याकरणात् तत्पूर्वस्यास्त्रयोदश्या एव क्षये कृते ” इति ग्रन्थेन त्रयोदश्यास्सर्वथाऽस Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552