________________
३८
[ જૈન દષ્ટિએ તિયિદિન અને પરાધન-સંગ્રહવિભાગ प्राप्तेति सैव व्यपदेशमर्हति । व्यपदिश्यते च तथा प्रायश्चित्तादौ न तु त्रयोदशीति व्यपदेशः क्रियत इति" इति पताकाकृतो वाक्यमुपलभ्यते ।। ___अत्र स प्रष्टव्यो भवति यदेतेन तत्त्वतरङ्गिणीवाक्येन "चतुर्दशीक्षये त्रयोदशीक्षयः कार्यः" इति तदभिलाषितोऽर्थः कथं प्रकाश्यते ? “तत्र त्रयोदशीति व्यपदेशस्याप्यसम्भवात्" इति भागेन सोऽर्थो बोध्यत इत्युच्यते चेत् । नैतत् सम्यक् । तद्घटकशब्दानां तादृशेऽर्थे शक्तिविरहात् । तेन भागेन तादृशार्थो न शाब्द्यते किन्त्वर्थतो गम्यत इति चेदभिधीयते । तदपि शोभनम् । आराधनादौ त्रयोदशीव्यपदेशानौचित्यप्रत्यायनपरस्य तस्य त्रयोदशीक्षयप्रत्यायनपरतायाः कल्पनस्य निष्प्रमाणकत्वात् । ___अयम्भावः-चतुर्दशीक्षयदिने टिप्पणानुसारेणौदयिक्यां त्रयोदश्यां न सर्वथा त्रयोदशीव्यपदेशस्यानौचित्यमसम्भवत्वं वा उक्तवाक्यभागेन विवर्णयिषितम् किन्तु आराधनादिविधावेव, “प्रायश्चित्तादिविधौ चतुर्दश्येवेति व्यपदिश्यमानत्वात् ” इत्यग्रिमवाक्येनैतदर्थस्य स्पष्टं सूचनात् । "संवच्छरचउमासे पक्खे अट्ठाहियासु तिहीसु । ताउ पमाणं भणिआ, जाओ सूरो उदयमेइ ॥ अह जइ कह वि न लब्भन्ति, ताओ सूरुग्गमेण जुत्ताओ। ता अवरविद्ध अवरावि हुज्ज, नहु पूव तविद्धा॥” इति गाथान्तर्गतेन “अवरावि" इति शब्देनाप्येतस्यैवार्थस्य सूचनाञ्च । अत उक्ततरङ्गिणीवाक्यं केवलमेतदेव बोधयति यत्तादृशी त्रयोदशी वस्तुतस्त्रयोदशी भवन्ती अपि आराधनादिकर्मणि त्रयोदशीशब्देन न व्यपदेश्या, तादृशव्यपदेशस्य तदननुकूलत्वात् , किन्तु चतुर्दशीशब्देनैव व्यपदेश्या चतुर्दशीव्यपदेशस्य तदानुकूल्यात् । अयमर्थश्च तत्त्वतरङ्गिण्याम् उक्तगाथोत्तरमुपलभ्यमानात् “न च प्राक् चतुर्दश्येवेत्युक्तम् , अत्र तु 'अवरावि' इत्यनेन अपिशब्दादन्यसंशापि गृह्यते तत्कथं न विरोध इति वाच्यम्, प्रायश्चित्तादिविधावित्यक्तत्वात" इत्येवंविधाद ग्रन्थात् सम्यक् परिपुष्यति । अत एतत्तत्त्वतरङ्गिणीग्रन्थात् पताकाकारप्रभृतयस्सर्वथा त्रयोदशीलोपस्य तत्त्वतरङ्गिणीकृत्सम्मतत्वं कथं प्रतियन्तीति चिन्तयन् बुधवर्गो विस्मयोदन्वति निमजति ।
__पञ्चदशे पृष्ठे “शास्त्रेण पर्वतिथेः क्षयाभावकथनादपर्वतिथेरर्थात् क्षयप्राप्तेः चतुर्दश्याश्च पर्वतिथित्वेन तत्क्षयस्याकरणात् तत्पूर्वस्यास्त्रयोदश्या ण्व क्षये कृते क्षीणतिथेळपदेशः प्रयोजनाभावान्न युक्तः। अत एव तस्य व्यपदेशो न क्रियते, चतुर्दश्या एव भूमाधिकरणन्यायेन भूयसा व्यपदेशः क्रियते । तथा हि "सृष्टीरुपदधाति यथासृष्टमेवावरुन्धे” इति चयनप्रकरणे श्रयते ।............ तत्र सृष्टिपदेन सृष्टयसृष्टिसमुदायरूपसप्तदशसंख्याकमन्त्रा अभिधीयन्ते, तस्मिन् समुदाये।...... ......चतुर्दशमन्त्रास्सृष्टिवाचकपदघटिताः।...............त्रयोदशमन्त्रास्तदघटिताः । तादृशोभयसमुदायस्सृष्टिशब्देनोच्यते भूम्ना बाहुल्येन ।........... ...एवं दिने यस्मिन् त्रयोदश्याः क्षयश्शास्त्रेणोक्तस्तस्मिन् दिने अधिकांशश्चतुर्दश्या व्याप्तस्तदव्याप्तश्चाल्पीयानंशः। तादृशोभयांशसमुदायश्चतुर्दशीपदेन व्यपदिश्यते.” इति पताकाकृतो ग्रन्थो ज्ञानाध्वगो भवति । अत्र स महाशयः पुनः प्रष्टव्यो जायते यत्केन तावत्तपोनिचयेनेशी विचित्रा प्रतिभा तेन लब्धा यशात सर्वथा विषमोऽपि दृष्टान्तो दार्टान्तिके नियोज्यते, न च लज्ज्यते लेशमपि । तथा हि सृष्टयसृष्टिसमुदायरूपसप्तदशसंख्याकमन्त्रेषु सृष्टिवाचकपदघटितमन्त्राणां बाहुल्येन तदघटितानाञ्चाल्पत्वेन तत्समुदाये सृष्टिशब्दप्रयोगस्य भूमादिकरणन्यायविषयता युज्यते परं पताकाकृत्समर्थनीये मते टिप्पणदृष्टया चतुर्दशीक्षयदिने त्रयोदश्याः सर्वथालोपस्य स्वीकारेण तस्याः स्तोकमप्यसत्तया तद्दिवसीयतिथौ चतुर्दशीत्वमात्रस्यैव च सत्तया तत्र चतुर्दशीव्यपदेशस्योक्तन्यायविषयता कथं संगच्छते ?
किश्च कीदृशमनवधानं पताकाकर्तः? यदनपदमेव चतर्दशीक्षयदिने “चतुर्दश्याश्च पर्वतिथित्वेन तत्क्षयस्याकरणात् तत्पूर्वस्यास्त्रयोदश्या एव क्षये कृते ” इति ग्रन्थेन त्रयोदश्यास्सर्वथाऽस
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org