________________
૩૭
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયને સમર્થક શ્રી અતિથિભાસ્કર ] त्वकथनपूर्वकाभिशापदानस्य सम्भवेनान्यादृशे कलहे पर्यवसानात् । यदि विद्यार्थिना, तदा तस्यापि प्रथमं सविस्तरवैशा युक्तिप्रमाणोपन्यासद्वारा विवक्षितस्य समर्थनेन तदीयसन्देहसमुन्मूलनमेव न्याय्यन्नतु तथाऽकृत्वैव कोपकरणम् । नचात्र प्रतिपादनीयेऽर्थे पूर्णिमावृद्धौ त्रयोदशीवृद्धिकर्तव्यतौचित्यरूपे युक्त्यादीनामुपन्यास इति स्पष्टमावेदितमेव । ___अविज्ञातकर्तृकत्वमपि प्रकृतस्य मतपत्रकस्य प्रमाणत्वप्रतिकूलमेव । तथाहि-सम्प्रदायान्तरेऽविज्ञातकर्तृकस्य वेदस्य प्रामाण्येऽपि जैनसम्प्रदाये नाविज्ञातकर्तृकस्य प्रामाण्यं सम्मतम् । आगमस्यापि सर्वज्ञतीर्थङ्करोपज्ञत्वादेव प्रमाणत्वेन स्वीकारात् । अतस्तदतिरिक्तस्य शास्त्रस्य तन्मूलकत्व एव प्रामाण्यं स्वीकर्तुमर्हमार्हतैः। परैरपि तादृशस्य तथैव तत्स्वीकारात् । एवञ्च मूलागमभिन्नस्य
प्टमागममलकत्वपरिज्ञान एव तत्प्रामाण्यस्वीकरणस्य युक्ततया पूर्णिमावृद्धौ त्रयोदश्यादिवृद्धिमान्यतासमर्थनार्थमनुद्धृतागमवचने मतपत्रके प्रामाण्याङ्गीकरणाय तत्कर्तुरन्वेषणमावश्यकं येनाप्राप्तसमर्थकागमवचनस्यापि तस्य "क्षये पूर्वा" इत्यादिवाचकमुख्यवचनस्येव कर्तृमहिम्ना प्रामाण्यं स्वीकतु शक्येत । न च "श्रीविजयदेवीयानाम्" इत्युल्लेखेन तत्कर्तुर्विज्ञानं सुलभमेवेति वाच्यम् , तदुल्लेखस्य सम्पादककृतत्वसम्भवेन संशायकत्वात् । न च सम्पादकोल्लेखादपि अनेकग्रन्थानां पुरुषविशेषकर्तृकत्वं स्वीक्रियत एव लोकेन, तथा च तत एवास्यापि श्रीविजयदेवसूरिकृतत्वमास्थेयमिति शङ्कनीयं प्रमाणान्तरे सत्येव तदुल्लेखस्यान्यत्रापि समादरात् । अन्यथा कञ्चिन्नूतनं ग्रन्थं कृत्वा तत्र च कर्तृतया कस्यचिन्मान्यस्य पुरातनस्य पुंसो नामनिर्देशेन तन्मुद्रणेऽपि तस्य प्रामाण्यं प्रसज्येत ।
द्विविधाश्च प्राचीनग्रन्थकर्तारो दृश्यन्ते-एके निजनाम्नो निर्देशकाः अपरे च तदनिर्देशकाः। तत्र प्रथमकोट्यन्तर्गताः निजग्रन्थेऽनेकत्र नाम्ना प्रकारान्तरेण वाऽऽत्मनो निर्देशं कुर्वन्ति यथा नैषधकारादयः। न चैवमस्त्यस्मिन् मतपत्रकेतस्तत्कर्ता नामानिर्देशककोटावेव गणनीयः । एवञ्च स्वरूपेण कर्तृविशेषप्रभवत्वेन चाप्रसिद्धस्य तस्य मतपत्रकस्य मुखपृष्ठे प्राप्यमाणो नामनिर्देशः सम्पादककृत व मान्यः । स च प्रमाणान्तरसहकारमन्तराऽप्रमाणमेव ।
इत्थञ्च पत्रचतुष्टयात्मकत्वमपि तस्याप्रामाण्यग्रहणेऽनुकूलमेव । अन्यथा विस्तृतग्रन्थान्तरघटकत्वे तस्य पूर्वापरपर्यालोचनेन कदाचित् कथितदोषनिराससम्भवेन तादृशस्यापि तस्य प्रामाण्यसम्भवात् । अतोऽविज्ञातकर्तृकत्वादिविशिष्टपत्रचतुष्टयमात्रकायस्याविभ्रान्तेन लोकेन प्रमाणतया मतस्यैकस्यापि धर्मग्रन्थस्य लोकेऽदर्शनादेतस्यापि तथाभाव एव न्याय्यः।
एवञ्च चतुर्दशत्रयोविंशपृष्ठयोः पताकाकारस्य मतपत्रके प्रामाण्यसाधनस्य मध्यस्थोद्धोषिततदप्रामाण्यनिराकरणस्य च प्रयासो नियोजकनिदेशपालनमात्रमवगन्तव्यम् ।
किञ्चैतदप्यवश्यं ध्येयं यत् कस्मिंश्चिद् विषयविशेषे विवाद उत्थिते वादिप्रतिवादिभ्यां प्रमाणत्वेनाभ्युपगत एव शास्त्रादिरन्यतरपक्षनिर्णयाय मध्यस्थेनोपादेयो भवितुमर्हति । मतपत्रकस्य चास्य प्रामाण्यमेकतरपक्षवादिनो जैनाचार्यश्रीरामचन्द्रसूरेन सम्मतम् ।
चतुर्दशपञ्चदशपृष्ठयो:-" तथा हि-महोपाध्यायश्रीधर्मसागरप्रणीततत्त्वतरङ्गिण्याम्-"नन्वौयिकीतिथिस्वीकारान्यतिथितिरस्कारप्रवणयोरावयोः कथं त्रयोदश्या अपि चतुर्दशीत्वेन स्वीकारो युक्तः, " इत्याशङ्कय “तत्र त्रयोदशीति व्यपदेशस्याप्यसम्भवात् , किन्तु प्रायश्चित्तादिविधौ चतुदश्येवेति व्यपदिश्यमानत्वात्" इति समाहितम् । एतेनेदं सिद्ध्यति-लौकिकटिप्पणे त्रयोदशीत्वेन श्रुताया अपि “क्षये पूर्वा तिथिः कार्या" इत्युमास्वातिप्रघोषत्वेन प्रसिद्धन शास्त्रेण पर्वतिथेरौदयिकीसंज्ञाविधानात् तस्याः क्षयाभावात् फलतोऽपर्वतिथेरेव क्षयसिद्धेः तत्र चतुर्दश्येव शास्त्रतः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org