________________
..
...
...
....
..
.
.
.
३६
[ જૈન દષ્ટિએ તિથિદિન અને પરાધન-સંગ્રહવિભાગ पूर्णिमावृद्धिं निर्दिशति तादृश्यां त्रयोदश्येव जैनटिप्पणेन वृद्धिमत्तया निर्दिश्यते स्मेति । परमिदन्तदैव भवेद् यदीदं प्रमापयितुं शक्येत । अत आगमसंवादाप्रदर्शनेन नवस्य तस्याप्रामाण्यमकम्पनीयम् ।
पूर्णिमाऽभिवृद्धौ प्रथमदिने चतुर्दशीसङ्क्रमणं कार्यं त्रयोदश्याश्च वर्धनं विधेयम् इत्यादेः स्वाभिप्रेतस्य समर्थनाय काचिद् युक्ति!पन्यस्ता । तत्र जैनटिप्पणकं समर्थकतया नोपन्यासार्ह सुचिरपूर्वसमुच्छिन्नतया तत्स्वरूपस्य निरूपयितुमशक्यत्वादित्युक्तम् । “ यथावदागमानुसारेण" इति मतपत्रकवचनमपि नामश्राहमागमानुल्लेखेन वञ्चनमात्रम् । “वृद्धपरम्परया” इत्येषोऽपि तदीयः शब्दो व्यर्थप्रायो विजयदेवसूरिपूर्वं तत्समये वा तादृशपरम्परायाः सत्त्वे मानाभावात् । सत्त्वे वा तत्परम्परा किम्मूलिका? इति प्रश्नोत्तरस्यावश्यं निर्देश्यस्योपेक्षाया अनौचित्यात् । स्वानुमितागममूलिका सा इत्यस्यापि प्रश्नकर्तृदृष्ट्याऽज्ञानसमुत्थायास्तस्या आगमगमकतौपयिकरूपप्ररूपणमन्तरेण वक्तुमनुचितत्वात् । " उत्सूत्रप्ररूपणेन" इत्युक्त्या प्रश्नकर्तृकथनस्य पूर्णिमावृद्धौ त्रयोदशीवृद्धरनौचित्यपरस्योत्सूत्रता या सूचिता साऽपि समर्थकयुक्तेरनुपन्यासेन निष्फलीकृता। अतो निजविवक्षिते युक्तिहीनतयाऽपि मतपत्रकस्याप्रामाण्यं ध्रुवमेव ।
परस्परविरुद्धोक्तिगर्भतयाऽपि तस्याप्रामाण्यमापतति । तद्यथा-पूर्वं पूर्णिमावृद्धौ प्रतिपद्वृद्धिरितिविजयानन्दसूरीणां मतमुपन्यस्य निराकृतम् । तत्र जैनटिप्पणके तिथीनां वृद्धिर्न भवतीत्यस्यहेतुता शब्दतोऽर्थतो वा विवक्षिता। सा च तदभिमतायास्त्रयोदशीवृद्धेः प्रतिकूला। यदि "तिथीनाम्" इत्यस्य " पर्वतिथीनाम्” इत्यर्थस्तदा सा प्रतिपदोऽपर्वरूपायाः वृद्धिप्रतिषेधे स्वात्मतया वञ्चिता भवति । तदनन्तरं सेनप्रश्नग्रन्थात् “ अष्टम्यादितिथिवृद्धौ अग्रेतन्या आराधनं क्रियते" इत्युपन्यस्य "वृद्धौ सत्यां स्वल्पाप्यनेतना तिथिः प्रमाणम्” इति निगमनं पूर्वोपक्रान्तविचारस्य विनिर्दिष्टम् । तत्पश्चाच्च पूर्णिमावृद्धौ त्रयोदशीवर्धनं कथमिति प्रश्नस्तदुत्तरं च "ननु पूर्णिमा चतुर्दश्यां संक्रामिता” इत्यादितः प्रथमोधृतग्रन्थात् कृतमस्ति । ततः परञ्च "चेदेवं तव न रोचते तदा प्रथमां पूर्णिमां परित्यज्य द्वितीयां पूर्णिमां भज" इति वाक्यं रचितं वर्तते ।
एवञ्च “ जैनटिप्पणके तिथीनां वृद्धिर्न भवति" इति पूर्वप्रकाशितस्य तिथिसामान्यवृद्धिनिषेधस्य पश्चात् कथितेन पर्वतिथिमात्रवृद्धिप्रतिषेधेन सह विरोधः। तदनु सेनप्रश्नग्रन्थस्य पर्वतिथिवद्धिनिर्देशिनः पूर्वोपन्यस्तस्य पौरस्त्येन तत्प्रतिषेधोक्तिपर्वकत्रयोदशीवद्धिवचसा विरोधः। पुनस्तस्य “तदा प्रथमां पूर्णिमां परित्यज्य द्वितीयां पूर्णिमां भज" इत्यग्रेतनेन विरोधः। - "चेदेवं तव न रोचते" इत्युक्त्या निजोक्तस्य दौर्बल्यं निजस्यापि प्रतिभातीति सूच्यते । उचितमप्येतत् । अन्यथा को नाम पामरप्रधानादन्यो निष्प्रमाणं नियुक्तिकं चोक्ते परश्रद्धेयतां विश्वसेत् । नैतस्य परपक्षाभ्युपगमेन समाधानदानरूपता शङ्कनीया । "प्रथमपूर्णिमापरित्यागपूर्वकद्वितीयपूर्णिमाग्रहणोपदेशे त्रयोदशी कथं वर्धिता” इतिप्रश्नस्य समाधानताया अभावात् , धार्मिकविचारे परपक्षाभ्युपगतेः कस्मा अपि प्रयोजनाय अवाञ्छनीयत्वाच्च।
स्वाभ्युपगमविरुद्धस्य वचनादपि मतपत्रकं प्रमाणतां परित्यजति। कथन्तत्र स्वाभ्युपगमविरोध इति चेत् ? प्रथमपूर्णिमापरित्यागपूर्वकोत्तरपूर्णिमापरिग्रहणोपदेशात् प्रतीयमानेन “द्वितीयपूर्णिमाऽऽश्रयणे पूर्णिमावृद्धिः स्वीक्रियमाणाऽपि न हानये” इत्यनेन "पूर्णिमावृद्धौ त्रयोदश्या एव वृद्धिः” इति स्वाभ्युपगमविरोधस्य निर्वाधप्रत्ययात् ।। ___अन्तर्निविष्टशापतयाऽप्येतस्य प्रामाण्यं परिक्षीयते । तथाहि-उक्तो विचारो यदि वादिना सह स्यात्तदा तन्मतनिराकरणपूर्वकस्वमतसमर्थनमेव न्याय्यन्नान्यत् । अन्यथा तेनापि कदाग्रहि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org