________________
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયના સમર્થક શ્રી અર્હત્તિથિભાસ્કર 1
૩૫
नियमाभावें तात्पर्यकल्पनायाः सम्भवात् तन्नियमोपजीव्यस्य ज्यौतिषस्यानुरोधेन तथा कल्पना न सम्भवतीति विभाव्यते चेत्तदा टिप्पणोपजीव्यस्य ज्योतिषस्यानुरोधेन टिप्पणबोधितं पर्वतिथेः प्रथमदिनेऽपि सूर्योदयस्पर्शं तत्पूर्वतिथेस्तद्दिने सूर्योदयासम्बन्धञ्च कथं तद्वचोऽन्यथा कुर्यात्, अत एतस्यापि वचसस्सिद्धान्तेऽभिधास्यमान एवाभिसन्धिः श्रद्धातव्यः ।
चतुर्दशे पृठे पर्वतिथेः टिप्पणेन क्षये निर्दिष्टे तस्याः क्षयो न मान्यः किन्तु तत्पूर्वस्याः, पर्वा - नन्तरपर्वतिथेश्च क्षये तेन निर्दिष्टे तस्यास्तत्पूर्वस्याः वा क्षयो न श्रद्धेयः किन्तु तत्पूर्वतराया अपर्वतिथेः, एवं पर्वतिथेः वृद्धौ निर्दिष्टायां तस्याः वृद्धिर्न स्वीकार्या किन्तु तत्पूर्वस्याः पर्वानन्तरपर्वतिथेश्च वृद्धौ निर्दिष्टायां तस्यास्तत्पूर्वस्या वा वृद्धिर्नाङ्गीकार्या किन्तु तत्पूर्वतराया इत्येतदात्मकृतव्यवस्थानुकूलजैनागमानुसारिप्रमाणप्रदर्शनं प्रतिज्ञाय सर्वप्रथमं श्रीविजयदेवसूरिविरचितत्वेनोच्यमानस्य मतपत्रकस्य तिथिहानिवृद्धिविषयकः कियान् ग्रन्थभागः उपन्यस्तः पताकाकृता - स यथा'ननु पूर्णिमा चतुर्दश्यां सङ्क्रामिता तदा भवद्भिद्वै चतुर्दश्यौ कथं न क्रियेते तृतीयस्थानवर्तनी त्रयोदशी कथं वर्द्धिता ? इति त्वं पृच्छसि शृणु तत्रोत्तरम्, जैनटिप्पणके तावत् पर्वतश्रीनां वृद्धिरेव न भवति ततः परमार्थतस्त्रयोदश्येव वर्धिता” इति तत्रैवापरत्र च 'तस्मात् त्यज कदाग्रहम्, कुरु पूर्णिमाऽभिवृद्धौ द्वे एव त्रयोदश्यौ ” इति, तत्रैवान्यत्र च यथावदागमानुसारेण पूर्वाचार्य परम्परया च प्रवर्तितव्यम् । परं कदाग्रहं कृत्वा कुमार्गप्रवर्तनं न कार्यम् । उत्सू प्ररूपणेनानन्त संसारवृद्धेः । तस्मात् सिद्धमेतत् - पूर्णिमाभिवृद्ध त्रयोदश्यभिवर्धनमिति ” ।
"
66
अत्रेदमुच्यते यत् क्रोडीकृतोक्तवाक्यजातकं मतपत्रकं न संदिग्धप्रामाण्यकमात्रं किन्तु निर्बाधावधार्यप्रामाण्यव्यतिरेककम् । कथमिति चेत् श्रूयताम् । उक्तमतपत्रकादन्यत्र क्वापि प्रकृतार्थस्य स्पष्टमस्पष्टं वाऽनिर्देशेन संवादाभावात् । न हि नूतनः कोऽपि निबन्धो विवादास्पदे विषये पूर्वप्रामाणिकशास्त्रसंवादं विना प्रमाणतया मान्यो भवति । मतपत्रकस्योद्घृते वाक्ये पूर्वपक्षयितुः स्वव्ये विशेषादरो दृश्यते, तेन स्पष्टमवगम्यते प्रष्टव्यस्य पर्वतिथिक्षयवृद्धिसम्बन्धिनो विषयस्य महाविवादास्पदता, अतस्तादृशे विषये करिष्यमाणस्य निर्णयस्य प्रामाणिकप्रमाणान्तरसंवाददर्शनHaraft परं मतपत्रके तस्य सर्वथाऽभाव एव विद्यते । पूर्णिमावृद्ध त्रयोदशीवृद्धेः मान्यतायाः मूले पृष्टे " जैनटिप्पणके तावत् पर्वतिथीनां वृद्धिरेव न भवति ततः इत्युक्तम् । को नाम - जिज्ञासते जैनटिप्पणके पर्वतिथीनां वृद्धिर्भवति न वेति ? प्रश्नस्त्वयमस्ति यत् जैनटिप्पणकन्तु अद्यत्वे नास्ति, यदस्तीतरटिप्पणकं तत्र पर्वतिथीनां वृद्धिनिर्देशो विद्यते तथा च तदद्यत्वे जैनैस्तिध्यादिनिर्णयाप्रमाणत्वेन ग्राह्यन्न वा ? यदि न ग्राह्यन्तदाऽन्यस्य तिथ्यादिनिर्णायकस्याभावाद् धर्मलोपः प्रसज्ज्यते । ग्राह्यञ्चत्तदा सर्वांश एव प्रमाणत्वेन ग्राह्यं स्यान्नत्वंशविशेषे । अन्यथा अंशविशेषस्याप्रमाणत्वे तद्द्दष्टान्तेने तर सर्वांशेऽप्यप्रामाण्यमापतेत् । अथवाऽपरांशन्यायेनाप्रमाणत्वेनेष्यमाणस्यापि तद् व्यतिगच्छेत् ।
,"
किञ्च किमत्र मानं ? यद् यदि जैनटिप्पणकमद्यत्वे मृतं नाभविष्यत् तदा तत्रैव दिने पर्व - तिथिसत्तां निरदेक्ष्यद् यत्र प्रकृतं टिप्पणं विनिर्दिशति यद्यस्ति किन्तत् ? यदि नास्ति, कुतस्तदा तत्रापि नैतस्याप्रामाण्यसंशयग्रासः ?
एवञ्चाभिहिताभिप्रायेणोत्थितस्य " पूर्णिमावृद्धौ त्रयोदशी कथं वद्धिता” इति प्रश्नस्य न किञ्चित् समाधानं मतपत्रके कृतमस्ति ।
किञ्च " द्वे चतुर्दश्यौ कथं न क्रियेते
इति प्रश्नस्य कथञ्चिदुच्येतापि “जैनटिप्पण तावत् पर्वतिथीनां वृद्धिरेव न भवति " इत्युत्तरम्, परं “त्रयोदशी कथं वर्धिता” इति प्रश्नस्य तु कथञ्चिदपि तदुत्तरतया वाच्यं न भवति तस्योत्तरन्त्वेतत् स्याद् यादृश्यां स्थितौ जैने तर टिप्पणं
Jain Education International
99
For Personal & Private Use Only
www.jainelibrary.org