________________
[જૈન દૃષ્ટિએ તિથિનિ અને પદ્મરાધન–સંગ્રહવિભાગ पर्वतिथीनां क्षयवृद्धयोरुपजीवकतया तासान्तयोरभावबोधने उपजीव्यविरोधापत्तेः । न च वास्तवि क्यौ क्षयवृद्धी नोपजीवति तत्, किन्तु टिप्पणतस्तयोरवगतिमेव, अतस्ते निपीडयतोऽपि तस्य तस्या अनपहारितया नोक्तकलङ्ककालमेति कथनीयम्, विषयापहारेण परिणामतस्तस्या एवापहारात् । न च विषयापहारेण न तस्या अपहारः किन्तु तदीययथार्थताया एव सा च न तदुपजीव्येति न प्रदर्शितो दोष इत्युदीरणीयम्, वक्ष्यमाणदूषणप्रसङ्गात् । तथाहि टिप्पणं पर्वतिथीनां प्रवृत्तिनिवृत्तिविषये ऽप्रमाणन्तदैव स्याद् यदि तदधिकृत्य कृतं गणितं विगुणं स्यात् । एवञ्च टिपणप्रणेतुर्यदि गणितस्याशुद्धत्वं मन्यते तदा तस्य पर्वतिथीनां क्षयवृद्धिविषय एवाशुद्धत्वं नान्यः ति वक्तुमशक्यतया तिथ्यन्तरविषयेऽप्यशुद्धत्वशङ्का स्यादेव । तथाच या पर्वतिथिः यत्र दिने क्षीणतयाऽक्षीणतया वा वृद्धतयाऽवृद्धतया वा टिप्पणेन निर्दिष्टा सा तत्रैव दिने तथैव प्रवृत्ता इत्यत्रापि विश्वासाभावः प्रसज्ज्येत, सति चैवं तिथिनिर्णायकस्य साधनान्तरस्य सम्प्रत्यभावात् श्रीजैनसङ्घः तिथ्यादेः प्रामाणिकं परिचयमनासादयन् तिथ्याराधनेऽसमर्थो भवन् बलाद् विराधनैनसा दष्टो दुर्गतिं व्रजेत्, पाश्चात्य सभ्यताऽभिभूतधर्मभावनश्च वर्गस्तिथिनिर्णायकनिराकरणेन तिथ्याराधनभारहर्त्तारं पताकाकर्त्तारं सोत्साहमभिनन्देत् ।
३४
न च " क्षये पूर्वा ” इत्यादिबलवत्तरवचोबलेन पर्वतिथीनां क्षयवृद्धिमात्र एव टिप्पणस्याप्रामाण्यं कल्पनीयन्नान्यत्रेति शक्यवचनम्, एकदेशेऽप्रामाण्येऽभ्युपगते तद्दृष्टान्तेन देशान्तरेष्वपि तदनुमानस्य निष्कण्टकं प्रसरात्, अन्यथा दृष्टार्थकागमभागदृष्टान्तेनादृष्टार्थकागमभागेषु प्रामाण्यावधारणस्य दुर्घटतया निखिलायाः धर्माधर्मव्यवस्थाया एव विलोपप्रसङ्गात् ।
किञ्च तिथीनां प्रवृत्तिनिवृत्त्यादिरूपे गणितशास्त्रासाधारणविषये शास्त्रान्तरं क्रमेतापि कथमित्यपि चिन्तनीयमेव चतुरेण पताकाकारेण ।
न द्वितीय, तयोस्सर्वसम्मतयोस्स्वीकारेण पताकामङ्कयतो निजनियोक्तुः प्रियपूरणे साफल्यासम्भवात् ।
किञ्चेदमवश्यमुत्तरणीयं पताकाकृता यत् पञ्चाङ्गे पर्वतिथेः क्षये प्राप्ते क्षयदिने तस्या आराधनोपपत्तये तस्यास्तद्दिने “ क्षये पूर्वा " इत्यादिवचनबलेन स्यान्नाम औदयिकीत्वम्, परन्तद्दिने टिप्पणेनौदयिकीभावेन भाषितायास्तिथेरनौदयिकीत्वलक्षणः क्षयः किमर्थं कल्प्यते ? इति यदि स समादध्यात् न किञ्चिदर्थं तथा कल्प्यते, किन्तु " एकस्मिन् दिने एकैव तिथिरौदयिकी " इति नियमानुरोधेन तदा तन्नैव युक्तं स्यात् टिप्पणानुसारेण सप्तम्यादिमति सूर्योदयकाले “क्षये पूर्वा" इत्यादिशास्त्रेणाष्टम्यादिसम्वन्धस्थापनायास्तादृशनियमाभावबोधने पर्यवसान कल्पनायाः सम्भवात् । न च तादृशनियमाभावबोधने ज्यौतिषशास्त्रस्य विरोधः स्यादिति शक्यते वक्तुम्, प्रोक्तस्य शास्त्रवचसो ज्यौतिषाद् भयाभावात्, अन्यथाज्यौतिषासादितशौर्येण टिप्पणेन प्रवेद्यमानं सप्तम्यादेरष्टम्यादिक्षयदिने सूर्योदयकालेऽवस्थानमपि तन्नापनयेत् किन्तु सिद्धान्ते वक्ष्यमाणमार्गेण तथाssaरेद् यथा टिप्पणेन सह तस्य मैत्री ताटस्थ्यं वा निर्विघ्नन्निर्वहेत् ।
66
एवमेव टिप्पणेन पर्वतिथेर्वृद्धिनिर्देशे तस्या उत्तरदिन एवाराधनाव्यवस्थायै तस्याः 'वृद्धौ कार्या" इत्यादिवचनबलेन पूर्वदिनेऽनौदयिकीत्वं मन्यताम्, किन्तु तत्पूर्वस्यास्तत्पूर्वतराया वा अपर्वतिथेर्दिनद्वये औदयिकीत्वरूपा वृद्धिः कुतो हेतोः कल्प्यते - एतदपि तेनोत्तरणीयतामर्हति ।
यदि स प्रतिबुवीत यत् " वृद्धौ कार्या ” इत्यादिशास्त्रेण टिप्पणतो वृद्धायाः पर्वतिथेः पूर्वदिनेsatara त्वव्यवस्थितौ तद्दिने सूर्योदयकालस्य तिथिसाहित्यसम्पादनाय तथा कल्प्यते, अन्यथा " सर्वसृष्टिमान् कालस्तिथिमान् ” इति नियमो भज्येत तदा तदप्यसुन्दरमेव । टिप्पणानुसारेण पूर्वदिनेऽप्यौदयिक्या पर्वतिथेरुक्तवचसा द्वितीयदिन एवौदयिकीत्वसम्पादनस्य तादृश
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org