________________
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયના સમર્થક શ્રી અર્હત્તિથિભાસ્કર ]
66
,"
किञ्चयमपि प्रश्नस्तदीयमुत्तरमपेक्षते यत् क्वचित् “ द्वितीयस्यां पर्वतिथावष्टस्यादावौदयिatri नियम्यते " क्वचित् " नास्माकं पक्षेऽयं वाक्यार्थः किन्तु पर्वतिथित्वनियमनरूपः” क्वचिच्च 'परस्याः पक्षप्राप्ताया नियमनम् " पुनश्च पञ्चदशे पृष्ठे "औदयिकीसंज्ञाविधानात् इति वदतस्तस्य किम् औदयिकीत्वे, पर्वतिथित्वे, पर्वतिथौ औदयिकीसंज्ञायां च विशेषाभावः सम्मतः ? यद्येवम् तर्हि तेषाम् पदार्थानां विशेषं वास्तविकं विजानतां विदुषां वर्गतो बहिर्भूय कश्चित् पदा - र्थान्यथाविदां सङ्घः शरणतया गवेषणीयः ।
" वृद्धौ कार्या तथोत्तरा " इति वचनस्यौदयिकीत्वनियामकतान्निषिध्य पर्वतिथित्वनियामकतां सिद्धान्तयतः पताकाकृतः शिरस्येकोऽयमपरः दुस्सहोऽनिष्टदण्डो निपतति तं स कथं प्रतिकरोतीत्येतदपि तेन चिन्तनीयम् ।
तथा हि यदि “ वृद्धौ कार्या" इति वचनं न नियामकमौदयिकीत्वस्य किन्तु पर्वतिथित्वस्य, तदैतस्य बलेन वृद्धप्राप्तपर्वतिथेः प्रथमदिने पर्वतिथित्वमेव निवर्त्स्यति न पुनरौदयिकत्वम् । एवञ्च वृद्धायाः पूर्णिमादेः पूर्वदिनेऽप्यौदयिकीत्वस्याक्षुण्णतया तद्दिने तत्पूर्वस्याश्चतुर्दश्यादे रौदयिकीत्वकल्पनं कथं संगच्छेत ? एकत्र दिने द्वयोस्तिथ्योः सूर्योदयस्पर्शित्वलक्षणस्यौदयिकीत्वस्य कस्यापि विशेषतः पताकाकारस्यापि स्वीकृतत्वाभावात् । अन्यथा पूर्णिमादेः क्षयस्थले टिप्पणानुसारेणौदयिकचतुर्दशीके दिने पूर्णिमाया औदयिकीत्वाय पूर्वस्यास्तदभावस्वीकारस्य तत्कर्तृकस्यासङ्गत्यापत्तेः । पर्वतिथित्वमौदयिकीत्वमादायैव निवर्तते इति तु वक्तुमयुक्तम्, पर्वतिथित्वस्यौदयिकीत्वव्यापकत्वाभावात् । पूर्णिमात्वाद्यन्यतम विशिष्टौदयिकीत्वं स्वव्याप्यमादाय निवर्तते इत्यप्यशोभनं वचनम्, तस्य पर्वतिथित्वव्याप्यत्वे तदूवलेन वृद्धायां तिथौ द्वयोरेव दिनयोः पर्वतिथित्वस्य नियतप्राप्त्या पाक्षिकप्राप्तिकर्तृताविकलस्य तस्य नियमविधिविषयत्वासम्भवात् । तथाभूतस्यापि तस्य तत्स्वीकारसम्भवे मध्यस्थोक्तस्यौदयिकीत्वे तत्सम्भवस्य निराकार्यताराहित्यापत्तेः ।
त्रयोदशे पृष्ठे पर्वानन्तरपर्वतिथिविचारं प्रतिज्ञाय पताकाकृता लिखितं यत् " पूर्णिमाऽमावास्यादिषु पर्वानन्तरपर्व तिथिषु टिप्पणानुसारेण क्षीणासु वृद्धासु वा तत्पूर्वस्याश्चतुर्दश्या अपि पर्व - तिथित्वेन तस्याः पर्वतिथित्वात् क्षयः वृद्धिर्वा न भवितुमर्हति । एकस्मिन् दिन औदयिकी तिथिकैव भवति एवञ्च पूर्णिमाया अमावास्याया वा टिप्पणे क्षये दृष्टे तस्याः क्षयासम्भवेन " क्षये पूर्वा तिथिः कार्या ” इत्येनेनौदयिकीत्वे प्रसाधिते तत्पूर्वस्याश्चतुर्दश्या अपि पर्वतिथित्वेनौदयिकी - त्वावश्यकतया तत्पूर्वस्यास्त्रयोदश्या एव क्षयं कृत्वा तस्मिन् दिने औदयिकीत्वं सम्पाद्याराधनं कार्यम् " इति ।
अत्र पर्वतिथेः क्षयो वृद्धिर्वा न भवति इति बुवाणः पताकाकारः प्रष्टुमभिलष्यते यदस्य तस्य वचसः किम्परता ?
33
यस्यास्तिथेः पर्वतिथित्वं जैनागमेषु गदितन्तस्याः सूर्योदयस्पर्शराहित्यन्न भवतीति, अथवा यस्याः पर्वतिथेः सूर्योदयस्पर्शः पञ्चाङ्गेन न निर्दिश्यते तस्या आराधनालोपो न शास्त्रसम्मतः, किन्तु तत्तिथिशालिन्यहनि तदाराधनैव शास्त्रसम्मता, एवं यस्यास्तिथेः पर्वतिथिता जैनशास्त्रानुशिष्टा तस्यास्सूर्योदयद्वयेन संस्पर्शो न भवति ? अथवा यस्याः पर्वतिथेः सूर्योदयस्पर्शो दिनद्वये पञ्चाङ्गेन दर्शितस्तस्याः दिनद्वये पूर्वदिने वाऽऽराधनं न शास्त्रसम्मतं किन्तूत्तरस्मिन्नेव दिने ?
तत्र " पर्वतिथेः क्षयो न भवति, पर्वतिथेर्वृद्धिर्न भवति " इतिवाक्यद्वयेन प्रतिपिपादयिषिततया विकल्पितयोः प्रथमो न सङ्गतौ, तादृशार्थकवचसो जैनागमेऽप्राप्यमाणत्वात् ।
न च " क्षये पूर्वा " इत्यादिवचनमेव टिप्पणानुसारेण क्षीणामपि पर्वतिथिमौदयिकीम्, वृद्धामपि द्वितीयस्मिन्नेव दिने औदयिकीं बोधयत् कथितार्थयोः प्रमाणमिति वाच्यम्, तस्य वचसः
૫
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org