________________
૩૨
[ જૈન દૃષ્ટિએ તિથિરિન અને પરાધન-સંગ્રહવિભાગ पर्वतिथिरेकैव भवतीति मध्यस्थेनापि स्वीकृतम् । अतश्च सत्यपि तिथेर्दिनद्वयेऽप्यौदयिकीत्वे आराधनस्यैकैव पर्वतिथिरपेक्षिता सा पूर्वा परा वेति सन्देहे परस्याः पक्षप्राप्ताया नियमनमप्राप्तांशपूरणरूपं घटत एवेति नास्माकं पक्षे दोषलेशोऽपि" इति पताकाद्वचनं प्राप्यते । ___ अत्र स पृच्छयते यद् द्वादशे पृष्ठे “ एवञ्च द्वितीयस्यां पर्वतिथावष्टम्यादावौदयिकीत्वं नियम्यते” इति प्राक स्वीकृत्य पुनरत्र पृष्ठे “ नास्माकं पक्षेऽयं वाक्यार्थो यो मध्यस्थेनोल्लिखितः किन्तु पर्वतिथित्वनियमनरूपः” इत्येवमौदयिकीत्वनियमनन्निराकुर्वतस्तस्य पूर्वापरवचसोर्यो विरोधो विभाति तन्तदीयाप्रसिद्धोत्पथचलनाऽपि कल्पना कथं समादधाति ? ___ “वृद्धौ क्षये वा कस्याश्चित्तिथेदृष्टायाम्" इत्यत्र सन्निहितं क्षयपदमुपेक्ष्य व्यवहितस्य वद्धिपदस्य समानलिङ्गतया “दृष्टायाम" इति यन्निर्दिष्टं तत कस्य भाषानियमस्यानरोधेन, को वा चमत्कारश्चिकीर्षितस्तादृशेन निर्देशेन ? “पञ्चाङ्गे” इत्यारभ्य " दृष्टायाम्" इत्यन्तस्य क्वान्वयः ? तदर्थस्य “पर्वतिथिरेकैव भवति" इत्यर्थेन, तत्सहितेन " इति मध्यस्थेनोक्तम्" इत्यर्थेन वा सह कीदृशो हेतुहेतुमद्भावः! ____ आराधनस्यैकैव पर्वतिथिरपेक्षिता सा पूर्वा परा वा “ इत्यत्र " सा पूर्वा परा वा” इति भागेन कीदृशः सन्देहोऽभिलपितुमभिलषितः ? आराधनापेक्षिततिथिर्मिकपूर्वात्वपरात्वोभयप्रकारकः उत पूर्वापराधर्मिकतादृशतिथित्वप्रकारकः ? तत्र प्रथमो न सङ्गतः; तादृशतिथौ पूर्वसूर्योदयसम्बद्धात्वरूपपूर्वात्वस्योत्तरसूर्योदयसम्बधात्वरूपपरात्वस्य च टिप्पणतो निश्चितत्वात् वृद्धायामपर्वतिथौ परमतेऽपि तयोस्समानाश्रयतया परस्परपरिहारेण स्थितिनियमाभावाच्च । द्वितीयोऽप्ययुक्त एव वृद्धायां तिथौ पूर्वात्वपरात्वयोविद्यमानतया तदाश्रययोर्भेदाभावात् , संशयत्वस्यैकधर्मिकविरुद्धकोटिद्वय प्रकारकत्व विरुद्धकोटिद्वयधर्मिकैकप्रकारकत्व, विभिन्नद्वयधर्मिकोभयावृत्तिधर्मप्रकारकत्व, द्वयावृत्तिधर्मविशेष्यकाभन्नद्वयप्रकारकत्वान्यतमनियतत्वस्य "स्थाणुनवा" अत्र स्थाणुत्वं तदभावो वा" " देहो वा ज्ञानवान् देहभिन्नो वा” " देहे वा ज्ञानं देहभिन्ने वा" इति सन्देहेषु दर्शनात् , अत्र च तादृशान्यतमाभावेन संशयत्वासम्भवात् ।
न च " वृद्धि गता तिथिः पूर्वदिने पर्वतिथिः परदिने वा” इति सन्देहो विवक्षितः। स च नानुपपन्नः । एकस्यास्तिथेरेकस्मिन्नेव दिने पर्वतिथित्वस्य सम्मतत्वात् , वृद्धायाञ्च दिनद्वये औदायिकीत्वसहितपूर्णिमात्वादेः पर्वतिथित्वप्रापकस्य सत्त्वादिति वाच्यम् , दिनद्वये औदायिक्यां पूर्णिमादौ पर्वतिथित्वस्य सुनिश्चेयत्वात् , तस्य पूर्णिमात्वाद्यन्यतमवत्त्वस्यौदयिकीत्वसहिततादृशान्यतमवत्त्वस्य वा नियतत्वात् । नचैवम् “ एका तिथिरेकत्रैव दिने पर्व-तिथिः" इति सर्वसम्मतं मतं कथं सङ्गच्छेतेति शङ्कयम् , तन्मतस्यैवासिद्धत्वात् , किन्तु दिनद्वये भवन्ती अपि पर्वतिथिरेकत्रैव दिने आराध्या' इति मतस्यैव सर्वानुमतस्य सत्त्वात् ।
किश्च पर्वतिथेः परमार्थतो वृद्धिर्न भवतीति श्रीसागरानन्दसूरिमतसमर्थने प्रवृत्तस्य पताकाकृतो निर्दिष्टे ग्रन्थे “सत्यपि तिथेर्दिनद्वयेऽप्यौदयिकीत्वे” इति कथनमपि कथं सङ्गच्छते ? टिप्पणानुसारेणेदमुक्तन्नतु सिद्धान्तानुसारेणेत्युच्यमानमपि युज्यमानं न भवति " वृद्धौ कार्या तथोत्तरा” इति वचसो मध्यस्थकथितामौदयिकीत्वनियामकतामपाकृत्य पर्वतिथित्वनियामकतास्वीकारस्य पूर्णिमादिरादिमदिने पर्वतिथिन भवतीत्येतस्मिन्नेव सिद्धान्ते पर्यवसानात् , नतु पर्वतिथिः पूर्वदिने औदायिकी न भवतीत्यस्मिन् , पर्वतिथित्वनियमनस्यौदयिकीत्वनियमननान्तरीकतया पूर्णिमादेः प्रथमदिने औदायिकोत्वाभावव्यवस्थापने पर्यवसानं सूपपन्नमेवेति वचनमप्यनुचितमेव, तथा सत्यौदयिकीत्वनियामकताखण्डनस्यायुक्तत्वप्रसङ्गात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org