________________
३१
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયને સમર્થક શ્રી અર્ધતિથિભાસ્કર ] तिथीनां वृद्धौ दृष्टायाम् आराधनार्थमुत्तराद्वितीयातिथिः स्वीकर्तव्या” इति च परस्परविरुद्धं वचनं मध्यस्थस्य कथमुपादेयकोटिमारोहेत्” इति पताकाकृतो वाक्यमुपलभ्यते । अत्र स वाक्यरचनाप्रवीणः प्रष्टव्यो जायते यत् “यन्मध्यस्थेन" इत्यस्य " मध्यस्थस्य" इत्यस्य च क्वान्वयः को वा समन्वयः का वा चारुता ? इति ।
अत्रैव पृष्ठे पूर्वोक्तग्रन्थोत्तरमेव “ समानरूपतया श्रुते वाक्यद्वये "क्षये पूर्वा तिथिः कार्या" इत्यत्र सप्तम्यां पूर्वस्याष्टमीविधानम् , अष्टमीत्वविधानं वा "वृद्धौ कार्या तथोत्तरा” इत्यत्र औदयिकीत्वनियमनम् इति वैरूप्याङ्गीकरणे किं प्रमाणम् ? किं वा फलम् ?" इति ग्रन्थः पताकाकर्तुर्दृष्टिमार्गमुपारोहति । ___ अत्रापि स महाशयः प्रश्नाहों यत्तेन स्वयमपि “क्षये पूर्वा तिथिः कार्या" इत्यत्र क्षीणाष्टम्यादावौदयिकीत्वे सप्तम्यादिपूर्वतिथिस्थाने क्षीणाष्टम्यादेः सूर्योदयावधिकांशेषु वाऽपूर्वविधित्वम् , “वृद्धौ कार्या तथोत्तरा" इत्यत्र च पताकीयत्रयोदशपृष्ठैकादशपङ्क्तिगतस्य " नास्माकं पक्षेऽयं वाक्यार्थो यो मध्यस्थेनोल्लिखितः, किन्तु पर्वतिथित्वनियमनरूपः” इति तद्वचनस्यानुसारेण पर्वतिथित्वे नियामकत्वञ्च स्वीकुर्वता यद् वैरूप्यमङ्गीकृतम् , तत्र कीदृशं सारूप्यम् ? यद्गर्वखर्वितविवेकतया तेन वस्तुतो निजोचितं “मुखमस्तीतिवक्तव्यं दशहस्ता हरीतकी" इति न्यायं मध्यस्थस्पर्शिनं वदताऽवदातोऽपि मध्यस्थो मुधैव मालिन्यं निनीषितः ।
द्वादशे पृष्ठे " वृद्धा तिथिः द्विरुदयं स्पृशतीति कतरा तिथिरौदयिकीति सन्देहे " वृद्धौ कार्या तथोत्तरा" इति नियम्यते इति नियमविधिविधायकेन शास्त्रेणोत्तरस्यामेवौदयिकीत्वं मध्यस्थस्योक्तिन्तिरस्कर्तुम् “वृद्धायास्तिथेः द्वयुदयस्पर्शित्वे दिनद्वयेऽप्यौदयिकीत्वं स्वत एव सिध्यतीति कतरा तिथिरौदयिकीति सन्देहः कथमुदियात् ? उभयोरौदयिकीत्वेन पाक्षिकत्वाभावान् “नियमः पाक्षिके सति" इति पक्षप्राप्तविषयकनियमविधित्वं वा तस्य कथं स्यात् ? "नियमविधिविधायकेन" इति शब्दे ते सर्वेऽपि दोषास्समुन्मिपन्ति ये " अपूर्वविधिविधायकेन" इत्यत्र समुद्भाविताः" इति वाक्यजातं पताकाकृताऽऽत्मनो मुखमार्गतो निस्सारितम् । . तत्र स उच्यते, यत्तेन मध्यस्थमनीषितन्निर्मलमपि मलिनीकृतं स्वात्मस्वभावेन, तथा हि न तावत् मध्यस्थो वृद्धायां तिथौ पञ्चाङ्गप्रसिद्ध सूर्योदयस्पर्शित्वलक्षणमौदयिकीत्वं सन्दिह्यमानतया विवक्षति किन्तु आराधनोपयुक्तं तत् , तच्च तादृशतिथौ नोभयदिने सम्मतं नियतं वा । अतो दिनद्वये सूर्योदयस्पर्श कुर्वन्ती तिथिः कतमस्मिन् दिने आराधनौपयिकं तमाश्रयतीति सुघटमानं सन्देहोदयं प्रचिकाशयिषोर्मध्यस्थस्य निन्दायां प्रवर्तमानः पताकाकारः स्वस्य तादृशस्वभावताम भिव्यनक्तीति व्यक्तमेव भवति विदुषाम् । एवञ्च तादृशोदयिकीत्वस्योभयस्मिन् दिनेऽसिद्धतयाऽसम्मततया च पाक्षिकप्राप्तत्वे प्रत्यूहस्य प्रक्षीणत्वेन " पक्षप्राप्तविषयविषयकनियमविधित्वमपि" वृद्धौ कार्या तथोत्तरा" इति वाक्यस्य कथन्तापथात्पृथगेव।
विधीयत इति विधिः नियमश्चासौ विधिरिति नियमविधिस्तस्य विधायकेनेत्यर्थपरे "नियमविधिविधायकेन” इति शब्दे वैगुण्यलेशस्थाप्यभावेन तत्रानेकदोषदर्शनं द्रष्टुरेव दोषकोषं गमयति, तेन विना दोषसामान्यशून्येऽनेकदोषदृष्टेरसम्भवात् ।
त्रयोदशे पृष्ठे " ननु महता प्रयासेन “वृद्धौ कार्या तथोत्तरा" इत्यस्य नियमविधित्वं मध्यस्थेनोक्तं दूषयद्भिर्भवद्भिस्स व नियमविधिपक्षः स्वीकृतः कथमिति चेत्-नास्माकं पक्षेऽयं वाक्यार्थी यो मध्यस्थेनोल्लिखितः, किन्तु पर्वतिथित्वनियमनरूपः पञ्चाङ्गे वृद्धौ क्षये वा कस्याश्चित्तिथेदृष्टाया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org