________________
36
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયને સમર્થક શ્રી અતિથિભાસ્કર ] त्त्वमुक्त्वा पुनः पुरः पदमेव " दिने यस्मिन् त्रयोदश्याः क्षयश्शास्त्रेणोक्तस्तस्मिन् दिने अधिकांशश्चतुर्दश्या व्याप्तः तदव्याप्तश्चाल्पीयानंशः” इति ग्रन्थेन तद्दिने त्रयोदश्याः सत्त्वमाशंसति । न च किञ्चिञ्चिन्तयति यद् यदा तद्दिने सूर्योदयकालाचतुर्दश्या एव सत्त्वं स्वीकृतं तदा त्रयोदशी तद्वासरे कदा कथं वा वर्तिप्यते ? इति । यदि चाधीतमीमांसतया मीमांसाऽधिकरणेषु स्नेहोद्रेकवशाद् भूमाधिकरणन्यायस्यावसरदानमत्र कर्तव्यमेव प्रतिभाति तदा सिद्धान्ताध्वना सूर्योदये विद्यमानायामेव त्रयोदश्यां "क्षये पूर्वा तिथिः कार्या” इति शास्त्रबलेनाराधनार्थं चतुर्दशीभावं संस्थाप्य तत्र दिने सूर्योदयात् परमेकद्विघटिकामात्रं त्रयोदश्याश्शेषे समग्रे भागे चतुर्दश्याश्च वर्तनं टिप्पणानुसारेण स्वीकृत्य भूमाधिकरणन्यायस्यावसरप्रदानेन परिपाल्यतां जैमिनीयन्यायानुरागः । ____षोडशे पृष्ठे "एवं च लौकिकटिप्पणेन दुर्वलेन प्राप्तमपि त्रयोदशीत्वं शास्त्रेण प्रबलेन बाध्यते, भवति हि दुर्बलेन प्रमाणेन प्रापितस्य पदार्थस्य प्रवलप्रमाणवोधितेन तेन बाधः। अङ्गीकृतश्चायं विषयो बहुत्र पूर्वमीमांसायां विरोधाधिकरणे बलाबलाधिकरणादौ च । न च दुर्बलस्यापि टिप्पणस्य प्रबलेन शास्त्रेण वाधे तस्यानर्थक्यप्रसङ्गः। एवं चानर्थक्यप्रतिहतानां विपरीतं बलाबलमिति न्यायेन टिप्पणस्यैव प्राबल्यं कुतो न स्यादिति वाच्यम् , टिप्पणस्य तिथ्यन्तरे चारितार्थ्यात् आनर्थक्याप्रसक्तेः” इति पताकाप्रणेतुः ग्रन्थः प्राप्यते। ___अत्र स पृच्छयते यद् यावत् "क्षये पूर्वा” इत्यादिशास्त्रस्य चतुर्दशीक्षयदिने त्रयोदश्याः प्रतिषेधकत्वं सन्देहदोलामेव समारूढं तावत् कथं टिप्पणस्य, सूर्योदयस्पशितिथौ तत्प्राप्तत्रयोदशीत्वस्य वा तच्छास्त्रबाध्यत्वं व्यवस्थापयितुं तेन शक्यते ?। तस्यानुपदं निर्दिष्टा उक्तिस्तु तदा युज्येत यदि मानान्तरेण तच्छास्त्रस्य चतुर्दशीक्षयदिने त्रयोदशीविरहबोधकत्वे व्यवस्थिते टिप्पणविरुद्धं बोधयतः कथन्तस्य प्रामाण्यम् ? टिप्पणप्रभवे विरुद्ध बोधे विद्यमानं कथं वा तच्छास्त्रेण विपरीतो वोध उपघातुमहः ? इति प्रश्नः प्रसरेत् । अथवा टिप्पणप्रतिकूलप्रत्ययार्जनादेव तच्छास्त्रोपपत्तिः कर्तव्या भवेत् परमत्र तयोरेकोऽपि नास्ति । न खलु साधनगन्धोऽप्येतादृशो वर्तते येनोक्तशास्त्रस्य तथाविधवोधजनकता व्यवस्थाप्येत । नवाऽस्ति टिप्पणप्रतिकूलप्रतीत्यर्जनं विना तस्य अगतिः, सिद्धान्ते टिप्पणसम्मानसंरक्षणेन सह तदुपार्जिजयिषितबोधस्य दर्शयिष्यमाणत्वात् ।
किञ्च पर्वतिथीनां क्षयवृद्धिविषये टिप्पणस्य यद्यप्रामाण्यमुपगम्यते तदा तत्प्रयोजकस्य गणितस्याशुद्धिरवश्यं वाच्या। तथा च टिप्पणस्य प्रणिनीषितुः पर्वतिथीनामिवान्यतिथीनामपि विषये गणिताशुद्धिः सम्भाव्यत एवेति तत्प्रणीतटिप्पणस्य तिथ्यन्तरेऽपि सन्दिग्धप्रामाण्यकतया तत्रापि चारितार्थ्यस्य दुनिर्णयत्वात् तस्यानर्थक्यप्रसङ्गेन “आनर्थक्यप्रतिहतानां विपरीतं बलाबलम” इतिन्यायविषयतायाः टिप्पणे सम्भवात "टिप्पणस्य तिथ्यन्तरे, चारितार्थ्यात आनर्थ क्याप्रसक्तेः” इत्युक्त्या सूच्यमानं तस्य तन्न्यायाविषयत्वमपि पताकाकृतोऽसङ्गतमेव । ____सप्तदशे पृष्ठे " अतश्च टिप्पणस्य स्वविषये सत्यपि प्रामाण्ये पारिभाषिकौदयिकीत्वविषये शास्त्रं तदनुसार्याचार्यवचनं वा प्रमाणं भवितुमर्हतीति" पताकाकृता कथितम् ।
अत्रेदं जिज्ञास्यते यत् कस्तावत् स्वविषयस्तेन टिप्पणस्य मन्यते? यत्र तस्य प्रामाण्यं निर्वाधमदघष्यते, कीदृशंच पारिभाषिकमौदयिकीत्वं तेन सम्मन्यते ? यत्र शास्त्रस्याप्रतिहता गतिरुद्गीयते । यदि तेन प्रत्युच्यते यदुक्तमेव तेन पताकायाः षोडशे पृष्ठे यत् “तत्तत्तिथ्यादीनामुदयास्तमयसम्बन्धमात्रं पञ्चाङ्गेन निर्णीयते इति तस्मिन्नेव विषये तस्य प्रामाण्यम्” इति । तदा स कथं पर्वतिथीनां सूर्योदयासम्बन्धरूपे क्षये सूर्योदयद्वयसम्बन्धरूपायां वृद्धौ च टिप्पणस्याप्रा. माण्यं स्थापयन्न त्रपते? यदि तेन पुनः प्रत्युद्यते यत्तेन टिप्पणस्य पर्वतिथीनां तादृशक्षयवृद्धयोरप्रामाण्यं नोच्यते किन्तु जैनशास्त्रैकसमधिगम्यस्य पारिभाषिकौदयिकीत्वस्य व्यतिरेके एकपर्वतिथौ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org