Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust

View full book text
Previous | Next

Page 430
________________ ૧. લવાદી ચર્ચામાં આવેલા નિર્ણયના સમર્થક શ્રી અર્જુત્તિથિભાસ્કર ] " वृद्धिः कार्या तथोत्तरा " इत्युत्तराधेस्य पताकाकृत्कर्तृकव्याख्यायाः परीक्षणम्ः पताकायाः नवम पृष्ठे " वृद्धौ कार्या तथोत्तरा ” इत्यस्यांशस्य तथैव व्याख्यां प्रदर्शयिष्यामः — इत्येवं प्रतिज्ञायोक्तम् " कस्याश्चित् पर्वतिथेर्दिनद्वयोदयव्यापित्वरूपवृद्धौ टिप्पणे दृष्टायां उत्तरा द्वितीय दिनोदयस्पर्शिन्येवौदयिकी कार्या, न पूर्वेति, अनेन वचनेन पूर्वस्या औदयिकीत्वं परिसंख्यायते, सर्वत्र द्यौदयिक्या पवाराधनाङ्गत्वं विहितम्, प्रकृते दिनद्वयेऽपि पर्वतिथिरौदयिकी भवति | दिनद्वये त्वाराधनं न भवितुमर्हति आराधनाङ्गत्वेन तिथेर्विधानात् - आराधनस्य प्रधानत्वातिथेश्च गुणभूतत्वात् गुणभूततिथ्यनुरोधेनाराधनस्य प्रधानभूतस्य द्विःकरणयोगात् गुणानुरो: धेन- प्रधानवृत्तेरन्याय्यत्वात् । अत एकस्मिन्नेव दिन आराधनार्थमौदयिकीत्वमपेक्षितम्, तत्राविशेषादुभयोरपि पाक्षिकतया प्राप्तौ सत्यामनेन वचनेन पूर्वस्यामौदयिकीत्वम् परिसंख्यायते— 'पूर्वा नौदयिकी भवितुमर्हति किन्तूत्तरैवेति " । 66 अत्रेदं विनिवेदयामः - " वृद्धौ कार्या तथोत्तरा ” इति वचसः परिसंख्याविधिभावेन सूर्योदयद्वय सहचर्यास्तिथेरौदयिकीत्वप्रतिषेधकत्वं पूर्वदिने, इति यत् पताकाकृता कथितम् तन्न सङ्गतम्, पूर्वदिनेऽपि गणितज्योतिषानुसारेण परमार्थत औदयिक्यास्तिथेस्तद्दिनेऽनौदयिकीत्वप्रत्यायकत्वे तद्वचोऽप्रामाण्यापत्तेः । न च जैनागमे एकस्याः पर्वतिथेर्दिनद्वय औदयिकीत्वस्यासम्मततया टिप्पणे दिनद्वय औदयिकत्वेन निर्दिष्टायाः पर्वतिथेः प्रथमदिन औदयिकीत्व विरहवेदयितुस्तद्वचसः प्रामाण्यमक्षुण्णमेवेति वाच्यम्, विकल्पासहत्वात्, तथा हि वाक्यमिदं स्वेतरेण जैनागमान्तर्गतेन वाक्येन कथितमर्थमनुवदति, उत स्वोद्घोषकमहिम्नैव निर्दिष्टमर्थं वोधयति ? द्वितीयेऽपि स महिमा गणितवैदुष्यवैभवरूपः तपोऽतिशयवशाविर्भूतपदार्थसार्थसाक्षात्करणसामर्थ्यरूपो वा ? नाद्यः, तादृशस्य जैनागमवाक्यस्याप्राप्तत्वात्, न द्वितीयः स्वीयप्रथमेन, गणितस्य पर्वापर्वपार्थक्यपरित्यागेनैव प्रवृत्तिमत्तया तत्साहाय्येन " जैनागमे पर्वत्वेन सम्प्रतिपन्नास्तिथयो न क्षीयन्ते न च वर्धन्ते, किन्त्वन्या एव" इति निर्णेतुमशक्यत्वात् । ,, नापि सस्वद्वितीयेन तथा सामर्थ्य तादृशस्य पर्वतिथिप्रवृत्तिविपरीतवेदिनष्टिप्पणस्य पताकाकृन्मतानुसारेण सम्प्रदायान्तरीयतद्वचसश्च परिग्रहस्यानुपपत्तेः, किन्तु " किं सेव्यते सुमनसां मनसापि गन्धः कस्तूरिकाजननशक्तिभृता मृगेण " इति पण्डितराजजगन्नाथन्यायानुसारेण पुनर्विशुद्ध तर टिप्पण प्रवर्तनस्यैवोपपत्तेः । २७ अन्य सर्वांशे यथार्थतया पर्वतिथिविषये तद्वचः सूच्यमानसंशोधनेन सह प्रथमप्रवृत्तलौकिकटिप्पणस्य संग्राह्यत्वसम्भवादेव तथा न कृतमित्यादिकन्तु कल्पनामात्रत्वात् आर्हतसम्मानसमुचितसंरक्षणाप्रवीणत्वाच्चानुपादेयमेव । नैतावताचार्योमाखातीनां काचिन्न्यूनता निर्विवक्षिता किन्तु कथितार्थस्य तत्सम्मतत्वे प्रमाणक्षीणतैव । अतष्टिप्पणेन प्रथमदिनेऽप्यौदयिकीत्वेन निर्दिष्टायामष्टम्यादौ तद्दिनेऽनौदयिकीत्वबोधने तस्य वचसः प्रामाण्यपरिक्षयोऽप्रतीकार्य एवेति निर्विवादम् । सिद्धान्ते च यथा तद्वचसः प्रामाण्यपरिरक्षणं तथा वक्ष्यते । न च टिप्पणानुसारेण भवतु नाम पर्वतिथेः पूर्वदिनेऽपि सूर्योदयस्पर्शित्वलक्षणमौदयिकीत्वं किन्तु यादृशं पारिभाषिकमाराधनाद्युपयुक्तं तादृशमेव तद्वचसा प्रथमदिने पर्वतियां प्रतिषिध्यते तच्च न टिप्पणस्य तदुपजीव्यज्योतिषस्य वा विषय इति वाच्यम्, पारिभाषिकस्य तस्य प्रदर्शनं विना तथा कथाया अनौचित्यात्, तस्य सिद्धान्तेऽपि सह्यत्वेनापूर्वत्वाभावात्, तदप्रदर्शनस्य Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552