________________
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયના સમર્થક શ્રી અર્જુત્તિથિભાસ્કર ]
" वृद्धिः कार्या तथोत्तरा " इत्युत्तराधेस्य पताकाकृत्कर्तृकव्याख्यायाः परीक्षणम्ः
पताकायाः नवम पृष्ठे " वृद्धौ कार्या तथोत्तरा ” इत्यस्यांशस्य तथैव व्याख्यां प्रदर्शयिष्यामः — इत्येवं प्रतिज्ञायोक्तम् " कस्याश्चित् पर्वतिथेर्दिनद्वयोदयव्यापित्वरूपवृद्धौ टिप्पणे दृष्टायां उत्तरा द्वितीय दिनोदयस्पर्शिन्येवौदयिकी कार्या, न पूर्वेति, अनेन वचनेन पूर्वस्या औदयिकीत्वं परिसंख्यायते, सर्वत्र द्यौदयिक्या पवाराधनाङ्गत्वं विहितम्, प्रकृते दिनद्वयेऽपि पर्वतिथिरौदयिकी भवति | दिनद्वये त्वाराधनं न भवितुमर्हति आराधनाङ्गत्वेन तिथेर्विधानात् - आराधनस्य प्रधानत्वातिथेश्च गुणभूतत्वात् गुणभूततिथ्यनुरोधेनाराधनस्य प्रधानभूतस्य द्विःकरणयोगात् गुणानुरो: धेन- प्रधानवृत्तेरन्याय्यत्वात् । अत एकस्मिन्नेव दिन आराधनार्थमौदयिकीत्वमपेक्षितम्, तत्राविशेषादुभयोरपि पाक्षिकतया प्राप्तौ सत्यामनेन वचनेन पूर्वस्यामौदयिकीत्वम् परिसंख्यायते— 'पूर्वा नौदयिकी भवितुमर्हति किन्तूत्तरैवेति " ।
66
अत्रेदं विनिवेदयामः -
" वृद्धौ कार्या तथोत्तरा ” इति वचसः परिसंख्याविधिभावेन सूर्योदयद्वय सहचर्यास्तिथेरौदयिकीत्वप्रतिषेधकत्वं पूर्वदिने, इति यत् पताकाकृता कथितम् तन्न सङ्गतम्, पूर्वदिनेऽपि गणितज्योतिषानुसारेण परमार्थत औदयिक्यास्तिथेस्तद्दिनेऽनौदयिकीत्वप्रत्यायकत्वे तद्वचोऽप्रामाण्यापत्तेः । न च जैनागमे एकस्याः पर्वतिथेर्दिनद्वय औदयिकीत्वस्यासम्मततया टिप्पणे दिनद्वय औदयिकत्वेन निर्दिष्टायाः पर्वतिथेः प्रथमदिन औदयिकीत्व विरहवेदयितुस्तद्वचसः प्रामाण्यमक्षुण्णमेवेति वाच्यम्, विकल्पासहत्वात्, तथा हि वाक्यमिदं स्वेतरेण जैनागमान्तर्गतेन वाक्येन कथितमर्थमनुवदति, उत स्वोद्घोषकमहिम्नैव निर्दिष्टमर्थं वोधयति ? द्वितीयेऽपि स महिमा गणितवैदुष्यवैभवरूपः तपोऽतिशयवशाविर्भूतपदार्थसार्थसाक्षात्करणसामर्थ्यरूपो वा ? नाद्यः, तादृशस्य जैनागमवाक्यस्याप्राप्तत्वात्, न द्वितीयः स्वीयप्रथमेन, गणितस्य पर्वापर्वपार्थक्यपरित्यागेनैव प्रवृत्तिमत्तया तत्साहाय्येन " जैनागमे पर्वत्वेन सम्प्रतिपन्नास्तिथयो न क्षीयन्ते न च वर्धन्ते, किन्त्वन्या एव" इति निर्णेतुमशक्यत्वात् ।
,,
नापि सस्वद्वितीयेन तथा सामर्थ्य तादृशस्य पर्वतिथिप्रवृत्तिविपरीतवेदिनष्टिप्पणस्य पताकाकृन्मतानुसारेण सम्प्रदायान्तरीयतद्वचसश्च परिग्रहस्यानुपपत्तेः, किन्तु " किं सेव्यते सुमनसां मनसापि गन्धः कस्तूरिकाजननशक्तिभृता मृगेण " इति पण्डितराजजगन्नाथन्यायानुसारेण पुनर्विशुद्ध तर टिप्पण प्रवर्तनस्यैवोपपत्तेः ।
२७
अन्य सर्वांशे यथार्थतया पर्वतिथिविषये तद्वचः सूच्यमानसंशोधनेन सह प्रथमप्रवृत्तलौकिकटिप्पणस्य संग्राह्यत्वसम्भवादेव तथा न कृतमित्यादिकन्तु कल्पनामात्रत्वात् आर्हतसम्मानसमुचितसंरक्षणाप्रवीणत्वाच्चानुपादेयमेव । नैतावताचार्योमाखातीनां काचिन्न्यूनता निर्विवक्षिता किन्तु कथितार्थस्य तत्सम्मतत्वे प्रमाणक्षीणतैव ।
अतष्टिप्पणेन प्रथमदिनेऽप्यौदयिकीत्वेन निर्दिष्टायामष्टम्यादौ तद्दिनेऽनौदयिकीत्वबोधने तस्य वचसः प्रामाण्यपरिक्षयोऽप्रतीकार्य एवेति निर्विवादम् । सिद्धान्ते च यथा तद्वचसः प्रामाण्यपरिरक्षणं तथा वक्ष्यते ।
न च टिप्पणानुसारेण भवतु नाम पर्वतिथेः पूर्वदिनेऽपि सूर्योदयस्पर्शित्वलक्षणमौदयिकीत्वं किन्तु यादृशं पारिभाषिकमाराधनाद्युपयुक्तं तादृशमेव तद्वचसा प्रथमदिने पर्वतियां प्रतिषिध्यते तच्च न टिप्पणस्य तदुपजीव्यज्योतिषस्य वा विषय इति वाच्यम्, पारिभाषिकस्य तस्य प्रदर्शनं विना तथा कथाया अनौचित्यात्, तस्य सिद्धान्तेऽपि सह्यत्वेनापूर्वत्वाभावात्, तदप्रदर्शनस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org