________________
२८
[ જૈન દષ્ટિએ તિથિનિ અને પરાધન-સંગ્રહવિભાગ पताकाकृतस्तत्प्रत्यायकत्वात् , तादृशस्य च तस्यैकदिनेऽपि तिथिद्वये सम्भवेन पर्वानन्तरपतिथिक्षयस्थले दिनभेदेन तिथिद्वयाराधनव्यवस्थाया अयौक्तिकत्वाच्च ।
अत्र प्रसङ्गे पताकाकृतोक्तम् “ आराधनाङ्गत्वेन तिथेविधानात् आराधनस्य प्रधानत्वात्तिथेश्च गुणभूतत्वात् गुणभूततिथ्यनुरोधेनाराधनस्य प्रधानभूतस्य द्विःकरणायोगात् गुणानुरोधेन प्रधानवृत्तेरन्याय्यत्वात् " इति वचनमप्यालोचनमर्हति, तथाटतेन वाक्येन 'तिथ्यनुरोधेनाराधनस्य द्विःकरणस्यायुक्तत्वमुक्तम' तत्र च तिथेः गौणत्वमाराधनस्य च प्रधानत्वं हेततयोपन्यस्तम । परमिदमसङ्गतम् । यतो हि पर्वतिथिमत्सु दिनेषु या पर्वतिथ्याराधनाः विहितास्ताः पर्वतिथिनिमित्तिका इति तासां पर्वतिथ्यनुविधानं न्याय्यमेव नैमित्तिकस्य निमित्तानुसारितायाः सर्वसम्प्रतिपन्नत्वात् । एवञ्च यथा निमित्तभूतायाः पर्वतिथेरेकदिने औदयिकीत्वे एकदिने तदाराधना क्रियते तथा तस्या दिनद्वय औदयिकीत्वे दिनद्वये तदाराधनायाः कर्तव्यता न्यायौचित्यप्राप्ता। अत एव च तादृशतिथेः पूर्वदिने आराधनायाः निरोधाय तस्मिन् दिने तस्या औदयिकीत्वस्य प्रतिषेधं कृत्वा द्वितीयस्मिन्नेव दिने तद्व्यवस्थापनं संगच्छते, अन्यथाऽऽराधनायास्तिथेरननुचरीत्वे वृद्धायास्तिथेः पूर्वदिनेऽप्यौदयिकीत्वेऽपि तद्दिने तस्या अप्राप्त्या तत्प्रयासस्य वैयर्थ्यापत्तेः । नचाराधनायास्तिथ्यनुरोधेन प्रवृ. . त्यभ्युपगमे पूर्वतिथेर्दिनद्वय औदयिकीत्वे दिनद्वये एव तस्या आराधनमपरिहार्यमिति वाच्यं "वृद्धौ कार्या” इति वचसा पूर्वदिने परिसंख्याय द्वितीय दिन एव तस्या व्यवस्थापनात् । न च पाक्षिकप्रवृत्त्यभावेन तस्याः परिसङ्घ यानमनुचितमिति वाच्यम् “ एका पर्वतिथिरेकस्मिन्नेव दिने औदयिकी” इति जैनजगत्प्रसिद्ध यनुरोधेन टिप्पणेन दिनद्वये एकपर्वतिथेः निर्दिष्टस्याप्यौदयिकीत्वस्य विनिगमनाविरहेण पूर्वोत्तरदिनयोः पाक्षिकप्राप्तेरिव “ एका पर्वतिथिरेकत्रैव दिने आराध्यत्वेन सम्मता" इत्याहतप्रजाप्रसिद्धयनुरोधेन आराधनाया अपि पाक्षिकप्राप्तिसम्भवात् , पताकाया एकादशे पृष्ठे “ उभयत्राप्यौदयिकीत्वसत्त्वाद् दिनद्वयेऽपि आराधनं पाक्षिकतया प्राप्तम्" इति वदता पताकाकृता तत्स्वीकाराच्च ।। ___ वस्तुतस्तु समुच्चित्य प्राप्तिनियतायाः परिसंख्यायाः पाक्षिकप्राप्तिस्थले समर्थनमत्यन्तमुपहासास्पदम् ।
अस्मिन्नेव प्रकरणे एकादशे पृष्ठे तत्र “वृद्धौ कार्या तथोत्तरा" इत्यनेनोत्तरस्या औदयिकीत्वबोधनपूर्वकं पूर्वस्या औदयिकीत्वं व्यावय॑ते । औदयिकीत्वाभावाच्च सा अपर्वतिथिः सम्पद्यते। "तत्पूर्ववर्तिनी सप्तम्येवौदयिकी द्विः सूर्योदयस्पर्शिनीति सैव वृद्धा” इति यत् पताकाकृतोक्तम् , तदत्यन्तमसत् , उत्तरस्याः पूर्वस्याश्च तिथेरेकतया उत्तरस्या औदयिकीत्वस्य द्वितीयस्यास्तद्राहित्यस्य चासम्भवात् । उत्तरदिने तत्तिथेरौदयिकीत्वं पूर्वदिने चौदयिकीत्वमित्यर्थे तात्पर्यमित्यपि वचनमनुचितमेवः ज्यौतिषप्रतिकूलप्रतिपादने तद्वचस्तात्पर्यवर्णनायाः वर्णितरीत्या असङ्गतत्वात् , ज्यौतिषापेक्षया धर्मशास्त्रत्वाद् बलवत्तया तद्वचस्तद्विरुद्धाभिधाने न क्षीणशक्तिकमित्यपि कथनं न शोभनं ज्यौतिषाविरोधेनोपपत्तिसम्भवे तद्विरोधेन धर्मशास्त्रस्याप्यर्थवर्णनाया अवाञ्छनीयत्वात् । यथा च तदविरोधेनापि तद्वच उपपद्यते तथा सिद्धान्तव्याख्योपन्यासे प्रदर्शयिष्यते ।
“औदयिकीत्वाभावाच्च सा अपर्वतिथिः सम्पद्यते” इत्यपि मतिः पताकाकारस्य दुर्मतिरेव, पूर्वोत्तरदिवसीयायास्तस्या अभिन्नतया उत्तरदिनेऽपि तस्या अपर्वतिथित्वापत्तेः, पूर्वदिनेऽनौदयिकीत्वेन तद्दिने साऽपर्वतिथिः सम्पद्यत इत्यर्थो विवक्षित इत्यपि वचो न चारु, उक्तप्रकारेण पूर्वदिनेऽपि तस्या औदयिकीत्वाभावबोधने तद्वचसोऽसामर्थ्यन गणितेन बोधितस्य तस्यास्तदिने औदयिकीत्वस्याक्षुण्णत्वात् , पर्वतिथित्वेऽष्टमीत्वाद्यन्यतमवत्ताया एव तन्त्रतया औदयिकीवाभावप्रयोज्याभावप्रतियोगित्वायोगाच्च, अन्यथा-क्षीणाष्टम्यादौ तदभावात् पर्वतिथित्वाभावस्य सम्पन्नतया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org